अनपेक्षः शुचिर्दक्ष...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
- सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥
अन्वयः
[सम्पादयतु]यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी मद्भक्तः सः मे प्रियः ।
शब्दार्थः
[सम्पादयतु]- यः = यः पुरुषः
- अनपेक्षः = निःस्पृहः,निरपेक्षः
- शुचिः = शुद्धः
- दक्षः = चतुरः
- उदासीनः = तटस्थः
- गतव्यथः = अपगतभयः,निर्भयः
- सर्वारम्भपरित्यागी = सकामकर्मानुानत्यागी
- भक्तः = भगवक्तः
- (सः) मे = प्रियः = सः मम अभीष्टः ।
अर्थः
[सम्पादयतु]यः पुरुषः निःस्पृहः शुद्धः चतुरः तटस्थः अपगतभयः सर्वेषां कर्मणां फलं त्यजन् भगवद्भक्तः च वर्तते सः मम अभीष्टः ।