अलङ्काराणां क्रमिकविकासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अलङ्काराणां क्रमिकविकासः मुख्यतया अलङ्कारां क्रमशः विकासं प्रदर्शयति। अनेके आलङ्कारिकाः स्वकाले विविध-मतानाम् उपस्थापनं कृत्वा अलङ्कारशास्त्रस्य विस्तारम् अकुर्वन्। तेषु प्रप्रथमः भरतमुनिः।

भरतमुनेः योगदानम्[सम्पादयतु]

मुनेः भरतस्य नाट्यशास्त्रे शुद्धालङ्काररूपेण चत्वारोऽलङ्काराः एव । निदष्टाः । ते च –

उपमा रूपकं चैव दीपक यमक तथा ।

अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ॥[१]

यद्यपि काव्यबन्धे निम्नलिखितानां षत्रिशल्लक्षणानां विधानस्य प्रतिपादनऽभूत् किञ्च तेषां तत्र लक्षणरूपेणैव विधानमस्ति न त्वलङ्काररूपेण । अतस्तेषामलङ्कारत्वेन गणना न भवति । नाट्यशास्त्रोक्तलक्षणानि च-पत्रिशल्लक्षणान्येवं काव्यबन्धेषु निदशेत् । ते च – भूषणम्, अक्षरसंघातः, शोभा, उदाहरणम्, हेतुः, संशयः, दृष्टान्तः, प्राप्तिः, अभिप्रायः, निर्दशनम्, निरुक्तः, सिद्धिः, विशेषणम्, गुणातिपातः, अतिशयः, तुल्यतर्कः, पदोच्चयः, दृष्टः, उपदिष्टः, विचारः, विपर्ययः, भ्रंशः, अनुनयः, माला, दाक्षिण्यः, गर्हणम्, अर्थापत्तिः, प्रसिद्धिः, पृच्छा, सारूप्यम्, मनोरथः, लेशः क्षोभः, गुणकीर्तनम्, सिद्धिः, प्रियोक्तिः, वा प्रियवचनम् वा दोषः । एतेषु षत्रिशल्लक्षणेषु हेतु संशय-दृष्टान्तनिदर्शन-गुणातिशय-अर्थापत्ति-लेशप्रभृतयः पश्चादलङ्कारत्वेन परिगृहीताः किञ्च नाट्यशास्त्रे ते लक्षणान्येवेति । अत एतेषामलङ्काराणामुद्भवः पश्चाद्वर्ती एवेति ।

उपमा[सम्पादयतु]

अलङ्कारशिरोरत्नं सर्वस्वं काव्यसम्पदाम् ।

उपमा कविवंशस्य . मातैवेति मतिर्मम ।।[२]

अलङ्कारेषु श्रेष्ठा, काव्यसौन्दर्याय सारभूता, विविधानामलङ्काराणां जननी कविकुलमातुरूपमायाः सर्वातिशायी महत्त्वं मन्यन्ते विवेचकाः । अत्रोपमाया उपमेयोपमाद्यनेकाऽलङ्कृतिघटकत्वेनैकविज्ञानेन सर्वविज्ञानमिवोपमाविज्ञानेना, ऽलङकृतिविज्ञानं भवति । अतः सर्वप्रथमोपमैव निरूपणीयाऽस्ति । तस्या निरूपणं लक्षणं विना सुलभतयाऽसम्भवि अतस्तस्याः लक्षणं निरूप्यते । उक्तञ्च -

यत्किञ्चित्काव्यबन्धेषु सादृश्येनोपमीयते ।

उपमा नाम विज्ञेया गुणाकृति समाश्रया ।।[३]

इति भरतेनार्थालङ्कारेषुपमायाः सर्वप्रथमकथनेन तदुक्त्या श्रीमदप्पयदीक्षितेनाऽपि तां वक्तुमुपमायाः सर्वाऽलङ्कारबीजतां प्रतिपादयति--

उपमैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदात् ।

रञ्जयति काव्यर नृत्यन्ती तद्विदां चेतः ।

एकोपमानटी अलङ्काररूपस्थितिभेदान् तद्रूपतां प्राप्ता काव्यात्मकरङ्गभूमौ अभिनयरूपतत्तदलङ्कारव्यापारं कुर्वन्ती अलङ्कारविदां चित्तं रञ्जयति सा उपमैवोक्तिविच्छित्तिभेदेनानेकालङ्कारस्वरूपतां भजते । अत्राऽलङ्कारत्वञ्चरसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठायाया विषयितासम्बन्धावच्छिन्नाचमत्कृतिजनकतावच्छेदकतातदवच्छेदकत्वम् । अनुप्रासादौ तद्विशिष्टशब्दज्ञानादुपमादौ तद्विशिष्टार्थज्ञानात् चमत्कृतिजन्यतयेति लक्षणसमन्वयः । शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकताया . विषयतयावच्छेदकतया तद्विशेषणी भूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाद्यलङ्कारसंग्रहाय व्यङ्गयोपमावारणाय च भेदद्वयगर्भसत्यन्तो पादोनमिति कुवलयानन्दव्याख्याकृतः ।

न तावत् ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः इत्यस्याऽलङ्कारत्वे सति सादृश्यवत्वमुपमालङ्कारत्वं वक्तव्यमिति प्रतीपेऽतिव्याप्तेस्तत्रोपमेयसादश्ययोपमाने सत्वात् । न चालङ्कारत्वे सति स्वतःसिद्धोपमानविशिष्टवाच्यैकसादृश्यत्वमुपमानत्वं वाच्यम् -

चन्द्रबिम्बादिव विषं चन्दनादिवानलः।

परुषा वागितोवक्त्रादित्यसम्भावितोपमा ।। इत्यत्राव्याप्तेः ।

विषानलयोश्चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्यमिति स्वतःसिद्धत्वाभावात् ।।

वस्तुतस्तु अलङ्कारत्वे सति उपमानतावच्छेदकधर्मविशिष्टसादृश्यत्वमुपमात्वम् । ‘गगनं गगनाकारमि'त्यादी अनन्वये उपमानतावच्छेदकधर्मभेदस्योपमेयतावच्छेदकधर्मेऽसत्वेन नातिव्याप्तिः । चन्द्र इव मुखम्, मुखमिव चन्द्र इत्यादावुपमेयोपमायां सादृश्ये उपमानतावच्छेदकसमानाधिकरणानुयोगितानिरूपकत्वस्य सत्त्वेन तदभावाभावान्नातिव्याप्तिः । मुखमिव चन्द्र इत्यादौ प्रतीपे स्वावच्छिन्नप्रतियोगिताया अभावेनातिव्याप्तिः । उपमानोपमेयभावस्तु लोकप्रसिद्ध एव ग्राह्यः । तेन प्रतीपे उपमेयस्य नोपमानत्वं बोध्यम् । 'हंसीव धवलश्चन्द्रः' इत्यादौ कविसम्मतलिङ्गभिन्नलिङ्गसत्वेन नातिव्याप्तिः । चन्द्र इव मुखमित्यादौ पूर्वोक्तसम्बन्धसत्त्वेन लक्षणसमन्वयः । अलङ्कारत्वनिवेशात् गौरिव बाहीक इत्यादौ नातिव्याप्तिः । अलङ्कारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति समवायसम्बन्धविच्छिन्नचमत्कारत्वावच्छिन्नजन्यतानिरूपितसमवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नजनकतानिरूपितविषयित्वसम्बन्धावच्छिन्नशब्दार्थान्यतरनिष्ठावच्छेदकतानिरूपितावच्छेदकतावत्वमिति पण्डितकृष्णमाधवेनेति । संक्षेपतः वाक्यार्थोपस्कारकं सत्सुन्दरम् सादृश्यमुपमालक्षणमिति ।

रूपकम्[सम्पादयतु]

नानाद्रव्यानुषङ्गाद्यैर्यदौपम्यं गुणाश्रयम् ।

रूपनिर्वणनायुक्तं तद्रूपकमिति स्मृतम् ।।

स्वविकल्पैवरचितं तुल्यावयवलक्षणम् ।

किञ्चित्सादृश्यसम्पन्नं यदूपं रूपकं तु तत् ॥[४]

