अद्भुतरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अद्भुतस्य विस्मयः स्थायिभावो भवति । अपूर्ववस्तुदर्शनादिभिर्जायमानश्चित्तविस्तारो विस्मयः । अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः इति रसगङ्गाधरकारः । अद् इति आश्चर्यार्थकाव्ययः भवति। भू धातोः डुतच् प्रत्यये कृते "अद्भुत" इति पदस्य निष्पत्तिः भवति। "तर्कातिगं तादृशं नः” इति यादवकोशात् ज्ञायते यत् तर्कस्याप्राप्तिविषयः अद्भुतरसः भवति। अयं रसः गन्धर्वदेवतात्मकः भवति। अस्य रसस्य वर्णः हरिद्रायुक्तः भवति। आश्चर्यकरणि कार्याणि यः करोति सः आलम्बनविभावः भवति। आश्चर्यकरकार्यम् उद्दीपनविभावः भवति। स्वेदः, रोमाञ्चनम्, गद्गदस्वरः, नेत्रविकासादयः अनुभावाः भवन्ति। हर्षः, वितर्कः, सम्भ्रान्त्यादयः व्यभिचारिभावाः भवन्ति। एतैः विभावानुभावव्यभिचारिभावैः मिलितः स्थायिभावः अद्भुतः रसः भवति। अदृष्टस्य दर्शनेन, अश्र्रुतस्य श्रवणेन, दिव्यदर्शनेन, विज्ञानेन, मायया, इन्द्रजालादिभिः च अद्भुतरसस्य उत्पत्तिः भविष्यति। अस्य रसस्य वर्णनं भरतमुनिः स्वनाट्यशास्त्रग्रन्थे एवं निरूपितवान् अस्ति। यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा।
तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम्॥ इति।

"https://sa.wikipedia.org/w/index.php?title=अद्भुतरसः&oldid=372753" इत्यस्माद् पुनः प्राप्तिः