अनाश्रितः कर्मफलं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः सः सन्न्यासी च योगी च न निरग्निः न च अक्रियः ॥

अन्वयः[सम्पादयतु]

यः कर्मफलम् अनाश्रितः कार्यं कर्म करोति सः सन्न्यासी च योगी च (भवति) । निरग्निः न, अक्रियः च न भवति ।

शब्दार्थः[सम्पादयतु]

यः = यः पुरुषः
कर्मफलम् = कर्मणः प्रयोजनम्
अनाश्रितः = अनालम्बमानः
कार्यम् = कर्तव्यम्
कर्म = कृत्यम्
करोति = आचरति
सः = सः पुरुषः
सन्न्यासी च = यतिः च
योगी च = युक्तः च
निरग्निः न = अग्निसाध्यश्रौतकर्मपरित्यागी न भवति
अक्रियः च = अग्निनिरपेक्षस्मार्तकर्मपरित्यागी अपि
न = न भवति ।

अर्थः[सम्पादयतु]

यः कर्मफलम् अनपेक्षमाणः कर्म करोति सः सन्न्यासी इति उच्यते । सः एव योगी अपि ।अग्नित्यागमात्रेण कोऽपि जनः सन्न्यासी न भवति । कर्मत्यागमात्रेण कोऽपि जनः योगी अपि न भवति । (अग्निरक्षणं गृहस्थस्य धर्मः । सन्न्यासाश्रमस्वीकारावसरे अग्नित्यागः क्रियते ।)

शाङ्करभाष्यम्[सम्पादयतु]

अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रत्यन्तरङ्गस्य सूत्रभूताः श्लोकाः स्पर्शान्कृत्वा बहिरित्यादय उपदिष्टास्तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्यायआरभ्यते, तत्र ध्यानयोगस्य बहिरङ्गं कर्मेति यावद्धयानयोगारोहणासमर्थस्तावद्गृहस्थेनाधिकृतेन कर्तव्यं कर्मेत्यतस्तत्स्तौति-अनाश्रित इति। ननु कर्म कारणमुच्यतइति विशेषणादारूढस्य च शमेनैव संबन्धकरणात्। आरुरुक्षोरारूढस्य च शमः कर्म चोभयं कर्तव्यत्वेनाभिप्रेतं चेत्स्यात्तदारुरुक्षोरारूढस्य चेति शमकर्मविषयभेदेनविशेषणं विभागकरणं चानर्थकं स्यात्। तत्राश्रमिणां कश्चिद्योगमारुरुक्षुर्भवत्यारूढश्च कश्चिदन्ये नारुरुक्षवो न चारूढास्तानपेक्ष्यारुरुक्षोरारूढस्य चेति विशेषणंयविभागकरणं चोपपद्यत एवेति चेत्। न। तस्यैवेति वचनात्। पुनर्योगग्रहणाच्च योगारूढस्येति य आसीत्पूर्वं योगमारुरुक्षुस्तस्यैवारूढस्य शम एव कर्तव्यं कारणं योगफलंषप्रत्युच्यत इति। अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः, योगविभ्रष्टवचनाच्च। गृहस्थस्य चेत्कर्मिणो योगो विहितः षष्ठेऽध्याये स योगविभ्रष्टोऽपिकर्मगतिं कर्मफलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात्। अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारभ्यत्वे स्वं फलमारभत एव। नित्यस्यच कर्मणो वेदप्रणाणावबुद्धत्वात्फलेन भवितव्यमित्यवोचाम, अन्यथा वेदस्यानर्थक्यप्रसङ्गादिति। नच कर्मणि सत्युभयविभ्रष्टवचनमर्थवत्, कर्मिणोविभ्रंशकारणानुपपत्तेःपकर्म कृतमीश्वरे संन्यस्येत्यतः कर्तरि कर्म फलं नारभत इति चेत्। नेश्वरे संन्यासस्याधिकतरफलहेतुत्वोपपत्तेः। मोक्षायैवेति चेत्स्वकर्मणां कृतानामीश्वरे न्यासोमोक्षायैव न फलान्तराय, योगसहितो योगच्च विभ्रष्ट इत्यतस्तं प्रति नाशाशङ्का युक्तैवेति चेत्। न। 'एकाकी यतचित्तात्मा निराशीरपरिग्रहः', 'ब्रह्मचारिव्रत स्थितः',इति कर्मसंन्यासविधानात्। नचात्र ध्यानकाले स्रीसहायत्वाशङ्का येनैकाकित्वं विधीयते। नच गृहस्थस्य निराशीरपरिग्रह इत्यादिवचनमनुकूलम्। उभयविभ्रष्टप्रश्नानुपपत्तेश्च।अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तं, प्रतिषिद्धं च निरग्नेरक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्। न। ध्यानयोगं प्रति बहिरङ्गस्यसतः कर्मणः फलाकाङ्क्षा संन्यासस्तुतिपरत्वात्। न केवलं निरग्निरक्रिय एव संन्यासी योगी च किं तर्हि कर्म्यपि कर्मफलासंङ्ग संन्यस्य कर्मयोगमनुति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनाश्रितः_कर्मफलं...&oldid=418405" इत्यस्माद् प्रतिप्राप्तम्