अनुवृत्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अष्टाध्ययीसूत्राणि परस्परसम्बन्धितानि सन्ति। "प्रत्ययः" इति अधिकारसूत्रे तृतीयाध्यायस्य बहूनि समाहितानि सूत्राणि । अथ 'नमोवरिवश्चित्रङः क्यच्' इति सूत्रस्य अनुवृत्तिः प्रत्ययः इति भवति। सारण्यां अनुवृत्तिसहितसूत्राणि प्रस्तुतानि।


अनुवृत्तिः (१-२)
L1 L2 L3 L4 L5 L6 L7 L8 L9
वृद्धिरादैच्, अदेङ् गुणः
इको गुणवृद्धी न धातुलोप आर्धधातुके, क्ङिति च दीधीवेवीटाम्
हलोऽनन्तराः संयोगः, मुखनासिकावचनोऽनुनासिकः
तुल्यास्यप्रयत्नं सवर्णम् नाज्झलौ
ईदूदेद्द्विवचनं प्रगृह्यम् अदसो मात्, शे,
निपात एकाजनाङ् ओत्
सम्बुद्धौ शाकल्यस्येतावनार्षे, उञः ऊँ, ईदूतौ च सप्तम्यर्थे
दाधा घ्वदाप्, आद्यन्तवदेकस्मिन्, तरप्तमपौ घः
बहुगणवतुडति संख्या ष्णान्ता षट्, डति च
क्तक्तवतू निष्ठा
सर्वादीनि सर्वनामानि विभाषा दिक्समासे बहुव्रीहौ, न बहुव्रीहौ, तृतीयासमासे
द्वन्द्वे च विभाषा जसि, प्रथमचरमतयाल्पार्धकतिपयनेमाश्च, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्, स्वमज्ञातिधनाख्यायाम्, अन्तरं बहिर्योगोपसंव्यानयोः
स्वरादिनिपातमव्ययम् तद्धितश्चासर्वविभक्तिः, कृन्मेजन्तः, क्त्वातोसुन्कसुनः, अव्ययीभावश्च,
शि सर्वनामस्थानम् सुडनपुंसकस्य
न वेति विभाषा, इग्यणः सम्प्रसारणम्, आद्यन्तौ टकितौ, मिदचोऽन्त्यात्परः, एच इग्घ्रस्वादेशे
षष्ठी स्थानेयोगा स्थानेऽन्तरतमः उरण् रपरः
अलोऽन्त्यस्य ङिच्च, आदेः परस्य,
अनेकाल्शित्सर्वस्य
स्थानिवदादेशोऽनल्विधौ अचः परस्मिन् पूर्वविधौ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु
द्विर्वचनेऽचि
अदर्शनं लोपः प्रत्ययस्य लुक्श्लुलुपः
प्रत्ययलोपे प्रत्ययलक्षणम् न लुमताङ्गस्य
अचोऽन्त्यादि टि, अलोऽन्त्यात् पूर्व उपधा
तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य
स्वं रूपं शब्दस्याशब्दसंज्ञा अणुदित् सवर्णस्य चाप्रत्ययः, तपरस्तत्कालस्य
आदिरन्त्येन सहेता
येन विधिस्तदन्तस्य
वृद्धिर्यस्याचामादिस्तद् वृद्धम् त्यदादीनि च, एङ् प्राचां देशे
गाङ्कुटादिभ्योऽञ्णिन्ङित् विज इट्, विभाषोर्णोः
सार्वधातुकमपित् असंयोगाल्लिट् कित् इन्धिभवतिभ्यां च,
मृडमृदगुधकुषक्लिशवदवसः क्त्वा रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च इको झल्, हलन्ताच्च, लिङ्सिचावात्मनेपदेषु, उश्च, वा गमः
(आत्मनेपद) हनः सिच्,
यमो गन्धने विभाषोपयमने
स्था घ्वोरिच्च
न क्त्वा सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः मृषस्तितिक्षायाम्
उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
पूङः क्त्वा च
नोपधात्थफान्ताद्वा वञ्चिलुञ्च्यृतश्च, तृषिमृषिकृशेः काश्यपस्य,
रलो व्युपधाद्धलादेः संश्च
ऊकालोऽज्झ्रस्वदीर्घप्लुतः अचश्च उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः
तस्यादित उदात्तमर्धह्रस्वम्,
एकश्रुति दूरात् सम्बुद्धौ यज्ञकर्मण्यजपन्यूङ्खसामसु उच्चैस्तरां वा वषट्कारः, विभाषा छन्दसि, न सुब्रह्मण्यायां स्वरितस्य तूदात्तः, देवब्रह्मणोरनुदात्तः, स्वरितात् संहितायामनुदात्तानाम्, उदात्तस्वरितपरस्य सन्नतरः
अपृक्त एकाल् प्रत्ययः, तत्पुरुषः समानाधिकरणः कर्मधारयः
प्रथमानिर्दिष्टं समास उपसर्जनम् एकविभक्ति चापूर्वनिपाते
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् कृत्तद्धितसमासाश्च
