सामग्री पर जाएँ

अभिहितान्वयवादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिमाम्सदर्षनम्
सञ्चिका:Memamsadarshanam.jpg
Abhihitanvayavada
abhihitanvayavada

मीमांसकेषु वाक्यार्थ सम्बन्धे प्रमुखौ द्वौ वादौ वर्तेते । तत्र प्रथमं कुमारिलभट्टस्य अभिहितान्वयवादः, तथा प्रभाकरस्य अन्विताभिधानवादश्च । तत्र अभिहितान्वयवादिनां मतानुसारं सर्वप्रथमम् अभिधाशक्त्या पदार्थस्य बोधो भवति । तदनन्तरं तात्पर्यानुसारं तेषां पदार्थानां परस्परमन्वयो भवति, येन वाक्यार्थस्य प्रतीतिर्जायते । अर्थात् अभिहितान्वयवादे, अभिधावृत्तेः एकैकपदार्थं बोधयित्वा विरामात् लक्षणावृत्तेश्च ‘शब्दबुद्धिकर्मणां विरम्य व्यापारभावः’ इति न्यायात् पुनरुत्थानाऽसम्भवात् आकांक्षा योग्यता सन्निधिवशात् पदार्थानां परस्परसम्बन्धे बुभुत्सिते अपदार्थोऽपि वाच्याद्यर्थविलक्षणशरीरः वाक्यार्थरुपः तात्पर्यार्थः अनुभवविषयो भवतीति। अस्यायमाशयः ‘घटं करोति’ इत्यस्मिन् वाक्ये अभिधा कम्बुग्रीवादिमन्तं घटपदार्थम्, अम् विभक्त्या कर्मत्वं चाभिधाय विरमति। वृत्तिता तु न कस्याप्यर्थः इति अपदार्थोऽपि वृत्तितावशात् अनयोः संसर्गविधया भासते। इत्थं तात्पर्यवृत्यैव पदार्थानां मिथोऽन्वयो भवतीति अभिहितान्वयवादिनां कुमारिलभट्टादीनां मतम्। द्वितीयोदाहरणं यथा, देवदत्तो ग्रामं गच्छतीत्यत्र प्रत्येकं पदस्य पृथक् पृथक् अर्थं बोधयित्वा विरतायामभिधायां देवदत्तकर्तृकवर्तमानकालिकग्रामकर्मकगमनानुकूलो व्यापारः इति विशिष्टार्थं बोधयितुं तात्पर्याख्यवृत्तेः आवश्यकता भवति। न पदार्थबोधमिव विशिष्टार्थमपि अभिधैव बोधयिष्यति किं तात्पर्यवृत्येति वाच्यम् ?
‘शब्दबुद्धिकर्मणां विरम्यव्यापारभावः’ इति न्यायेन पदार्थमात्रं बोधयित्वा अयिधायाः विरामाङ्गीकारात्, अन्वयांशे विशिष्टार्थबोधाय तात्पर्यवृत्तिरवश्यं मन्तव्या इत्यभिहितान्वयवादिनां मतम् । अभिहितानां स्वस्ववृत्या पदैरुपस्थितानामर्थानाम् अन्वयो भवतीति ये वदन्ति ते अभिहितान्वयवादिनः । तात्पर्यार्थोऽपि केषुचित् । अत्र केषुचित्’ इति बहुवचोपादानेनायं मम्मटस्याभिप्रेतः इति स्पष्टमेव ।
कथनस्य तात्पर्योऽयं यत् कस्यापि पदस्यार्थः प्रथमतः अभिधया ज्ञायते । पश्चात् सोऽर्थः आकाङ्क्षासंनिधियोग्यताभिः परस्परं सम्बन्धरुपं भासते। सम्बद्धरुपं पदार्थज्ञानं वाक्यार्थबोधः शब्दबोधो वा कथ्यते यथा – ‘गामानय इत्यत्र‘ गोपदस्यार्थः सास्नादिविशिष्टपदार्थः सामान्यार्थो वर्तते । एवमेव ‘अम्’ प्रत्ययस्यार्थः सामान्यकर्मत्वं तथा ‘आनय’ इति क्रियापदेत सामान्यानयनरुपक्रियायां ज्ञानं भवति । अत्र वक्ता अभीष्टप्राणिविशेषस्य ग्रहणं न करोति । विशिष्टोऽयमर्थः तदैव ज्ञायते यदा आकाङ्क्षासन्निधियोग्यताद्वारेण एकस्य् पदस्य अर्थेन सह अपरपदस्यार्यस्य सम्बन्धो भवति।

निष्कर्षः

[सम्पादयतु]

इहानन्त्याद् व्यभिचाराच्च वाक्यस्य वाकयार्थ इव विशेषरुपे पदार्थपदस्य सङ्केतं कर्तुं न पारयति इति सामान्य एव सङ्केतः । आकाङ्क्षासंनिधियोग्यतावशात् सामान्यानामभिहितानां सतामन्वय इति पदार्थानां वैशिष्ट्यम् । एवं चापदार्थोऽपि वाक्यार्थस्तात्पर्यशक्त्या प्रतिपाद्यते । अत्र पक्षे पूर्वमभिधा, ततोऽन्वयबोधे लक्षणा, ततस्तृतीयकक्षायां व्यञ्जनेति । यतः पदेभ्यः पूर्वं पदार्थस्मृतिः, अथ पदार्थविशेषाणामन्वयविशेषरुपस्य वाक्यार्थस्य प्रत्ययः, ततो व्यङ्ग्यप्रतीतिस्तृतीयकक्षायां तत्र कुतोऽभिधायाः प्रसरणम् ? शब्दबुद्धिकर्मणां विरम्य व्यापारभावः इति ।

"https://sa.wikipedia.org/w/index.php?title=अभिहितान्वयवादः&oldid=393172" इत्यस्माद् प्रतिप्राप्तम्