अध्येष्यते च ये इमं...
दिखावट
श्लोकः
[सम्पादयतु]![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।
- ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्ततितमः(७०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥
अन्वयः
[सम्पादयतु]यः च धर्म्यम् आवयोः इमं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।
शब्दार्थः
[सम्पादयतु]- धर्म्यम् = धर्मयुक्तम्
- संवादम् = सम्भाषणम्
- अध्येष्यते = पठिष्यति
- ज्ञानयज्ञेन = ज्ञानरूपयागेन
- इष्टः = पूजितः
- स्याम् = भवेयम् ।
अर्थः
[सम्पादयतु]यो वा मनुष्यः आवयोः इदं सम्भाषणं सम्यक् पठिष्यति सः ज्ञानयज्ञेन मां यजति इत्येव मम मतिः ।