रूपयति एकतां नयतीति रूपकमिति व्युत्पत्तिः । कुवलयानन्दकारिकाव्याख्यायामाशाधरभट्टास्तु 'रूपवत्करोतीति रूपयतीति वा रूपको लक्षण विशेषः रूपयुक्तं करोतीत्यर्थः । सोऽस्मिन्नस्तीति रूपकमलङ्कारः' इत्याहुः ।) 4 तथा च नानाद्रव्यानुषङ्गादर्थ परस्परविरुद्धधर्मवत्वेनं, उपस्थिततया प्रकाशितभिन्नस्वरूपयोरप्युपमानोपमेययोरिति साधर्म्यप्रदर्शनाय काल्पनिकोऽभेदारोपो रूपकनामा अलङ्कार इति भावः । यथा ‘मुखं चन्द्रः' इत्यादौ मुखचन्द्रत्वरूप परस्परविरुद्धधर्मवत्तया, उपस्थितियॊ मुखचन्द्रयोरभेदारोप इति बोध्यम् । निगीर्याध्यवसानरूपायाम् अतिशयोक्ती, उपमेयस्य नोपमेयगतधर्मवत्तया, उपस्थितिरिति ततो भेदः, अपहृतौः तु, उपमेयगोपनेन भेदस्यापह्नवः अत्र तु न स इति ततोऽपि भेदः । एवञ्च गौणसारोपलक्षणासम्भवस्थले रूपकम् गौणसाध्यवसानलक्षणावस्थले त्वतिशयोक्तिरिति फलितम् । रूपके लक्षणो नेति मतमनुचितेव । मुखपद्ममित्यादि समासस्थले तु विशेषणस्य मुख्यतया, उपमानगतत्वे रूपकम् । यथा—विकसितं मुखपद्ममिति, उपमेयगतत्वे उपमा यथा सहास्यं मुखपद्ममिति, उभयत्र तुल्यरूपत्वे रूपकोपमयोः संकरः यथा रमणीयं मुखपद्ममिति । अत्राप्यलङ्कारत्वे सतीति विशेषणमस्त्येव तेन प्रतिभानुत्थापितेऽचमत्कारिणि ‘लोष्ठः पाषाणः' इत्यभेदे नालङ्कारत्वप्रसङ्गः वैचित्र्याभावात् ।

अतोऽस्यालङ्कारत्वे सति अर्थोपकारकत्वे सति उपमेयतावच्छेदकविशिष्टतादात्म्यवत्त्वं रूपकत्वम् । केचित्तु उपात्तबिम्बाविशिष्टविषयधमकीहार्यारोपनिश्चयविषयीभूतमुपमानाभेदतादात्म्यान्यतरं रूपकमिति वदन्ति । मुख चन्द्र इत्यत्र सादश्यमूलकाहार्यचन्द्राभेदनिश्चयः । मुखमपरश्चन्द्र इत्यत्रापरेति कथनात् न चन्द्राभेदः, किन्तु चन्द्रकार्यकारित्वरूपं तादात्म्यमिति लक्षणसमन्वयः ।। आहार्यत्वञ्च बाधकालीनेच्छाजन्यज्ञानत्वम् ।

दीपकालङ्कारः[सम्पादयतु]

नानाधिकरणार्थानां शब्दानां सम्प्रकीर्तितम् ।

एकवाक्येन संयोगात्तद्दीपकमिहोच्यते ।।[५]

तथा च – ‘वदन्ति वण्र्यावण्र्याणां धकं दीपकं बुधाः । तेन हि-- चमत्कारजनकवण्र्यावर्षोभयसम्बद्धत्वप्रकारकज्ञानविषयैकधर्मत्वम् दीपकत्वम् ।। यथा -

‘मदेन भाति कलभः प्रतापेन महीपतिः' ।

अत्र कलभमहीपत्योः प्रस्तुताप्रस्तुतयोभनेकक्रियायामन्वयः । तुल्ययोगितायां धर्मे तत्सम्बन्धत्वमात्रस्य निवेशः । अत्र तु धर्मे मात्रस्य न निवेशः इत्युभयोर्भेदः । तुल्ययोगितायां मात्रपदादिनिवेशे दीपकस्य तत्रैवान्तर्भावः । अत्रेदं बोध्यम्-तुल्येयोगितातो' दीपकं न पृथग्भावमर्हति । धर्मसकृत्वृत्तिमूलाया विच्छितेरविशेषात् । विच्छित्तिवैलक्षण्यस्यैवालङ्कारहेतुत्वादिति ।।

यमकम्[सम्पादयतु]

शब्दाभ्यासस्तु यमकं पादादिषु विकल्पितम् ।

विशेषदर्शनं चास्य गदतो मे निबोधते ।।

पादान्तयमकं चैव काञ्चीयमकमेव च ।

समुद्रयमकं चैव, विक्रान्तयमकं तथा ॥

यमकं चक्रवालं च संदष्टयमकं तथा।

पादादियमकं चैव तथाम्रो डितमेव च ।।

चतुर्व्यवस्थितञ्चैव मालायमकमेव च ।

एतद्दशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥[६]

एवञ्च–

'अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकम्':.[७]

अभिधेये सति भिन्नार्थकानां वर्णानां पूर्वेणैव क्रमेण स्थिताऽवृत्तिः यमकमित्युच्यते । यमौ द्वौ समजातो तत् प्रतिकृति यमकमिति । ‘इवे प्रतिकृतौ' ( ५॥३॥९६ ) इति पाणिनिसूत्रेण कन्प्रत्ययः । वर्णानामिति बहुवचनमविवक्षितम् ‘सूत्रे लिङ्गवचनमतन्त्रम्' इति न्यायात् । अन्यथा द्वयोर्यमकव्यवहारो न स्यात् । तथा चैकेन क्रमेण समानार्थकानां समानवर्णानां वृित्तिर्यमकनामालङ्कारः । एवञ्च समानार्थत्वाभाववत्समानानुपूर्वीकानेकवर्णावृत्तिः यमकमिति फलितोऽर्थः ।।

तदेतद्विभजते-प्रथमपादो यदि द्वितीये पादे यम्यते तदामुखं नाम यमकम् । तृतीये चेत्तदा संदंशः । चतुर्थे चेत्तदा आवृत्तिः । एवं द्वितीयपादश्चेत्तृतीये तदागर्भः । चतुर्थे चेत् संदष्टकम् । तृतीयश्चेच्चतुर्थे तदापुच्छम् । प्रथमस्त्रिषु चेत्तदा पंक्तिः । महायमकमिति केचित् । पादत्रययमकं तु न चमत्कारकारि अतो न प्रयुक्तम् । इत्येकैकपादावृत्तौ सप्तभेदाः । प्रथमो द्वितीये तृतीयश्चतुर्थे चेत्तदा युग्मकम् । प्रथमश्चतुर्थे द्वितीयस्तृतीये चेत्तदा परिवृत्तिः । इत्यर्धाभ्यासमृते पादद्वयोवृत्तौ द्वयमिति नवभेदाः अर्धावृत्तिस्तु समुद्गः । श्लोकावृत्तिर्महायमकम् । तदुभयमपि पादावृत्तिविशेष एवेत्येकादशपादयमकभेदाः । पादभागवृत्तिञ्च बहुभेदम् ।

अत्र चक्रवर्युद्योतकारादयः क्वचिद्वर्णभेदेऽपि श्रुतिसाम्येन यमकं भवति । तदुक्तं -

‘यमकादौ भवेदैक्यम् डलयोरलयोर्बवोः ।

शषयोर्नणयोश्चान्तेसविसर्गा विसर्गयोः ॥

सबिन्दुकाबिन्दुकयोः स्यादभेदप्रकल्पनम् । इति ।

यथा -

‘भुजलतां जड़तामबलाजनाः' इति रघुवंशम् । ९/४६

अत्र डकारलकारयोः भेदेऽपि श्रुतिसाम्येन यमकं भवतीत्याहुः ।।

व्यासस्य योगदानम्[सम्पादयतु]

1) विष्णुपुराणम्

(१४ चतुर्दशनवीनालङ्काराः सर्वे=अष्टादशालङ्काराः )

अस्मिन् विष्णुपुराणेऽष्टादशानामलङ्काराणां वर्णनमस्ति तेषु निर्दिष्टेष्वलङ्कारेषु पञ्चदश नवीनाऽलङ्काराः सन्ति त्रयस्तु नाट्यशास्त्रात्संगृहीतः ।। नाटैथशास्त्रातिरिक्त विष्णुधर्मोत्तरपुराणे शब्दालारेष्वैक एवानुप्रासो वर्णितः, तथाऽर्थाऽलङ्कारेषु निम्नलिखिताः–व्यतिरेक-श्लेष-उत्प्रेक्षा-अर्थान्तरन्यासउपन्यास-विभावना-अतिशयोक्ति-वार्ता-यथासंख्य-विशेषोक्ति-विरोध-निन्दास्तुतिनिदर्शन-अनन्वयाख्याश्चतुर्दशनवीनालङ्काराः सन्ति ।।

