अभियनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अभियनाथः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः हरिनामामृतम्, धर्मराज्यम्

अभियनाथः एम० ए०, काव्यतीर्थोपाधिविभूषितः राजकीयमहाविद्यालये अध्यापयति स्म । हुगलीनर्गय्यां तेन संस्कृतपरिषत् स्थापिता । १९७० ई० वर्षे स दिवंगतः । हरिनामामृतप्रस्तावनायां सूत्रधारः अभियनाथं परिचाययति -

परिषदः स्वकीयेन सदस्येन परात्मना

दुर्गानाथात्मजेनैव सतीनाथानुजेन च।।

श्रीमतामियनाथेन रचितं चक्रवर्तिना

सुबोधसंस्कृतैर्नाट्यं प्रतिवर्ष प्रदर्श्यते।।

हरिनामामृतम्[सम्पादयतु]

अत्र चैतन्यस्य संसार त्यागपर्यन्तं चरितं रूपकायितम् । नित्यानन्दः कृष्णमन्विष्यन् नवद्वीपे नन्दनाचार्यगृहमाप । आत्मानं स परिचाययति -

पथि पथि परिगच्छन् प्रेमयाच्ञां करोमि

प्रियजनसखिभावं दर्शयन् मां गृहाण।

भजन-निरत-बन्धो वङ्गदेशे सुभाग्ये

यदुपतिसुतजन्म प्राप्य धन्योऽसि भक्तः।।

नन्दनस्तमाह - 'चरणप्रासादेन धन्यं कुरु मम कुटीरम्' इति।

हरिदासः यवनमन्त्रिणा विष्णुविरोधिना कशाघातैः ताडितः । गौराङ्गस्य कीर्तनदलश्चतुष्पथे पतितं तं प्राप । नित्यानन्दोऽपि दण्डकमण्डलू प्रक्षिप्य कीर्तनदलेन मिलितः । कीर्तनयात्रायां चाण्डालद्वयं गौराङ्गम् आलिलिङ्ग । एतत् वङ्केश्वरभैरवानन्दौ नासहेताम् । तथापि गौराङ्गं परीक्षितुं वङ्केश्वरस्तस्य वक्षसः स्पर्शमात्रेण पुलकितोऽगायत - भज गौराङ्गं स्मर गौराङ्गमिति । राजपण्डितः सार्वभौमः चैतन्यलीलया। चमत्कृतः तं विष्णोरंशं व्यजानात्।

नाटकमिदं सुबोधं विद्यते । संवादेषु चटुलता विलसति । कीर्तननृत्य-गीतादीनां प्राचुर्याद् अस्याभिनयः रुचिकरः स्यात् ।

धर्मराज्यम्[सम्पादयतु]

अस्मिन् रूपके महाभारतीयं कथावस्तुराजते । अत्र द्युतनिर्जिताः। मपहृतालंकारां द्रौपदीं गान्धारी समागत्य वक्षसा आलिङ्गति । दुःशासनादीन् अपि सा निर्भत्सयति । निर्वहणे दुर्योधनस्य अधर्मराज्ये समाप्ते धर्मराज्यस्य स्थापना भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

युधिष्ठिरः

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अभियनाथः&oldid=444027" इत्यस्माद् प्रतिप्राप्तम्