अपि चेत्सुदुराचारो...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
- साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रिंशत्तमः(३०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अपि चेत् सुदुराचारः भजते माम् अनन्यभाक् साधुः एव स मन्तव्यः सम्यक् अव्यवसितः हि सः ॥ ३० ॥
अन्वयः
[सम्पादयतु]अपि चेत् सुदुराचारः अनन्यभाक् मां भजते सः साधुः एव मन्तव्यः । सः हि सम्यक् व्यवसितः ।
शब्दार्थः
[सम्पादयतु]- अपि चेत् सुदुराचारः = दुराचारोऽपि स्यात् तथापि
- यः अनन्यभाक् = यः अनन्यभक्तिः
- मां भजते = मां सेवते
- सः = सः मानवः
- साधुः एव = सद्वृत्तः एव
- मन्तव्यः = ज्ञातव्यः
- हि = यतः
- सः = सः मानवः
- सम्यक् = यथावत्
- व्यवसितः = निश्चितवान् ।
अर्थः
[सम्पादयतु]यदि कश्चित् दुराचारोऽपि एकाग्रचित्तः मां भजति तर्हि सः साधुरित्येव मे मतिः यतः स सम्यगेव निश्चयं कृतवान् ।