नाट्यशास्त्रे निर्दिष्टेषु चैतेषूपमा-रूपक-दीपक-यमकेषु दीपकस्य विष्णुधर्मोतपुराणे उल्लेखो नास्ति तेन हि विष्णुपुराणे शब्दालङ्कार एकः, चतुर्दशोऽर्थालङ्काराः, भरतोक्तास्त्रयः, सर्वेऽष्टादशालङ्कारास्तत्र निर्दिष्टाः ।

व्यतिरेकालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति उपमानविशिष्ट गुणविशेषवदुपमेयवर्णनत्वं व्यतिरेकाऽलङ्कारत्वम् वैशिष्टयञ्च स्वॉवधिकौत्कर्षबत्व-स्वावधिकापकर्षवत्व-स्वावधिकोत्कर्षापकर्षोभाववत्वैतदन्यतमसम्बन्धेन । उपमेयोत्कर्षे यथा---

शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ।।

उपमेयोत्कर्षे यथा -

‘रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियायाः गुणैः ।

त्वामीयान्ति शिलीमुखा-स्मरधनुर्मुक्तास्तथा मामपि ।

कान्तापादतलाहतिस्तवमुदे तद्वन्मनाप्यावयोः ।

सर्वं तुल्यमशोक केवलमहं धात्री सशोकः कृतः ॥

उपमेयोत्कर्षापकर्षान्यतरान्यतरपर्यवसानम् । यथा -

दृढतरनिबन्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।

कृपणस्य कृपापस्य च केवलमाकारतो भेदः ।।

अपरे तु किञ्चिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किञ्चित् धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकत्वम् । वैलक्षण्यञ्च क्वचिदुपमेयस्योत्कर्षे, क्वचितदपकर्षे, क्वचित्तदन्यतरपर्यवसानविरहे स्ववैचित्र्यमात्रं वदन्ति ।

श्लेषः[सम्पादयतु]

चमत्कारजनकत्वे सति नानाधर्मावच्छिन्नार्थनिरूपितनानाशक्तिमच्छब्दयोजनत्वम् श्लेषत्वम् । यथा -

‘सर्वदो माधवः पायात् स योऽगं गामदीधरत ।' इति ।

स संर्वेदः सर्वदाता माधवः विष्णुः पायात् रक्षेत् योऽगं गोवर्द्धननामक पर्वत गां पृथ्वीं धृतवानिति विष्णुपक्षे । शिवपक्षे तु स उमाधवः शिवः सर्वदा पायात् । सः गङ्गां धृतवान् । अत्र नानार्थकशब्दानां विन्यासेन लक्षणसमन्वयः ।

उत्प्रेक्षा[सम्पादयतु]

चमत्कारजनकत्वे सति उपमानतावच्छेदकधर्मविशिष्ट म्भावनात्वमुत्प्रेक्षात्वम् वैशिष्ट्यञ्च तद्वद्भिन्नत्वतदभाववत्वान्यतरप्रकारकत्मकज्ञानविशेष्योपमेयविशेष्यकत्वस्वसमानाधिकरणचमत्कारप्रयोजकधर्म

लकत्वविशिष्टस्वाश्रयस्वान्यतरप्रकारकत्वाभ्यामसम्भावना च साधारणधर्मदर्शननिमित्तकनिश्चयानात्मकं ज्ञानम् यथा -

धूमस्तोमं तमः शङ्के कोकीविरहमुष्मणाम् ।

अत्र धूर्मभिन्नत्वैन धूमत्वाभाववत्वेन च ज्ञाते तमसि कोकीविरहालनलसम्बन्धिधमस्तोमत्वेन धमत्वाश्रयधमस्य सम्भावनास्ति इति लक्षणसमन्वयः ।

अर्थान्तरन्यासः[सम्पादयतु]

सामान्यं यद्विशेषेण समय॑ते विशेषो वा सामन्यैन सोऽर्थान्तरन्यासः द्वयोरॅपि प्रत्येक समर्थनहेतुः साधर्म्य वैधयंञ्चेति चतुःप्रकारकोऽयमित तेन च चमत्कारजनकत्वे सति सामान्यपदार्थविशिष्टसमर्थनवर्णनत्वमर्थान्तरन्यासालङ्कारत्वम् । वैशिष्ट्यञ्च स्वकरणकविशेषसमर्थनत्ववत्त्वस्वविशेषकरणक स्वसमर्थनत्ववत्वैतदन्यतरसम्बन्धेनार्थान्तरन्यासः । यथा -

हनुमानब्धिमतरद दुष्करं किं महात्मनाम् ।' इति ।

अत्र समयॆसमर्थकयोः सामान्यविशेषसम्बन्धेऽर्थान्तरन्यासः । तयोस्तदितरसम्बन्धे काव्यलिङ्गमित्येवेति ।।

उपन्यासः (उल्लेखः)[सम्पादयतु]

एकस्य वस्तुनो निमित्तवशाद्यनेकै-) (गृहीतृभिरनेकप्रकारकं ग्रहणं यदुपन्यासनामालङ्कारः । कालान्तरेऽयमेवोपन्यासालङ्कारः ‘उल्लेख' नाम्ना ख्यातोऽभवत् । तेन यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमितवशादेतत्क्रियते । तत्र च रुच्यथित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः पूर्वत्र गृहीतृभेदेनानेकधात्वोल्लेखः इह तु विषयभेदेनेति । तदुदाहरणं यथा प्रथमोल्लेखस्य -

प्रिय इति गोपवधूभिः, शिशुरिति वृद्धेरधीश इति देवैः ।

नारायण इति भक्तैर्ब्रह्म त्यग्राहियोगिभिर्देव ।।

अत्र गोपवध्वादिगृहीतृभेदादेकस्य श्रीकृष्णस्य प्रियवादीनां विविधप्रकारेणोल्लेखतादुल्लेखालङ्कारः ।

विभावना[सम्पादयतु]

'कारणाभावे कार्यस्योत्पत्तिविभावना । इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासम्भवः । अन्यथा विरोधो दुष्परिहारः स्यात् । यदा तु कयाचिद् भङ्गया तथाभाव उपनिबध्यते तदा विभावनाख्योऽलङ्कारः विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिविशिष्टकारणाभावोपनिबद्धा । अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः ।

कारणं विना यद्यपि न किमपि कार्यं समुत्पद्यते तथापि प्रसिद्धकारणं विना यदि कविः स्वप्रतिभोन्मेषेण कार्योदय बोधयेत् तदा विभावनालङ्कारः, अन्यथा कस्यापि कारणस्याभावे कार्यत्वमेव न स्यात् । न चात्र कारणाभावे कार्योत्पत्ती स्फुरितस्य विरोधस्य प्रसिद्धातिरिक्तेन कारणेन परिहारात विरोधाभास एवायमिति वाच्यम्, तत्रोभयोरेव परस्परं बाध्यतया प्रतीतिः, अत्र तु कारणाभावेन कार्यमेव बाध्यतया प्रतीयते ने तु कार्येण प्रमाणनिश्चितः कारणाभावोऽपि तेनोक्तदोषाभावात् । उदाहरणं तु -

अनायासकृशं मध्यमशङ्कतरलेदशौ ।।

आभूषणमनोहारि वपुर्वयसि सुध्रुवः ॥

अतिशयोक्तिः[सम्पादयतु]

प्रकृतस्योपयस्य समेनोपमानेन निगीर्याध्यवसानं द्रढीयसी बुद्धिः सैकातिशयोक्तिः । यच्च तदेव वस्त्वन्य॑त्वन विविक्ताकारवस्त्वन्तरत्वेनाध्यवसीयते सा द्वितीया । यच्च चेच्छब्देन यदि शब्दैन वा यद्यर्थोक्तौ कल्पनमर्थादसम्भविनोऽर्थस्य सा तृतीया । यश्च कार्यकारणयोः प्रसिद्धस्य पौर्वापर्यस्य विपर्ययोर्वैपरीत्यं कारणस्य शीघ्रकारिता प्रतीतये सा चतुर्थीति चतस्रोऽतिशयोक्तयः । एवञ्च चमत्कारजनकत्वे सति विषयितावच्छेदकधर्मविशिष्टत्वमतिशयोक्तित्वम् । वैशिष्ट्यं च स्वावच्छिन्नवाचकपदनिष्ठवृत्तिज्ञानाधीनस्वप्रकारकाहार्यनिश्चयीयविशेष्यताश्रयत्व-स्वावच्छिन्नप्रतियोगिकाभेदानुयोगितावत्त्वाभ्याम् -

रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः ।

पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शितः शराः ॥[८]

इत्यत्र नीलोत्पलत्वविशिष्टत्वम् नेत्रे वर्तते । यतः नीलोत्पलपदमत्र साध्यवसनया लक्षणया नेत्रबोधकत्वमिति स्वावच्छिन्नवाचकपदनिष्ठवृत्तिज्ञानेनेत्यस्य स्वावच्छिन्नप्रतियोगिकाभेदानुयोगिकत्वस्य च नेत्रे सत्त्वात् । इदं त्वतिशयोक्तेः सामान्यलक्षणमेव बोध्यम् । . (८) वात्त ( कालान्तरे स्वभावोक्तिः जात्यादिश्च नाम्नाख्याता )चमत्कारजनकत्वे सति अपराङ्गत्वे सति वार्तात्वम् वार्ताऽलङ्कारत्वम् । यथा -

गोरपत्यं बलीवर्दो घासमत्ति मुखेन सः ।।

यथासङ्ख्यम्[सम्पादयतु]

प्रथमं निर्दिष्टानां पदार्थानां क्रमेण उद्देश्यानु- प्रथमस्य प्रथमेनैव, द्वितीयस्य द्वितीयेनैवेत्यादिक्रमेण संख्यामनतिक्रम्य समिति यथासंख्यनामालङ्कार उच्यते । तथा च येन क्रमेण यावत् संख्याकोममुदिष्टास्तेनैव क्रमेण पश्चादपि तेषां तावत्संख्याकेषु पदार्थेषु सम्बन्धो संख्यनामालङ्कार इति निष्कर्षः । तद्यथा--

‘शत्रुमित्रविपत्ति च जय रञ्जय भञ्जय ।

विशेषोक्तिः[सम्पादयतु]

अथ कथमपि विशेष प्रकाशयितुं सत्यामप्येतस्यां त्पत्तिरूप निबध्यते तदा विशेषणप्रतिपादनायोक्तिरिति यौगिकत्वमप्यश्रयति, तेन सत्सु कारणेषु कार्याभावरूपस्य उक्तिरस्यामिति । सहकारिसम्पन्ने कारणे कार्यानुपपत्तिवशेषोक्तिरिति फलितार्थः । यथा--

‘हृदि स्नेहक्षयो नाभूत् स्मरदीप ज्वलत्यपि' ।

अत्र स्नेहक्षयकारणस्य ज्वलद्दीपस्य सत्त्वेऽपि स्नेहक्षयरूपकार्यानुत्पत्तिरूप विशेषोक्तिरिति ।

विरोधः[सम्पादयतु]

यत्र चमत्कारजनकः परमार्थतः विरोधाभावेऽपि आपाततो विरोधो भासते स विरोधालङ्कारः । यथा -

‘विनापि तन्वि ! हारेण वक्षोजौ तव हारिणौ' ।

अत्र हाररहितस्य हारवत्वम् विरुद्धम् । हाररहितावपि मनोहरानिति ।

निन्दास्तुतिः[सम्पादयतु]

निन्दास्तुतिभ्यां वाचाभ्यां गम्यत्वे स्तुतिनिन्दयोः ।।

यत्र स्तुतिरभिधीयमानाऽपि प्रमाणान्तराद् बाधितस्वरूपा निन्दायां पर्यवस्यति तन्नासत्यत्वान्निन्दारूपास्तुतिरित्यनुगमेन तावदेका निन्दास्तुतिः । तत्राऽपि निन्दाशब्देन प्रतिपाद्यमानी पूर्ववर्बाधितरूपास्तुतिः पर्यवसिता भवति सा द्वितीया निन्दास्तुतिः । स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । तेन चमत्कारित्वे सति निन्दाभिन्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायि स्तुतिनन्दान्यतरत्वं निन्दास्तुतित्वम् । अन्ये तु स्तुत्योस्तुतेरित्यस्य व्याजस्तुतिं वदन्ति । यथा--

‘क: स्वधुनि विवेकस्ते पापिनो नयसे दिवम् ।

अत्र निन्दया स्तुतिगम्यते ।।

निर्दशना[सम्पादयतु]

यथाश्रुतमात्रेणासम्भवी वस्तु सम्बन्धो यत्रोपमां कल्पयित्वापर्यवस्यति सैका निदर्शना । दृष्टान्तकरणात्मकनिदर्शनरूपत्वात् । सा च द्विधा–अवान्तरवाक्यभेदे च तद्यथा -

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।

तितीषुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।

अत्रोडपेन सागरतरणवन्मदीयमत्या सूर्यवंशवर्णनमसम्भावितमित्युपमायां पर्यवसानान्निदर्शनाऽलङ्कारः । इति ।।

अनन्वयः[सम्पादयतु]

‘एकस्योपमानोपमेयत्वेऽनन्वयो मतः ।' इति लक्षणम्। यथा-

पितुनियोगात् बनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।

धर्मार्थकामेषु सभां प्रपेदे यथा तथैवावरणेषु वृत्तिम् ।।

इत्यत्र यथा तथा शब्दाभ्यां यथाहरिस्तथा हर इत्यत्रैवेकस्यैव रामस्योपमानोपमेयत्वेऽपि समुच्चयोपमैवात्र नत्वनन्वयः । तस्य धर्मार्थकामेषु, अनुजेषु. च समवृत्तिमात्रस्यैव प्रतिपाद्यत्वेन सदृशान्तरव्यवच्छेदे तात्पर्याभावात् । यत्र च द्वितीयसादृश्यव्यवच्छेदस्तत्रैवान्वयः सर्वसम्मतः–गगनं गगनाकार मित्यादौ एवञ्चानन्वयाऽलङ्कारलक्षणमतिव्याप्तमितिचेच्छृणु - उपमानतावच्छेदकधर्मविशिष्टसादृश्यमत्वमेवानन्वयालङ्कारत्वमिति ।

2) अग्निपुराणम्

( नवीनालङ्काराः १४ सर्वे ३१ )

( १४+८८=१०२-७१=३१ ) अग्निपुराणेऽलङ्काराणां विवेचनमतीव संश्लिष्टमस्ति । पूर्वनिर्दिष्टेष्वष्टाशीत्यलङ्कारेषु चतुर्दशनवालङ्कारान् संयोज्य तथैकसप्तत्यलङ्कारान् विहाय मात्रैकत्रिशदलङ्काराणां विवेचनं कृतमनेन अग्निपुराणकत्र व्यासेन मुनिना । तेषु शब्दालङ्कारेषु पूर्वप्रतिपादितानामनुप्रास-यमक-चित्रालङ्कारातिरिक्तानां छाया-मुद्रा-उक्ति-युक्ति-गुम्फना-वाकोवाक्य-दुष्कराणाञ्च प्रतिपादनमभूत् । तथाऽर्थालङ्कारेषु स्वरूपसादृश्य-उत्प्रेक्षा-अतिशय-विभावना-विरोध-हेतु-समालङ्कारेषु समालङ्कार एवैको नवीनालङ्कारोऽस्ति । उभयालङ्कारेषु प्रशस्तिकान्ति-औचित्य-संक्षेप-यावदर्थत्व-अभिव्यक्तयः षड्नवीनाऽलङ्कारा प्रतिपादिताः सन्ति ।

एतेषु चतुर्दशालङ्कारेषु निम्नलिखिता अलङ्कारा एवालङ्कारत्वेन व्यवहृतम् परवत्तभिरलङ्कारिकैरिति ।

मुद्रा[सम्पादयतु]

प्रकृतार्थपरैः शब्दैः सूचनीयार्थस्य सूचने मुद्रालङ्कारः । तथा च चमत्कारजनकत्वे सति प्रकृतार्थबोधकपदकरणकसूच्यर्थसूचनत्वमिति मुद्रालङ्कारः । यथा -

“नितम्बगुर्वी तरुणी दृग्युग्म विपुला च सा' ।

अत्र नायिका वर्णनपरेण युग्मविपुलापदेनास्यानुष्टुप्छन्दसः युग्मविपुला : नामत्वरूपसूच्यर्थसूचनेन मुद्रा बोध्या ।।

उक्तिः[सम्पादयतु]

चमत्कारजनकत्वे सति कार्यातिशयहेतुभिन्नर्धामककार्यातिशयहेतुत्वकल्पनत्वं उक्तित्वम् । यथा -