ह्रस्वो नपुंसके प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य लुक् तद्धितलुकि इद्गोण्याः
लुपि युक्तवद्व्यक्तिवचने विशेषणानां चाजातेः
तदशिष्यं संज्ञाप्रमाणत्वात् लुब्योगाप्रख्यानात्, योगप्रमाणे च तदभावेऽदर्शनं स्यात्,
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् कालोपसर्जने च तुल्यम्,
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् अस्मदो द्वयोश्च,
फल्गुनीप्रोष्ठपदानां च नक्षत्रे छन्दसि पुनर्वस्वोरेकवचनम्, विशाखयोश्च
तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य द्विवचनं नित्यम्
सरूपाणामेकशेष एकविभक्तौ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः स्त्री पुंवच्च,
पुमान् स्त्रिया, भ्रातृपुत्रौ स्वसृदुहितृभ्याम्,
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् पिता मात्रा, श्वशुरः श्वश्र्वा
त्यदादीनि सर्वैर्नित्यम्, ग्राम्यपशुसंघेष्वतरुणेषु स्त्री
भूवादयो धातवः उपदेशेऽजनुनासिक इत् हलन्त्यम्, न विभक्तौ तुस्माः,
आदिर्ञिटुडवः षः प्रत्ययस्य
चुटू, लशक्वतद्धिते
तस्य लोपः
यथासंख्यमनुदेशः समानाम्, स्वरितेनाधिकारः
अनुदात्तङित आत्मनेपदम्
भावकर्मणोः
कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इतरेतरान्योन्योपपदाच्च
नेर्विशः, परिव्यवेभ्यः क्रियः, विपराभ्यां जेः
आङो दोऽनास्यविहरणे क्रीडोऽनुसम्परिभ्यश्च
समवप्रविभ्यः स्थः प्रकाशनस्थेयाख्ययोश्च, उदोऽनूर्ध्वकर्मणि
उपान्मन्त्रकरणे अकर्मकाच्च उद्विभ्यां तपः, आङो यमहनः, समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः
निसमुपविभ्यो ह्वः स्पर्द्धायामाङः
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः अधेः प्रसहने
वेः शब्दकर्मणः अकर्मकाच्च
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः कर्तृस्थे चाशरीरे कर्मणि
वृत्तिसर्गतायनेषु क्रमः उपपराभ्याम्, आङ उद्गमने, वेः पादविहरणे, प्रोपाभ्यां समर्थाभ्याम्, अनुपसर्गाद्वा,
अपह्नवे ज्ञः अकर्मकाच्च, सम्प्रतिभ्यामनाध्याने,
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः व्यक्तवाचां समुच्चारणे अनोरकर्मकात्, विभाषा विप्रलापे
अवाद्ग्रः समः प्रतिज्ञाने
उदश्चरः सकर्मकात् समस्तृतीयायुक्तात् दाणश्च सा चेच्चतुर्थ्यर्थे
उपाद्यमः स्वकरणे
ज्ञाश्रुस्मृदृशां सनः नानोर्ज्ञः प्रत्याङ्भ्यां श्रुवः
शदेः शितः म्रियतेर्लुङ्लिङोश्च
पूर्ववत् सनः, आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य, प्रोपाभ्यां युजेरयज्ञपात्रेषु, समः क्ष्णुवः, भुजोऽनवने
णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने भीस्म्योर्हेतुभये, गृधिवञ्च्योः प्रलम्भने, लियः सम्माननशालीनीकरणयोश्च, मिथ्योपपदात् कृञोऽभ्यासे
स्वरितञितः कर्त्रभिप्राये क्रियाफले अपाद्वदः, णिचश्च, समुदाङ्भ्यो यमोऽग्रन्थे, अनुपसर्गाज्ज्ञः, विभाषोपपदेन प्रतीयमाने
शेषात् कर्तरि परस्मैपदम् अनुपराभ्यां कृञः, अभिप्रत्यतिभ्यः क्षिपः, प्राद्वहः परेर्मृषः
व्याङ्परिभ्यो रमः उपाच्च विभाषाऽकर्मकात्
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः निगरणचलनार्थेभ्यश्च, अणावकर्मकाच्चित्तवत्कर्तृकात्, न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
वा क्यषः द्युद्भ्यो लुङि, वृद्भ्यः स्यसनोः लुटि च कॢपः
