अनुबन्धचतुष्टयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अनुबन्धचतुष्टयम्

सर्वस्य अपि शास्त्रग्रन्थस्य आरम्भः भवति अनुबन्धचतुष्टयेन(Anubandha Chatushtaya) एव । अस्मिन् चत्वारः अंशाः विद्यन्ते -

१ विषयः
२ प्रयोजनम्
३ सम्बन्धः
४ अधिकारी

चतुर्भिः अंशैः युक्तम् इत्यतः चतुष्टयम् इति निर्दिष्टम् । एतेषाम् अवगमनात् परमेव (अनु) ग्रन्थः वाचकं पठने (बध्नाति) प्रचोदयति । अतः अयम् अनुबन्धः । एवं चतुर्णाम् अंशानां विवरणेन एव ग्रन्थस्य आरम्भः सर्वैः अनुस्रियमाणः सम्प्रदायः वर्तते ।

विषयः[सम्पादयतु]

निर्दिष्टे शास्त्रग्रन्थे प्रतिपद्यमानः अर्थः तन्नाम चर्च्यमाणः विषयः सः । वेदान्तग्रन्थेषु जगत्-ब्रह्म-जीव – इत्येते एव विषयाः भवन्ति । एते त्रयः अपि पृथक्भूताः इत्येव अभिप्रायः भवति सामान्यतः सर्वेषाम् जनानाम् । श्रुतौ अपि एतादृशैः अभिप्रायैः युक्तानि वाक्यानि लभ्यन्ते । एतानि कर्मोपासनसम्बद्धानि । एतानि अवान्तरवाक्यानि – तन्नाम प्रासङ्गिकतया उक्तानि वाक्यानि इति निर्दिश्यते । यतः श्रुतेः तात्पर्यं भिन्नमेव भवति ।
जगत् ब्रह्म जीवाश्च स्थूलरूपेण भिन्नाः इत्येव भासेत किन्तु तेषां स्वरूपानुसन्धानेन अवगम्यते यत् जगत् जीवाश्च ब्रह्मात् पृथग्भूताः न इति शास्त्रेण साधयितुं शक्यम् । व्यवहारदृष्ट्या भिन्नाः चेदपि स्वरूपदृष्ट्या विद्यमानं ब्रह्म एकमेव । श्रुतौ अस्य बोधकानि वाक्यानि बहूनि विद्यन्ते । तानि महावाक्यानि । यतः एतानि भासमानान् भेदान् निराकुर्वन्ति । ब्रह्मात् बृहत् न किञ्चित् विद्यते । अतः एव इदं ब्रह्म इत्युच्यते (बृहत्तमत्त्वात् ब्रह्म - तै २ १ १) । इदं ब्रह्मशब्दः नपुंसकलिङ्गशब्दः । इदं परब्रह्म इत्यपि निर्दिश्यते । ब्रह्मा इत्येषः शब्दः पुंलिङ्गशब्दः । इयं काचित् देवता । अयमेव चतुर्मुखः ब्रह्मा । श्रुतौ अयं हिरण्यगर्भः इति निर्दिश्यते ।

प्रयोजनम्[सम्पादयतु]

निर्दिष्टस्य ग्रन्थस्य अध्ययनेन वाचकेन प्राप्यमाणः लाभः एव प्रयोजनम् । सर्वः अपि जनः आत्मानं जगतः, ब्रह्मात्, जीवेभ्यः च भिन्नः इत्येव चिन्तयति । एतया भेदबुद्ध्या एव मनुष्याः सर्वविधान् व्यवहारान् कुर्वन्ति । एतैः एव पुण्यपाप-सुखदुःख-लाभनष्ट-मानापमानादिभिः द्वन्द्वैः युक्तः संसारः सम्भवति । अस्मिन् संसारव्यवहारे पुरुषाणां चतुर्विधाः अपेक्षाः भवेयुः । ते एव चतुर्विधाः पुरुषार्थाः - धर्मः, अर्थः, कामः, मोक्षः च ।
इहलोके परलोके वा शारीरक-मानसिकसुखानां प्राप्तेः, शारीरक-मानसिकदुःखानां निवारणस्य आशा एव कामः । एतस्य कामस्य प्राप्त्यै आवश्यकानि साधनानि एव अर्थः । जीवनस्य प्रत्येकस्मिन् स्तरे अपि सुखं भिन्नं भवति । प्रत्येकस्य व्यक्तेः सुखमपि भिद्यति । अपि च कस्मिन्नपि सुखे दुःखलेशः विद्यते एव । कालान्तरे इदं सुखं समाप्यते इत्येतत् दुःखं वा भवति एव । एवं इदं सुखं देश-काल-व्यक्तिसापेक्षं सत् अशुद्धं तात्कालिकञ्च वर्तते । अतः मनुष्यः दोषरहितं सुखं सम्पादयितुं प्रयतते । अस्य प्रयत्नाय अपेक्षितः व्यष्टि-समष्टिनियमः एव धर्मः । अयमपि सापेक्षः एव । सापेक्षरहितः नित्यः निर्दोषः निरतिशयः आनन्दः कश्चन विद्यते । सः एव मोक्षः ।
एते धर्मार्थकाममोक्षाः कथं प्राप्तव्याः इति ज्ञातुं द्वे विद्ये स्तः । इहे परे च कामतृप्त्यर्थं ज्ञातव्या विद्या अपरविद्या । शृतेः कर्मकाण्डे उपासनाकाण्डे च एषा विद्या उपदिष्टा । मोक्षाय ज्ञातव्या पराविद्या । शृतेः ज्ञानकाण्डे उपदिष्टा । अपरा नाम अश्रेष्ठा, परा नाम श्रेष्ठा ।

सम्बन्धः[सम्पादयतु]

अस्य ग्रन्थस्य प्रमेयं यत् शुद्धचैतन्यं तस्य प्रतिपादकोपनिषत्प्रमाणस्य च बोध्य-बोधकभावः सम्बन्धः ।

अधिकारी[सम्पादयतु]

अधिकारी तु विधिवदधीत वेदवेदाङ्गत्वेनापाततोऽधिगतवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा, काम्यनिषिद्धवर्जनपुरस्सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया साधनचतुष्टयसम्पन्नः प्रमाता । अर्थात् एवं गुणगणविशिष्टः प्रमाता एव वेदान्तशास्त्राध्ययनस्य अधिकारी भवति ।

"https://sa.wikipedia.org/w/index.php?title=अनुबन्धचतुष्टयम्&oldid=402144" इत्यस्माद् पुनः प्राप्तिः