'कचाः कलिन्दजातीरतमालस्तोममेचकाः' ।

अत्र तमालगतनैत्यातिशयाहेतौ यमुनातटारोहणे तद्धेतुत्वकल्पनम् ।

युक्तिः[सम्पादयतु]

स्वस्य मर्मगोपनीय क्रियया यत् परस्य वञ्चनं सा युक्तिः । तथा च चमत्कारजनकत्वे सति स्वमर्मगोपननिमित्तक क्रियाहेतुकपरवञ्चनत्वं युक्त्यलकारत्वम् । यथा -

त्वामालिखम्तीं दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत्। इति नायकं प्रति सख्युक्तिः । इह पुष्पचापलेखनक्रियया मन्मथ मया लिखित इति भ्रान्त्युत्पादनेन त्वविषयक स्वगतानुरागगोपनाय परवञ्चनं विवक्षितमिति ।

समालङ्कारः[सम्पादयतु]

परस्परमनुरूपयोः पदार्थयोः सम्बन्धस्य वर्णननम् समालङ्कारः । अनुरूपं योग्यत्वम् । यथा--

‘स्वानुरूपं कृतं सदम हारेण कुचमण्डलम् ।'

इह हारकुचमण्डलयोः सौन्दर्येण औचित्येन वानुरूपयोः संयोगस्य तादृशस्य वर्णनमस्ति । विशेषलक्षणानि पुनः-‘कार्यस्य कारणेन सारूप्यं द्वितीयः समः । यथा--

‘नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ।'

इह लक्ष्म्याः जलजातत्वेन जलरूपकारणस्येव नीचासक्तता वणता । अनिष्टं विना यमर्थं कर्तुमुद्यतस्तत्सिद्धिः तृतीयः समः । यथा -

‘युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः ।'

इह वारणार्थिनस्ते वारणलाभो युक्तो न स्यादपितु स्यादेवेति ।

भट्टिकवेः योगदानम्[सम्पादयतु]

( एकविंशतिः नवीनालङ्काराः सर्वेऽष्टात्रिंशत् )

( २१+१७= ३८ ) भट्टिकाव्यस्य रचनाकाले यावन्मात्रालङ्काराः प्रचलिताः आसन् तेषामुदाहरणानि प्रदर्शितानि कविना स्वभट्टिकाव्ये । तेष्वलङ्कारेष्वाक्षेप-समासोक्तिप्रेय-रसवत्-ऊर्जस्वि-पर्यायोक्ति-समाहित-उदार-अपह्नति-व्याजस्तुति-उपमारूपकतुल्ययोगिता-उपमेयोपमा-सहोक्ति-परिवृत्ति-ससन्देह-उत्प्रेक्षावयव-संसृष्टि-आशीहेतु-निपुणाश्चेत्येकविंशतिरलङ्काराः नवीनाः सन्ति ।

अनेन प्रकारेण विष्णुधर्मोत्तरस्योनविंशतिरलङ्कारेषु-निन्दा-स्तुती' परित्यज्य भट्टिकाव्येऽष्टात्रिंशदलङ्काराः उदाहृताः सन्ति । अत्र यमकस्य विंशतिभेदाः प्रदर्शिताः । एवञ्चादिमध्यावसानभेदाद्दीपकस्यापि त्रयोभेदाः प्रदर्शिताः ।

आक्षेपः[सम्पादयतु]

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया।।

आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥[९]

अपह्रतिभिन्नत्वे सति चमत्कारजनकत्वे सति निषेधत्वमाक्षेपत्वम् । विशेषलक्षणानि तु चमत्कारजनकत्वे सति स्वेनोक्तार्थस्य किञ्चिन्निमितमधिसन्धाय प्रतिषेधादाक्षेपः । निषेधाभासत्वमाक्षेपत्वम् । यथा--

नरेन्द्रमौले न वयं राजसन्देशहारिणः ।

व कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥

अत्र सन्देशहारकस्य नाहं सन्देशहारकेति कथनमयुक्तम् इति तादृशकथनं सर्वेऽपि राजानः भृत्यभावेन रक्षणीया इत्यत्र पर्यवस्यति ।

समासोक्तिः[सम्पादयतु]

विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । भाधारणविशेषणमात्रेणोपस्थापिता प्रस्तुतधार्मिकव्यवहाराभेदेन यत्र प्रस्तुतधामको व्यवहारो भासते सा समासोक्तिः । एवञ्च साधारणविशेषणमात्रविशिष्टव्यवहारविशिष्टप्रस्तुतधार्मिकव्यवहारत्वम् समासोक्तित्वम् । यद्वायत्र प्रस्तुतवृत्तान्ते वय॑माने विशेषणसाम्यबलात् अप्रस्तुतवृतान्तस्यापि परिस्फूतिस्तत्र समासोक्त्यलङ्कारः । यथा--

'अयमैन्दीमुखं पश्य रक्तं चुम्बति चन्द्रमा ।' इति ।

अत्र चन्द्रवृतान्तेन कामुकवृत्तान्तोऽवगम्यते । विशेषणसामर्थ्यात् रक्तोऽनुरक्तश्चेति ।

प्रेयोऽलङ्कारः[सम्पादयतु]

विभावानुभावाभ्यां व्यञ्जितो निर्वेदादिस्त्रयस्त्रिशदभेदाः देवतागुरुशिष्यद्विजपुत्रादावभिव्यज्यमाना रतिश्च भावः । स च भावो यत्रापराङ्गम् तत्र प्रेयोऽलङ्कारः । प्रेयोऽलङ्कार एव भावालङ्कारपदेनापि उच्यते । यथा -

‘कदा वाराणस्याममरतटिनीरोधसि वसन् ।

वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।।

अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन ।।

प्रसीदेत्याक्रोश निमिषमिव नेष्यामि दिवसान् ।।

अत्र शान्तरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम् ।

ऊर्जस्विः[सम्पादयतु]

अनौचित्येन प्रवृत्तो रसोभावश्च क्रमेण रसाभासभावाभासावुच्येते तौ च यत्रापरस्याङ्गे भवतस्तत्रोर्जस्विनामाऽलङ्कारः । यथा -

त्वत्प्रत्यर्थिवसुन्धरेशरमणीः सन्त्रासतः सत्वरम्

यान्तीर्वीरविलुण्ठितुं सरभसं याताः किराताः वने ।

तिष्ठन्ति स्तिमिताः प्ररूढपूलकास्ते विस्मृतोपक्रमा

स्तासामुत्तरलैः स्तनैरतितरां लोरिपाङगैरपि ।'

अत्र कविनिष्ठप्रविषयकरतिभावस्य शृङ्गाराभासोऽङ्गम् ।

त्वयि लोचनगोचरं गते सफलजन्मनृसिंहभूपतेः ।।

अजनिष्ठ ममेंति सादरं युधि विज्ञापयति द्विषां गणः ॥

अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयकद्विषदगणरतिरूपो भावाभासोङ्गम् ।

पर्यायोक्तिः[सम्पादयतु]

‘पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।'[१०]

यत्र पर्यायेण भङ्गयन्तरेण प्रकारान्तरेण विवक्षितार्थस्योक्तिः कथनम् तत्र ।

पर्यायोक्तिः[सम्पादयतु]

यद्वा-‘गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् ।' (अ० स०) यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम् । गम्यस्य सतः कथमभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् । न हि तस्यैव तदैव विच्छित्यागम्यत्वं वाच्यत्वं सम्भवति । अतः कार्यमुखद्वारेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात् । अतएवाप्रस्तुतप्रशंसातो भेदः । तद्यथा -

देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।

इति विसंसयन्नीवीं तस्या कृष्णो मुदेस्तु नः ।।

समाहितालङ्कारः[सम्पादयतु]

भावस्य प्रशमावस्थाभावशान्तिः । भावशान्तेः पराङ्गत्वे समाहितालङ्कारः । तथा च चमत्कारजनकत्वे सति अपराङ्गत्वे सति भावशान्तित्वं समाहितालङ्कारत्वम् । यथा -

पश्यामः किमयं प्रपद्यतः इति स्थैर्यं मयालम्बितम्

किं वा नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।

इत्यन्योऽन्यविलक्ष्य दृष्टिचतुरे तस्मिन्नवस्थान्तरे

सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया ।।'

अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ।।

उदारालङ्कारः[सम्पादयतु]