आ कडारादेका संज्ञा, विप्रतिषेधे परं कार्यम्
यू स्त्र्याख्यौ नदी नेयङुवङ्स्थानावस्त्री वाऽऽमि ङिति ह्रस्वश्च शेषो घ्यसखि पतिः समास एव, षष्ठीयुक्तश्छन्दसि वा
ह्रस्वं लघु संयोगे गुरु दीर्घं च
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
सुप्तिङन्तं पदम् नः क्ये, सिति च
स्वादिष्वसर्वनामस्थाने यचि भम् तसौ मत्वर्थे
अयस्मयादीनि च्छन्दसि, बहुषु बहुवचनम्, द्व्येकयोर्द्विवचनैकवचने
कारके ध्रुवमपायेऽपादानम् भीत्रार्थानां भयहेतुः, पराजेरसोढः, वारणार्थानामीप्सितः, अन्तर्द्धौ येनादर्शनमिच्छति, आख्यातोपयोगे, जनिकर्तुः प्रकृतिः, भुवः प्रभवः
कर्मणा यमभिप्रैति स सम्प्रदानम् रुच्यर्थानां प्रीयमाणः, श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः, धारेरुत्तमर्णः, स्पृहेरीप्सितः
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः क्रुधद्रुहोरुपसृष्टयोः कर्म
राधीक्ष्योर्यस्य विप्रश्नः
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता अनुप्रतिगृणश्च
साधकतमं करणम् दिवः कर्म च
परिक्रयणे सम्प्रदानमन्यतरस्याम्
आधारोऽधिकरणम् अधिशीङ्स्थाऽऽसां कर्म अभिनिविशश्च, उपान्वध्याङ्वसः
कर्तुरीप्सिततमं कर्म तथायुक्तं चानीप्सितम्, अकथितं च
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ हृक्रोरन्यतरस्याम्
स्वतन्त्रः कर्ता तत्प्रयोजको हेतुश्च
प्राग्रीश्वरान्निपाताः चादयोऽसत्त्वे प्रादयः उपसर्गाः क्रियायोगे गतिश्च ऊर्यादिच्विडाचश्च, अनुकरणं चानितिपरम्, आदरानादरयोः सदसती, भूषणेऽलम्, अन्तरपरिग्रहे, कणेमनसी श्रद्धाप्रतीघाते
पुरोऽव्ययम् अस्तं च, अच्छ गत्यर्थवदेषु
अदोऽनुपदेशे
तिरोऽन्तर्द्धौ विभाषा कृञि उपाजेऽन्वाजे, साक्षात्प्रभृतीनि च
अनत्याधान उरसिमनसी मध्येपदेनिवचने च
नित्यं हस्ते पाणावुपयमने प्राध्वं बन्धने, जीविकोपनिषदावौपम्ये
ते प्राग्धातोः छन्दसि परेऽपि व्यवहिताश्च
कर्मप्रवचनीयाः अनुर्लक्षणे तृतीयार्थे
हीने उपोऽधिके च
अपपरी वर्जने, आङ् मर्यादावचने
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः अभिरभागे
प्रतिः प्रतिनिधिप्रतिदानयोः, अधिपरी अनर्थकौ
सुः पूजायाम् अतिरतिक्रमणे च
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु
अधिरीश्वरे विभाषा कृञि
लः परस्मैपदम्, तङानावात्मनेपदम्, तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः, तान्येकवचनद्विवचनबहुवचनान्येकशः, सुपः विभक्तिश्च
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च, अस्मद्युत्तमः, शेषे प्रथमः
परः संनिकर्षः संहिता, विरामोऽवसानम्
समर्थः पदविधिः
सुबामन्त्रिते पराङ्गवत् स्वरे
प्राक् कडारात् समासः सह सुपा अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु, यथासादृश्ये, यावदवधारणे, सुप्प्रतिना मात्रार्थे, अक्षशलाकासंख्याः परिणा
विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ् मर्यादाभिविध्योः लक्षणेनाभिप्रती आभिमुख्ये अनुर्यत्समया यस्य चायामः
तिष्ठद्गुप्रभृतीनि च, पारे मध्ये षष्ठ्या वा
संख्या वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्
तत्पुरुषः द्विगुश्च, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
स्वयं क्तेन खट्वा क्षेपे, सामि
कालाः अत्यन्तसंयोगे च
तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः
कर्तृकरणे कृता बहुलम् कृत्यैरधिकार्थवचने
