अनिष्टमिष्टं मिश्रं च...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
- भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवति अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥
अन्वयः
[सम्पादयतु]अनिष्टम् इष्टं मिश्रं च इति कर्मणः त्रिविधं फलम् । अत्यागिनां प्रेत्य भवति सन्न्यासिनां तु न क्वचित् ।
शब्दार्थः
[सम्पादयतु]- अनिष्टम् = अनभिमतम्
- इष्टम् = अभिमतम्
- मिश्रम् = सीर्णम्
- त्रिविधम् = त्रिप्रकारम्
- फलम् = प्रयोजनम्
- अत्यागिनाम् = त्यागरहितानाम्
- प्रेत्य = मरणानन्तरम्
- क्वचित् = कदापि ।
अर्थः
[सम्पादयतु]ये तु कर्मफलम् अपेक्ष्य कर्म कुर्वन्ति ते सकामाः । तेषां कर्मफलं यदि पुण्यं तर्हि देवत्वम्, यदि पुनः पापं तर्हि नारकित्वम्, अथ उभयं तर्हि मनुष्यत्वम् इति फलविभागः । ये पुनः फलापेक्षां विना भगवदर्पणबुद्ध्या कर्म कुर्वन्ति ते सन्न्यासिनः । तेषां तु ईदृशं फलं न सम्भवत्येव । तेषां मोक्षः एव फलम् ।