अधर्मं धर्ममिति या...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अधर्मं धर्ममिति या मन्यते तमसावृता ।
- सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अधर्मं धर्मम् इति या मन्यते तमसा आवृता सर्वार्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥
अन्वयः[सम्पादयतु]
पार्थ ! तमसा आवृता या बुद्धिः अधर्मं धर्मम् इति सर्वार्थान् विपरीतान् च मन्यते सा तामसी ।
शब्दार्थः[सम्पादयतु]
- तमसा = तमोगुणेन
- आवृता = आच्छादिता
- सर्वार्थान् = सकलविषयान्
- विपरीतान् = विरुद्धान् ।
अर्थः[सम्पादयतु]
पार्थ ! या बुद्धिः तमोगुणेन आवृता अधर्मं धर्मः इति जानाति, सर्वान् अपि अर्थान् विपरीतानेव जानाति सा बुद्धिः तामसी इति कथ्यते ।