अन्नेन व्यञ्जनम्, भक्ष्येण मिश्रीकरणम्
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः
पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः, स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन
सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च, ध्वाङ्क्षेण क्षेपे, कृत्यैर्ऋणे, संज्ञायाम्, क्तेनाहोरात्रावयवाः, तत्र
क्षेपे पात्रेसमितादयश्च
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायाम् तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः
कुत्सितानि कुत्सनैः , पापाणके कुत्सितैः, उपमानानि सामान्यवचनैः. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे
विशेषणं विशेष्येण बहुलम् पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च
श्रेण्यादयः कृतादिभिः, क्तेन नञ्विशिष्टेनानञ्, सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः, वृन्दारकनागकुञ्जरैः पूज्यमानम्, कतरकतमौ जातिपरिप्रश्ने, किं क्षेपे
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च
युवा खलतिपलितवलिनजरतीभिः, कृत्यतुल्याख्या अजात्या, वर्णो वर्णेन, कुमारः श्रमणादिभिः, चतुष्पादो गर्भिण्या, मयूरव्यंसकादयश्च
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धं नपुंसकम् द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् प्राप्तापन्ने च द्वितीयया
कालाः परिमाणिना, नञ्, ईषदकृता
षष्ठी याजकादिभिश्च
न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन
क्तेन च पूजायाम् अधिकरणवाचिना च
कर्मणि च तृजकाभ्यां कर्तरि
कर्तरि च
नित्यं क्रीडाजीविकयोः कुगतिप्रादयः
उपपदमतिङ् अमैवाव्ययेन तृतीयाप्रभृतीन्यन्यतरस्याम् क्त्वा च
शेषो बहुव्रीहिः अनेकमन्यपदार्थे, संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये, दिङ्नामान्यन्तराले, तत्र तेनेदमिति सरूपे, तेन सहेति तुल्ययोगे
चार्थे द्वंद्वः
उपसर्जनं पूर्वम् राजदन्तादिषु परम्
द्वन्द्वे घि अजाद्यदन्तम्, अल्पाच्तरम्
सप्तमीविशेषणे बहुव्रीहौ निष्ठा वाहिताग्न्यादिषु कडाराः कर्मधारये
अनभिहिते कर्मणि द्वितीया तृतीया च होश्छन्दसि, अन्तराऽन्तरेण युक्ते
कालाध्वनोरत्यन्तसंयोगे अपवर्गे तृतीया, सप्तमीपञ्चम्यौ कारकमध्ये
कर्मप्रवचनीययुक्ते द्वितीया यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी
पञ्चम्यपाङ्परिभिः प्रतिनिधिप्रतिदाने च यस्मात्
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि
चतुर्थी सम्प्रदाने क्रियार्थोपपदस्य च कर्मणि स्थानिनः, तुमर्थाच्च भाववचनात्, नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च, मन्यकर्मण्यनादरे विभाषाऽप्राणिषु
कर्तृकरणयोस्तृतीया सहयुक्तेऽप्रधाने, येनाङ्गविकारः, इत्थंभूतलक्षणे, संज्ञोऽन्यतरस्यां कर्मणि
हेतौ अकर्तर्यृणे पञ्चमी विभाषा गुणेऽस्त्रियाम्
षष्ठी हेतुप्रयोगे सर्वनाम्नस्तृतीया च
अपादाने पञ्चमी अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते, षष्ठ्यतसर्थप्रत्ययेन, एनपा द्वितीया, पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्, करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् दूरान्तिकार्थेभ्यो द्वितीया च सप्तम्यधिकरणे च यस्य च भावेन भावलक्षणम् षष्ठी चानादरे
