अन्विताभिधानवादः
मीमांसकेषु कुमारिलभट्टप्रभृतयः अभिहितान्वयवादं प्रभाकरादयश्च अन्विताभिधानवादं स्वीकुर्वन्ति । तत्र तावत् अन्विताभिधानवादेऽस्मिन् अभिधाशक्त्या न केवलं पदार्थस्य उपस्थितिर्भवति, अपितु अन्वितपदार्थस्यैव अभिधया उपस्थितिः भवति। अर्थात् पदानि अन्वितानि भवन्ति । पश्चद् विशिष्टमर्थं कथयन्ति । अतः अस्मिन् खलु तात्पर्यशक्तेः न काप्यावश्यकता। अन्विताभिधानवादिनः प्राभाकरमीमांसकस्य मतेतु वाच्य एव वाक्यार्थः। तस्यायमभिप्रायः –’देवदत्त ! गामानय’ इत्यादिवृद्धप्रयुक्ते तादृशव्यक्तिसञ्चारे मध्यमवृद्धप्रवृत्तिं दृष्ट्वा बालोऽपि तस्य वाक्यस्य तदर्थबोधकतामनुमाय ‘गाम् आनय’ ‘अश्वमानय’ इत्यनन्तवाक्यप्रयोगाद् गवापसारणे अश्वानयने च प्रवृत्तिं दृष्ट्वा अन्वयव्यतिरेकाभ्यां कारकपटस्य क्रियापदार्थान्वितक्रियायां च शक्तिमवधारयति। ततश्च प्रयोगकाले तस्य बालस्य प्रथमतः एवान्वितबुद्धिर्जायते।
अन्विताभिधानवादे सङ्केतग्रहणानन्तरमेव पदेभ्यः पदार्थबोधो भवति । बालः ‘घटमानय’ इति अखण्डवाक्येन अखण्डार्थं (घटाहरणरुपमर्थं) लभते । पुनरसौ बालः ‘घटमानय, घटं नय’ इत्यादि पौनःपुन्येन व्यवहारमवलोक्य घटपदस्य घटत्वार्थम्,‘आनयपदस्य’ च आहरणमर्थं विजानाति। अतः प्रथमं तु स अखण्डार्थवाक्येन अखण्डार्थकं लभते। अनन्तरं तत्पदस्य अर्थमवधारति। अतोऽत्र पदानां संसर्गः एव कारणम् । ’घटमानय’ इत्यत्र घटाहरणमर्थम्, ‘घटं नय’ इत्यत्र घटत्वनयनमर्थं विलोक्य आनयननयनपदयोः संसर्गेणैव बालः घटपदेन घटत्वरुपार्थमवधारयति । अतः आनयनयनयोः पदयोः अन्वयेनैव पदार्थस्य प्रतीतिः। अत एव ‘वाच्य एव वाक्यार्थः पुनः तात्पर्यार्थः कः? इति ।
परं नेदं विचारसंगतम् । सामान्यर्थस्यः अभिधया बोधोऽपि अन्वयरूप विशेषार्थस्य बोधाय तात्पर्यवृत्तिः स्वीकार्या एव। अन्य़था परस्परान्वयरूपस्य विशेषार्थस्य अशक्त्यत्वाद् अभिधया भानमेव न स्यादिति।
निष्कर्षः
[सम्पादयतु]ये तु अन्विताभिधानवादिनः आहुः “शब्दवृद्धभिधेयांश्च प्रत्यक्षेणात्र पश्यति” इत्यादिकम्। तत्रापि नाभिधेयो व्यङ्ग्य इति निरुप्यते। अयमस्ति तेषां सिद्धान्तो यद् ‘देवदत्त ! गामानय’ इति उत्तमवृद्धवाक्यश्रवणात् मध्यमवृद्धो विशिष्टं व्यापारं करोति इति दृष्ट्वा व्युत्पाद्यमाने निर्विभागार्थे निर्विभागं वाक्यं वाचकं जानाति। ततो ‘यज्ञदत्त ! गां नय, अश्वमानय” इत्यादिवाक्यान्तरप्रयोगे सति अन्वयव्यतिरेकाभ्यां नियतस्य नियतार्थो भविष्यतीति सामान्यावच्छदिते विशिष्टे एव पदार्थे पदानां सङ्केत इत्यन्वितानामेवाभिधानं विशिष्टानां पदार्थता । अत्र पक्षे अभिधायाः लक्षणाविशिष्टस्यैव पदार्थत्वात् । अतः अनन्तरव्याविनि व्यङ्यवोधे कथमभिधेति । एवं सति अलङ्कार शास्त्रदृष्ट्या अथिहितान्वयवादे, अन्विताभिधानवादे च न तावात् भेदः लक्ष्यते।