यत्र महतां महत्वप्रतिपादकसाधर्म्यम्, प्रस्तुतस्य अङ्गसम्पादकं भवेत्तत्रोदारोऽलङ्कार उच्यते । यथा -

‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी ।

निवसन्बाहुसहायश्चकार रक्षः क्षयं रामः ॥

अत्रेतादृशो महान् रामो दण्डकायावर्णनीयाया अङ्गम् । उदारोऽलङ्कार एवोदात्तालङ्कारपदेनापि उच्यते ।।

अपह्नतिः[सम्पादयतु]

उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादात्म्यमपतिः । तथा च चमत्कारजनकत्वे सति वाक्यार्थोपकारकत्वे सति उपमेयतावच्छेदकनिषेधविशिष्टोपमानाभेदत्वम् अपहृतित्वम्, इति सामान्यलक्षणम् । यथा -

'नायं सुधांशुः किं तह व्योमगङ्गासरोरुहम् । इति ।

स च द्विविधोऽपह्रत्यलङ्कारः – शुद्धापह्नतिः, हेत्वपह्नतिश्च । शुद्धापह्नुतिः – अन्यस्यार्थे । यथा-

नायं सुधांशुरिति ।

‘स च एव युक्तिपूर्वश्चेत्युच्यते हेत्वपह्नतिः

यथा -

'नेन्दुस्तीव्रोनिश्यकैः सिन्धोरोऽयमुत्थितः । इति ।

‘अन्यत्र तस्यारोपार्थः पर्यस्तापह्रतिस्तु सा ।'

यथा -

'नायं सुधांशुः किं तह सुधांशुः प्रेयसीमुखम् ।'

‘भ्रान्तापह्नतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।' इति ।

यथा-

'तापं करोति सोत्कम्प ज्वरः किं न सखि स्मरः ।

‘कैतवापह्नतिर्व्यक्तौ व्याज्याचैनिह्नतेः पदैः ।' इति ।

यथा-

निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ।। इति पञ्चभेदाः भवन्ति ।

एतदन्यतमत्वमपि लक्षणं सम्भवति ।

व्याजस्तुतिः[सम्पादयतु]

‘व्याजस्तुतिमुखे निन्दास्तुतिर्वा रूढिरन्यथा ।'

मुखे निन्दावगतौ यत्स्तुतौ पर्यवसानं स्तुतेर्वा मुखेऽवगमो निन्दायां पर्यवसानं तद्व्याजस्तुतिर्वाच्यम् । कथमुभयोरनेनाभिधानमिति चेत् आद्यस्य व्याजेन स्तुतिरिति ग्रहणात् अन्यस्य तु । व्याजरूपी स्तुतिरिति ।

तत्राद्या यथा-‘हित्वा तामुपरोधे'त्यादि । अन्त्या यथा-

‘हे हेलाजितबोधिसत्त्वे जिते’त्यादि

उपमारूपकम्[सम्पादयतु]

रूपयति एकतां नयतीति रूपकम् । रूपंको लक्षणाविशेषः रूपयुक्तं करोतीत्यर्थः सोऽस्मिन्नस्तीति रूपकालङ्कारः । अलङ्कारत्वे सति अर्थोपकारकत्वे सति उपमेयतावच्छेदकविशिष्टतादात्म्यवत्वम् रूपकत्वम् । यथा—

मुखं चन्द्र इत्यत्र चन्द्रप्रतियोगिकतादात्म्यवन्मुखमित्याकारक। शाब्दबोध इति

तुल्ययोगिता[सम्पादयतु]

औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानाम | प्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता । यद्वा

‘वण्र्यानामितरेषां वा धर्मेक्यं तुल्ययोगिता । तेनानेकप्रस्तुतमात्रसम्बन्धंत्वप्रकारकचमत्कारजनकज्ञानविषयैकधर्मानेकाप्रस्तुमात्रसम्बन्धत्वप्रकारकचमत्कारजनकज्ञानविषयैकधर्मान्यतरवत्वं तुल्ययोगित्वम् ।

यथा-

‘सङ्कुचन्ति सरोजानि स्वैरिणी वदनानि च ।। अत्र प्रस्तुततुल्ययोगितेति ।

उपमेयोपमा[सम्पादयतु]

“अथ पर्यायेण द्वयोस्तच्चेपमेयोपमा मताः ।। इत्युपमेयोपमालङ्कारः । यथा वाक्यार्थोपकारकत्वे सति उपमानतावच्छेदकधर्मविशिष्टसादृश्यत्वमुप मेयोपमात्वम् । यथा -

‘धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ।' इत्यत्रोपमानतावच्छेदकार्थत्वविशिष्टत्वस्य ‘धर्मोऽर्थ इव पूर्णश्रीः' इति सादृश्ये सत्वाल्लक्षणसमन्वयः।

सहोक्तिः[सम्पादयतु]

‘सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ।'

चमत्कारजनकत्वे सति गुणप्रधानभावावच्छिन्नयोरर्थयो सहार्थसम्बद्धत्वं सहोक्तिश्वालङ्कारत्वम् । यद्वा-चमत्कृतिजनकत्वे सति साहित्यं सहोक्तिः । यथा-‘दिगन्तमगमत् तस्य कीतिः प्रत्यथिभिः सह ।' इति ।

परिवृत्तिः[सम्पादयतु]

'परिवृत्तिवनिमयो योऽर्थानां स्यात्समासमैः ।'

चमत्कारजनकत्वे सति न्यूनाधिकयोः परस्परविनिमयत्वं परिवृत्त्यलङ्कारत्वम् । तद्यथा -

‘अङ्गानि दत्त्वा हेमाङ्गि प्राणान् क्रीणासि चेन्नृणाम् ।

ससन्देहालङ्कारः[सम्पादयतु]

उपमानेन तत्त्वञ्च भेदं च वदतः पुनः ।

ससन्देहवचस्तुत्यै ससन्देहं विदुर्यथा ।।[११]

यद्वा–ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः।[१२]

अत्र प्रकृतस्य समेन सादृश्यज्ञानप्रयोज्यो यः संशयः संशयज्ञानं ससन्देहनामालङ्कारः । तद्यथा -

मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।

रघुपतिमवलोक्य तत्र दूरदृषिनिकरैरिति संशयप्रपेदे ।।

उत्प्रेक्षावयवः[सम्पादयतु]

तद्भिन्नत्वेन तदभाववत्वेन वा प्रमितस्य पदार्थस्य रमणीयववृत्ति तत्समानाधिकरणान्यतरतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्वेन वा सम्भावनमुत्प्रेक्षावयवोऽलङ्कारः । यथा -

‘लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।।

संसृष्टिः[सम्पादयतु]

एतेषामलङ्काराणां यथासम्भवं क्वचिन्मेलने चारुत्वातिशयोपलम्भात् नरसिंहन्यायेन पृथगलङ्कारावस्थितौ तन्निर्णयश्चेत्थं भवति । तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्कारमेलने संसृष्टिः । यथा--

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।।

असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥

अत्र पूर्वार्द्ध उत्प्रेक्षा, उत्तरार्द्ध उपमा, इत्यर्थालङ्कारयोः संसृष्टिः ।।

आशीः[सम्पादयतु]

‘आशीरिष्टजनाशंसा ।'

इष्टजनस्य स्वप्रियपुंसः आशंसा अभिमतप्राप्तीच्छा आशीर्वादः आशीर्नाम नाट्यालङ्कारः । यथा---

'ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव ।

पुत्रं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥'

हेतुः[सम्पादयतु]

कार्येण सह कारणस्य वर्णनं हेत्वलङ्कारः । तथा च -

कारजनकत्वे सति कार्येण सह कारणस्य वर्णनत्वं हेत्वलङ्कारत्वम् । यथा -

‘आशावुदेति शीतांशुर्मानच्छेदाय सुध्रुवाम् ।

अत्र स्त्रीमानच्छेदनरूपकार्येण सह शीतांशुवर्णनम् ।

निपुणः[सम्पादयतु]

दोषेऽपि गुणं दृष्ट्वा तदभ्यर्थनायमपि नाट्यालङ्कारः । यथा -

‘विपदः सन्तु नः शश्वद्यासु सङ्कीर्यते हरिः ।

भामहस्य योगदानम्[सम्पादयतु]

( द्वौ नवीनालङ्कारौ सर्वेऽष्टात्रिंशत् )