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च, आयुक्तकुशलाभ्यां चासेवायाम्
यतश्च निर्धारणम् पञ्चमी विभक्ते
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः प्रसितोत्सुकाभ्यां तृतीया च नक्षत्रे च लुपि
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा सम्बोधने च
सामन्त्रितम् एकवचनं संबुद्धिः
षष्ठी शेषे ज्ञोऽविदर्थस्य करणे
अधीगर्थदयेशां कर्मणि कृञः प्रतियत्ने, रुजार्थानां भाववचनानामज्वरेः, आशिषि नाथः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्, व्यवहृपणोः समर्थयोः
दिवस्तदर्थस्य विभाषोपसर्गे, द्वितीया ब्राह्मणे
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने
चतुर्थ्यर्थे बहुलं छन्दसि यजेश्च करणे
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे, कर्तृकर्मणोः कृति, उभयप्राप्तौ कर्मणि
क्तस्य च वर्तमाने अधिकरणवाचिनश्च
न लोकाव्ययनिष्ठाखलर्थतृनाम् अकेनोर्भविष्यदाधमर्ण्ययोः
कृत्यानां कर्तरि वा
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः
द्विगुरेकवचनम् द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम् अनुवादे चरणानाम्, अध्वर्युक्रतुरनपुंसकम्, अध्ययनतोऽविप्रकृष्टाख्यानाम्, जातिरप्राणिनाम्, विशिष्टलिङ्गो नदी देशोऽग्रामाः, क्षुद्रजन्तवः, येषां च विरोधः शाश्वतिकः, शूद्राणामनिरवसितानाम्, गवाश्वप्रभृतीनि च
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् विप्रतिषिद्धं चानधिकरणवाचि
न दधिपयआदीनि अधिकरणैतावत्त्वे च विभाषा समीपे
स नपुंसकम् अव्ययीभावश्च
तत्पुरुषोऽनञ् कर्मधारयः संज्ञायां कन्थोशीनरेषु, उपज्ञोपक्रमं तदाद्याचिख्यासायाम्, छाया बाहुल्ये
सभा राजामनुष्यपूर्वा अशाला च
विभाषा सेनासुराच्छायाशालानिशानाम्
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, पूर्ववदश्ववडवौ, हेमन्तशिशिरावहोरात्रे च च्छन्दसि, रात्राह्नाहाः पुंसि
अपथं नपुंसकम् अर्धर्चाः पुंसि च
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ द्वितीयाटौस्स्वेनः
आर्धधातुके अदो जग्धिर्ल्यप्ति किति लुङ्सनोर्घसॢ
घञपोश्च बहुलं छन्दसि
लिट्यन्यतरस्याम् वेञो वयिः
हनो वध लिङि लुङि च, आत्मनेपदेष्वन्यतरस्याम्
इणो गा लुङि णौ गमिरबोधने सनि च इङश्च गाङ् लिटि
विभाषा लुङ्लृङोः णौ च सँश्चङोः
अस्तेर्भूः, ब्रुवो वचिः
चक्षिङः ख्याञ् वा लिटि अजेर्व्यघञपोः वा यौ
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः पैलादिभ्यश्च, इञः प्राचाम्, न तौल्वलिभ्यः
तद्राजस्य बहुषु तेनैवास्त्रियाम् यस्कादिभ्यो गोत्रे यञञोश्च, अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च, बह्वचः इञः प्राच्यभरतेषु, न गोपवनादिभ्यः, तिककितवादिभ्यो द्वंद्वे, उपकादिभ्योऽन्यतरस्यामद्वंद्वे, आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्
सुपो धातुप्रातिपदिकयोः
अदिप्रभृतिभ्यः शपः बहुलं छन्दसि यङोऽचि च
जुहोत्यादिभ्यः श्लुः बहुलं छन्दसि
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु विभाषा घ्राधेट्शाच्छासः तनादिभ्यस्तथासोः
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः आमः
अव्ययादाप्सुपः नाव्ययीभावादतोऽम्त्वपञ्चम्याः तृतीयासप्तम्योर्बहुलम्
लुटः प्रथमस्य डारौरसः

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनुवृत्तिः&oldid=469020" इत्यस्माद् प्रतिप्राप्तम्