अपवाहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kedara bhat

अपवाह:।

प्रतिचरणम् अक्षरसङ्ख्या 26

मो ना: षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्।- केदारभट्टकृत- वृत्तरत्नाकर:३.१०९

ऽऽऽ ।।। ।।। ।।। ।।। ।।। ।।। ।।ऽ ऽऽ

म न न न न न न स ग ग।

यति: नवभि: षडभि: षड्भि: पञ्चभि:।

उदाहरणम् -

ग्लानं चेत्सुकृतमतमसुकृतमतमतिसबलमिह यदि जायेत, जायेऽहं स्वयमजननमृतिरपि सदवनमसुरमथनमुद्दिश्य। धर्मार्थं च भवति मम जनिरनुयुगमिदमवगतमपि दिव्यत्वं, येनासौ स च जनन-मरण-विततिमभिभवति मिलति च मद्भावम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अपवाहः&oldid=409029" इत्यस्माद् प्रतिप्राप्तम्