अनुमानवादः (अलङ्कारशास्त्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



अभिनवगुप्तस्यानन्तरं स्थितेषु लाक्षणिकेषु, ध्वनिवादखण्डनपूर्वकं स्वीयवादोपस्थापने महिमभट्टः प्रधानो भवति । सः, सर्वेषां ध्वनिभेदानामनुमानेऽन्तर्भावं प्रदर्शयितुमेव व्यक्तिविवेकग्रन्थं निर्ममे । आनन्दवर्धनः अभिधा – लक्षणा- व्यञ्जना –व्यापारानङ्गीचकार । महिमभट्टः, व्यञ्जनाव्यापारोऽनावश्यकः इति, लक्षणाव्यापारोऽप्युनुमानेऽन्तर्भावयितुं योग्य इति, च मेने । सर्वे ध्वनिभेदाः अनुमानेऽन्तर्भावयितुं युक्ता इति महिमभट्टस्य सिध्दान्तः । सः स्वीयमनुमानं काव्यानुमितिरुपमुक्त्वा नीरसधूमाग्न्यनुमानादियमत्यन्तं विलक्षणासौन्दर्यसंशोभिता चेति समुदघोषयत् ।

महिमभट्टस्य मतम्[सम्पादयतु]

महिमभट्टस्य मते, अर्थो वाच्योऽनुमेयश्चेति द्विप्रकारो भवति । तत्र वाच्यार्थः, शब्दव्यापार विषयः । अस्यैव मुख्यार्थ इति नामान्तरम् । वाच्यात् तदनुमिताद्वा अर्थात् अनुमीयमानोऽर्थोऽनुमेयः । पर्वतो वह्निमान् धूमात् इति वाक्ये धूमो हेतुः, वह्निरनुमेयः । अत्र लिङ्गात् लिङ्गनो ज्ञानं भवति । अनुमेयोऽर्थो वस्त्वलङ्काररसात्मना त्रिविधो भवति । तत्र वस्त्वलङ्कारौ वाच्यावपि भवतः । रसादयस्तु केवलमनुमेया भवन्ति ।

महिमभट्टः व्यञ्जनावृत्तिं प्रत्याख्यातवान्, तथापि तेन ध्वनिवाद एव परिपोषं प्रापितः इति प्रतीयते । यास्तेनापि ध्वन्युदाहरणानि सर्वाणि स्वीकृतानि । परं ते न ध्वनिभेदाः किन्त्वनुमेयभेदाः इति कथने एव तस्य तात्पर्यम् । काव्यस्यात्मा रसादिरुपः एवार्थः इत्यत्र तस्यापि नास्ति विप्रतिपत्तिः । तदनन्तराः जगन्नाथपण्डितः राजादयः, अनुमानवादं खण्डयित्वा व्यञ्जनाव्यापारस्याङ्गीकरणमत्यावश्यकमिति सिध्दान्तयामासुः ।