(२+३६=३८ ) अष्टात्रिंशदलङ्काराणामेव निरूपणं कृतं भामहेन । भट्टिकवेरुदारालङ्कार एव उदात्तपदेनोच्यतेऽत्र। पाठभेदस्वीकरणेऽपि नास्त्युदारोदात्तयोरर्थभेदः किमपि । भामहदष्ट्या सर्वत्राऽलङ्कारविषये वक्रोक्तिरेव प्राणत्वेनावतिष्ठते 'कोऽलङ्कारोऽनया विना । वक्रोक्ति विना हेतु-सूक्ष्म-लेशानामप्यनेनालङ्कारत्येनाङ्गीकृतमनेन । तथा निपुणस्य निरूपणमेवाकृतम् । उपमायाः भेदरूपेणैव प्रतिवस्तूपमालङ्कारस्य विवेचनं कृतमनेन । यथा

समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।

यथेवानभिधानेऽपि गुणसाम्यप्रतीतितः ॥[१३]

भामहनिरूपिताष्टात्रिंशदलङ्कारेषु-अप्रस्तुतप्रशंसा-भाविकौ चालङ्कारी द्वावेवाभिनवौ स्तः । तत्र -

अप्रस्तुतप्रशंसा[सम्पादयतु]

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।[१४]

अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा —

चमत्कारजनकत्वे सति प्रस्तुतपरत्वे सति अप्रस्तुतवर्णनत्वमप्रस्तुतप्रशंसात्वम् । यथा -

'एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ।'

अत्र शकुन्तप्रशंसया एकराजसेविपुरुषस्य प्रशंसा भवति ।

भाविकः[सम्पादयतु]

भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।

प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ।।[१५]

देशकालाभ्यां स्वभावेन विप्रकृष्टार्थस्य साक्षात् ग्रहणायोग्यस्यापि सामग्रीबलेन प्रत्यायमाणत्वं स्फुटतया पुरः स्फुरदूपत्वेनैव प्रतीतिर्भाविकत्वम् । इह प्रत्यक्षेणैव अर्थः स्फुटतया प्रतीयतेऽनुमानशब्दादिभिस्त्वस्फुटतया । तत्र शब्दादपि सामग्रीवशेन पुनः स्फुरदूपतयैवावगतिर्भाविकम् ।[१६]

दण्डिनः योगदानम्[सम्पादयतु]

( त्रयोऽभिनवालङ्काराः, सर्वे सप्तत्रिंशदलङ्कारः )

(३+४२=४५-८=३७) दण्डिनः सप्तत्रिंशदलङ्कारेषु त्रयोऽभिनवालङ्कारा एव निरूपिताः सन्ति । ते चावृत्तिः, सूक्ष्मः, लेशाश्च ।। (१) आवृत्तिः–'विविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् ।'

चमत्कारजनकवण्वण्र्योभयसम्बन्धत्वप्रकारकज्ञानविषयावृत्तधर्मवत्त्वम्, आवृत्तित्वम् । यथा -

‘वर्षयम्बुदमालेयं वर्षत्येषा च शर्वरी ।' इति ।

सूक्ष्मः[सम्पादयतु]

हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् ।

इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सौक्ष्म्य इति स्मृतः ॥[१७]

इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रतिप्रकाशन सूक्ष्मालङ्कारः ।

यथा-

‘मयि पश्यति साकेशैः सीमन्तमणिमावृणोत् ।।

केशकरणकाच्छादनरूपचेष्टया अस्तंगते सूर्ये त्वयाऽगन्तव्यमिति सङ्केतकालः सुच्यते । तेन पराशयाभिज्ञस्य साकूतचेष्टितं सूक्ष्मालङ्कारोऽत्र बोध्यम् ।

लेशः[सम्पादयतु]

‘हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् ।।[१८]

दोषगुणयोः गुणदोषकल्पनं लेशः । यथा--

अखिलेषु विहङ्गषु हन्त ! स्वच्छन्द चारिषु ।।

शुक ! पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥

अथ माधुरभाषित्वस्य गुणस्य पञ्जरबन्धहेतुतया दोषत्वं कल्पितम् ।

उद्भटस्य योगदानम्[सम्पादयतु]

( षडभिनवालङ्काराः सन्ति ) | (६+४५=५१-१०=४१) पूर्वप्रतिपादितेषु पञ्चचत्वारिंशदलङ्कारेषु यमक-निपुण-उपन्यास-निन्दास्तुतिउत्प्रेक्षावयव-उपमारूपक-आवृत्ति-आशी-सूक्ष्मलेश इति दशालङ्कारान् परित्यशैकचत्वारिंशदलङ्काराणां निरूपणं कृतमनेन ग्रन्थकारेण स्वकाव्यालङ्कारसारसंग्रहे। तेष्वेकचत्वारिंशदलङ्कारेषु पुनरुक्तवदाभास-छेकानुप्रास-लाटानुप्रास-प्रतिवस्तुपमा-काव्यलिङ्ग-दृष्टान्ताश्चेति षडभिनवालङ्काराः निरूपिताः सन्ति । ते यथा -

पुनरुक्तवदाभासः[सम्पादयतु]

‘पुनरुक्ताभासमभिन्नवस्त्विवोद्भासिभिन्नरूपदम्।[१९]

एवञ्च विभिन्नरूपयोर्वस्तुतो भिन्नार्थकयोरपि शब्दयोरापाततः एकार्थकतया प्रतीतिः पुनरुक्तवदाभास इति । मम्मटभट्टस्तु-‘अत्रकस्मिन्पदे परिवत्तते नालङ्कार इति शब्दाश्रयः । अपरस्मिस्तु परिवर्तितेऽपि न हीयते, इत्यर्थनिष्ठः । इत्युभयालङ्कारोऽयम् । किन्तु शब्दवैचित्र्यस्योत्कटतया पुनरुक्तवदाभासः शब्दालङ्कारमध्ये एव गणितः । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वाच्छब्दालङ्कार एवेति । अलङ्काररत्नाकरः । तद्यथा-

‘भुजङ्गकुण्डलीत्यक्तशशिशुभ्रांशुशीतगुः ।

जगन्त्यपि सदापायादव्याच्चेतो सदाहरः ।।

छेकानुप्रासः[सम्पादयतु]

‘लोकोक्तेरर्थान्तरव्यञ्जकता चेति छेकानुप्रासः । यथा -

‘भुजङ्ग एव जानीते भुजङ्गचरणं सखे । अत्र चमत्कारजनकत्वे सति लोकोक्तिनिष्ठार्थान्तरव्यञ्जकत्ववर्णनत्वमेव छेकानुप्रासत्वमिति ।।

लाटानुप्रासः[सम्पादयतु]

शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः । लाटानुप्रासः ॥ इति । यथा -

‘स्मेरराजीवनयने लोचने कि निमीलिते।'

अत्रार्थमात्रस्य पौनरुक्त्येशब्दस्य च तद्भावे लाटानुप्रासः ।

प्रतिवस्तूपमा[सम्पादयतु]

उपमानसन्निधाने च साम्यवाच्युच्यते बुधैर्यत्र ।

उपमेयस्य च कविभिः सा प्रतिवस्तूपमा यथा ॥[२०]

साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतया अभिहितत्वात् शब्दभेदेन यदुपादीयते सा वस्तुनो वाक्यार्थत्वस्य उपमानत्वात् प्रतिवस्तुपमालङ्कारः । यथा -

'तापेन भाजते सूरः शूरश्चापेन राजते।'

अत्र दीप्तिरूपस्यैकस्यार्थस्य भ्राजराजशब्दाभ्यामुपादानेन वस्तुप्रतिवस्तुभावापन्नत्वम् । तेन सूर्यशूरयोराथिकोपमानोपमेयभाव इति । तेन

| ‘वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मताः ।

काव्यलिङ्गम्[सम्पादयतु]

समर्थनाक्षेपार्थसमर्थनं काव्यलिङ्गालङ्कारः ।। तथा च चमत्कारजनकत्वे सति समर्थनाक्षेपसमर्थनत्वं काव्यलिङ्गम् । यथा -

'जितोऽसि मन्द ! कन्दर्प ! मच्चित्तेऽस्ति त्रिलोचनः ।।

कन्दर्पजयस्य दुष्करत्वेन साक्षेपत्वमिति समर्थनाय मच्चितेऽस्ति त्रिलोचनः इत्युपादानात् । येन त्वं भस्मसात् कृतः स मम हृदये वसति अतस्त्वं मया जितः इति अर्थावबोधः ।

दृष्टान्तः[सम्पादयतु]

‘चेद बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतिः।'

चमत्कारजनकत्वे सति उपमानवृत्तिधर्मविशिष्टोपमेयधर्मवत्वं दृष्टान्तालङ्कारत्वम् । यथा--

त्वमेव कीर्त्तिमान् राजन् विधुरेव हि कान्तिमान् ।'

अत्र कीत्तकान्त्योः बिम्बप्रतिबिम्बभावेन राज्ञि विधुर्सादृश्यप्रतीतिरिति ।

वामनस्य योगदानम्[सम्पादयतु]

( द्वौ नवीनालङ्कारौ, सर्वे द्वात्रिंशत् ) काव्यालङ्कारसूत्रवृत्तौ वामनस्तु वक्रोक्तिस्तथा व्याजोक्तिरिति द्वावेवाभिनवालङ्कारी मन्यते । हेतु-स्वभावोक्ति-संकर-वार्ता-लेश-निपुण-दृष्टान्त-काव्यलिङ्ग-उपन्यास-निन्दास्तुति-आशी-आवृत्ति-पर्यायोक्त-प्रेय-रसवत्-ऊर्जस्वि-उदात्तभाविक-सूक्ष्म-लाटानुप्रास-छेकानुप्रासादीनामेकविंशतिपूर्वप्रतिपादितानामलङ्काराणां प्रत्याख्यानकृत्वा मात्रैकचत्वारिंशदलङ्काराणामेवात्र विधानं कृतवान् । (२+५१=५३-२१=३२ )।

वक्रोक्तिः[सम्पादयतु]

श्लेषकाकुभ्यामभिप्रेतार्थात् अन्यार्थस्य प्रकल्पनम् वक़ोत्यलङ्कारत्वम् । यथा -

‘मुञ्चमानं दिने प्राप्तं नेह नन्दी हरान्तिके ।'

यद्यपि हरस्य समीपे नन्दी नास्ति अर्थात् तव समीपे स्वामी अस्ति । दिनं प्राप्त अर्थात् रात्रिर्गता । मानस्यावसरो नास्ति तथापि त्वं मानं न त्यजसि इति सखी प्रति सख्युक्तिः । नन्दीत्यत्र पदे श्लेष इति ।

व्याजोक्तिः[सम्पादयतु]

अन्यहेतुकथनेन यदाकारस्य गोपनं तत् व्याजोक्तिः। यद्वा प्रकाशीभवदर्थस्य छलेनापलापः व्याजोक्तिः । यथा---

‘सखि पश्य गृहारामपरागै रश्मिधूसरा'

अत्र चौर्यरतकृतसंकेतभूपृष्टलुण्ठनलग्नधूलिसमुदायस्य गृहारामपरागैर्गोपन

मिति ।

रुद्रटस्य योगदानम्[सम्पादयतु]

(पञ्चत्रिंशदभिनवालङ्कारास्तथैकत्रिंशत्पूर्वप्रतिपादितालङ्काराः प्रतिपादिताः ) ( ३५+५३=८८-२२= ६६ )

समुच्चयः[सम्पादयतु]

बहूनां युगपद् भावभाजां गुम्फः समुच्चयः अथवारमणीयत्वे सति युगपदबहुपदार्थसम्बन्धत्वं समुच्चयालङ्कारत्वम् । समानकालभवनभाक् बहुंपदार्थानां वर्णनं समुच्चयः । यथा

‘नश्यन्ति पश्चात् पश्यन्ति त्रस्यन्ति च भवद्विषः ।'

भावोदयः[सम्पादयतु]

भावस्योगमावस्था भावोदयः । स यद्यपराङ्गं तदा भावोदयालङ्कारः । यथा -

तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी ।

अदशि पादेन विलिख्य पत्रिणा तथैव रूपेण समः स मत्प्रियः ॥

अत्र नलं प्रति दमयन्त्याः दिनं निनीषामीत्यनेनोत्सुकतारूपभावोदयः शृङ्गाररसस्याङ्गम् ।

विषमः[सम्पादयतु]

परस्परानुरूप्यरहितयोः पदार्थयोः यत्र सम्बन्धो वय॑ते तत्र विषमालङ्कारः । यथा--

''क्वेयं शिरीषमृद्वङ्गी क्व तावन्मदनज्वरः ।' इहाङ्गनायां शिरीषमृदुवर्णनेनास्याः दुःखासहिष्णुतायाः मदनज्वरो युक्त इति लौकिकव्यवहाराविषयस्याननुरूपस्य मदनज्वरस्य सामानाधिकरणप्रतीत्यालक्षणसमन्वयः।

अनुमानम्[सम्पादयतु]

अनुमितिकरणमनुमानम् । अनुमितित्वं चानुमिनोमीति मानससाक्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्यज्ञानं वानुमितिः । अस्य च कविप्रतिभोल्लिखित्वेन चमत्कारित्वे काव्यालङ्कारतेति । शुद्धानुमानं यथा -

निलीयमानैविहगैनिमंतवद्भिश्च पङ्कजैः ।

विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ।।

परिकरालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति प्रकृतार्थोपपादकार्यव्यञ्जनविशेषणत्वं परिकलिङ्कारत्वम् । यथा -

सुधांशुकलितोतंसस्तापं हरतु वः शिवः । इति । सुधांशुना कलितः कृतः उत्तंसः शेखरो येन सः शिवः वः युष्माकं तापं हरतु नाशयतु इत्यर्थः । शैत्येन तापस्य हरणात् ‘सुधांशु' इति विशेषणं साभिप्रायमिति लक्षणसमन्वयः ।।

परिसंख्या[सम्पादयतु]

सामान्यतः प्राप्तस्यार्थस्य कस्माच्चित् विशेषाद् व्यावृत्तिः परिसंख्या । चमत्कारजनकत्वे सति एकपदार्थप्रतिषेधपूर्वकापराधिकरणकवस्तुनियमत्वं परिसंख्यात्वम् । यथा- --

‘स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतध्रुवाम् ।'

अत्र स्त्रीहृदये स्नेहक्षयं निषिद्धय दीपेषु स्नेहक्षयः कथितः ।

कारणमाला[सम्पादयतु]

कारणमाला सेयं यत्र यथापूर्वमेति कारणताम् ।

अर्थानां पूर्वार्थाद् भवतीदं सर्वमेवेति ।।[२१]

यदा पूर्वपूर्वं क्रमेणोत्तरमुत्तरं प्रतिहेतुत्वं भजते, वदा कारणमाला ख्योऽयमलङ्कारः । यथा -

भवन्ति नरकाः पापात् पापं दारिद्रयसम्भवम् ।

दारिद्रयमप्रदानेन तस्माद्दानपरो भव ।।

अत्र वस्तुपदेन कार्यकारणान्यतरं ग्राह्यम् ।

अन्योऽन्यः[सम्पादयतु]

यान्योऽन्यमुपकारः स्यात् तान्योऽन्यं नामालङ्कारः । तथा च चमत्कारजनकत्वे सति पदार्थविशिष्टपदार्थवर्णनत्वमन्योन्यालङ्कारत्वम् । यथा-

‘कमलेन पयः पयसा कमलम् ।'

उत्तरालङ्कारः[सम्पादयतु]

‘किञ्चिदभिप्रायसहितं गूढमुत्तरमुत्तरालङ्कारः । यथा-

‘यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ।।

सरित्तरणमार्गं पृच्छन्तं प्रति तं पुरुषं कामयमानायाः नायिकाया उत्तरमिदम् ।

सारालङ्कारः[सम्पादयतु]

यत्रोत्तरोत्तरस्य पूर्वपूर्वप्रतियोग्यमुत्कर्षवत्त्वं कथ्यते स सारालङ्कारः । स च श्लाघ्यगुणोत्कर्षकः, अश्लाघ्यगुणोत्कर्षकः उभयरूपश्च । तद्यथा प्रथमः

‘अन्तविष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते' ।। द्वितीयः -

तृणाल्लघुतरस्तुलस्तुलादपि च याचकः ।

वायुना कि न नीतोऽसौ मामयं प्रार्थयेदिति । ।

उभयरूपो यथा--

गिरिर्महान् गिरेरब्धिर्महान् अब्धेर्नभो महत् ।

नभूसोऽपि महब्रह्म ततोप्याशागरीयसी ॥

अत्र ब्रह्मपर्यन्तेषु महत्त्वं श्लाघ्यगुणः, प्रकृतार्थाशायामश्लाघ्यगुण इति ।

अवसरः[सम्पादयतु]

रुद्रटस्यावसरोऽलङ्कारः उद्भटस्य द्वितीयोदात्तवरूपे वर्णितोