अथ चित्तं समाधातुं...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
- अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवमः(९) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥
अन्वयः[सम्पादयतु]
धनञ्जय ! अथ मयि चित्तं स्थिरं समाधातुं न शक्नोषि ततः अभ्यासयोगेन माम् आप्तुम् इच्छ ।
शब्दार्थः[सम्पादयतु]
- धनञ्जय = अर्जुन !
- अथ = यदि
- चित्तम् = चेतः
- स्थिरम् = निश्चलम्
- समाधातुम् = स्थापयितुम्
- न शक्नोषि = न प्रभवसि
- ततः = तर्हि
- माम् = माम्
- अभ्यासयोगेन = चित्तस्य पुनः पुनः स्थापनेन
- आप्तुम् = लब्धुम्
- इच्छ = अभिलष ।
अर्थः[सम्पादयतु]
धनञ्जय ! यदि मयि चेतः निश्चलं स्थापयितुं न शक्नोषि तर्हि चित्तस्य पुनः पुनः स्थापनेन मां प्राप्तुं यतस्व ।