अनार्कली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अनार्कली  
Anarkali.jpg
अनार्कल्याः चित्रम्
लेखकः डॉ. राघवः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

अनार्कली-प्रकरणं डा० राघवस्य प्रारम्भिकरचनासु विद्यते । अस्य रूपकस्य प्रणयनं १९३९ ईसवीयेऽभिनयश्च १९६९ ईसवीये १९७३ ईसवीये च संवृत्तः ।

कथावस्तु[सम्पादयतु]

फतहपुरसीकर्या अध्यात्ममण्डपे (इबादतखाना) सम्राडकबरः स्वमन्त्रिभिः सह मन्त्रयते । स हिन्दूनां कृते स्वसम्मानस्य भावनायाः कारणं निर्वक्ति - मम जन्म हिन्दुगृहेऽभवत् । तत्र (हिन्दुगृहे) मम पिता शरणमवाप्तवान् । मम पत्नी "योधाबाई" हिन्दुपरिवारस्यास्ति । अहं स्ववधूमपि हिन्दुकुटुम्बादेव चिनोमि स्म।

मुल्ला हिन्दून् प्रति विषमुद्वमन्तोऽविद्यन्त । अकबरं सर्वधर्मनेतारो मिलन्ति । तस्य च प्रवृत्तीः सात्विकतापूर्णा विदधति।

द्वितीये तृतीये चाङ्के अकबरः अनेकेषां कलाविदां शास्त्रिणाञ्च कृतित्वस्य परिचयं प्राप्नोति । अथ दक्षिणभारतादागता नादिरा (अनार्कली) नाम्नी परिचारिका पुण्डरीकविठ्ठलस्य शिष्या सम्राजः समक्षं गानायादिश्यते।

चतुर्थेऽङ्के राजकुमारं सलीमम् अनार्कली रहसि मिलति। सलीमः नादिराम् एवम् अवर्णयत् -

नादिरा मदिरा नूनं मादिनी मनसो मम।

सत्यमेतावदप्राप्तपाकं त्वं पुण्यमेव नः॥

नादिराया भाग्ये कुत इदम्? पञ्चमाङ्के विष्कम्भके सत्तापरिवर्तनस्य षड्यन्त्रं विधीयते। षष्ठेऽङ्के सलीमोऽनार्कल्यै समुद्विग्नो भवति। तस्याः प्राप्तौ समुपभोगात् प्राक् स वक्ति -

यदेव प्राप्यते कृच्छात्तदेव परमं सुखम्।

वियोगविन्नकष्टानि विना पुष्टी रसस्य का।।

अनार्कल्याः संगीताचार्यः पुण्डरीकविठ्ठलस्ताममिलत् । आचार्येण दृष्टं यत् सा नृत्यं प्रदर्शनसमये न तथा प्रसन्ना | आचार्ये गतवति सख्यः तां मण्डयामासुः । तस्या दुःस्थितिं श्रुत्वा ताः ऊचुः -

म्लायन्ति पुष्पाण्यपि गन्धवन्ति लोकप्रियः क्षीयत एव चन्द्रः।

परस्परं प्रेमवतां न योगो धातुः पुरा कोऽपि न बुद्धिदोऽभूत्।।

अष्टमाङ्के मूर्ता भावसमृद्धिरिव कृतमण्डनार्कली रङ्गं प्रविवेश । तानसेनोऽपि तस्य नृत्यबन्धं द्रष्टुमुत्सुक आसीत् । आचार्य आदिदेश - अनार्कलि ! नृत्याभिनयः प्रारभ्यताम् । नृत्याभिनये सलीमस्य अनार्कल्याश्चचक्षुसि वारंवारममिलन् । तत्सर्वं रहीमोऽकबरायादर्शयत् । सम्राडाज्ञापयामास - इयं वेश्या सद्यः कारागृहं नीयताम् । श्वचेयं कुड्ये चीयताम्।

नवमेऽङ्के सलीमः कारागारादनार्कलीं गृहीत्वा तया सह पलायनस्य योजनां रात्रौ कार्यान्वितां कर्तुं समीहते । तदर्थं स तस्याः समीपं गत्वा तामाश्वासयति – एषोऽहं त्वां रक्षामि । मम मित्राणि सन्ति । शीघ्रं च दूरं पलायितुं साधनानि सन्ति प्रस्तुतानि | अनार्कली बोधयामास - कथङ्कारम् एतादृशे संशये भवानात्मानं निक्षिपति | सा रघुवंशमहाकाव्यस्य पंक्तिमिव अब्रवीत् -

एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च।

अल्पस्य हेतोर्बहु मास्तु हानं जीवन्नरो भद्रशतानि पश्येत्॥

अस्मिन्नेव समये तत्र सम्राडागतः । सर्वे इतस्ततः पलायिताः । अनार्कली विषं भुक्त्वात्मानं व्यापादयितुमैच्छत्, परंतु सा सम्रारया तथा कर्तुं न शशाक । सलीमस्य हिन्दूपत्न्याः प्रार्थनया सम्राड् अनार्कलीम् अक्षमतेति पुण्डरीकविठ्ठलाचार्यः सलीमाय संदिदेश । तच्छुत्वा राजकुमार उवाच -

पतिव्रतायाः सौजन्यं तथावीर्यवदेधते।

यथा वज्रकठोरेण नृपेण कुसुमायितम्।।

अथ तानसेनेनागत्य निवेदितम् - महाराजो भवन्तं मिलितुमागच्छति । ततः सम्राड् राजकुमारमुवाच -

किं ते भूयः प्रियमुपकरोमि।

समीक्षा[सम्पादयतु]

प्रस्तुतस्य प्रकरणस्य प्रथम-द्वितीयाङ्कयोः सामग्री अर्थोपक्षेपके भवेत् । यदि चास्य प्रारम्भः तृतीयाङ्कतः सम्पद्येत, तर्हि कलाया दृष्ट्या रूपकमिदमधिकं रुचिकरं भवेद् नाट्यशास्त्रानुकूलं च

शिल्पम्[सम्पादयतु]

अनार्कली–प्रस्तावनायां सूत्रधारस्यैकविंशति-पंक्तीनां लम्बतरं व्याख्यानं नाट्योचितं न वर्तते । प्रथमाङ्कात् पूर्वं विष्कम्भके सूच्यकथाया अल्पत्वं दृश्यकथायाश्च बाहुल्यं वर्तते । विष्कम्भके सुन्नीसियानां कलहो, द्वन्द्वयुद्धं, सम्राजः संन्यासि-वेशे रङ्गपीठ-आगमनम् अनौचित्यप्रवर्तितं विद्यते।

तृतीयाङ्कस्य वस्तुजातमङ्कोचितं नास्ति । एतत् सर्वं प्रवेशके विष्कम्भके वा देयम् । छायातत्त्वमस्मिन् प्रकरणे सविशेषमस्ति । अकबरः संन्यासिवेशं धारयति, वीरवरश्च काणो भूत्वा रङ्गपीठं विशति । एकोक्तीनां सौरभमनार्कल्यामाद्यन्तं विलसति । दीर्घादीर्घतराश्चैकोक्तयः प्रकरणेऽस्मिन् राजन्ते । षष्ठाङ्कस्यारम्भे सलीमस्यैकोक्तिः ६५ पृष्ठेषु पूर्णतां लभते ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनार्कली&oldid=435692" इत्यस्माद् पुनः प्राप्तिः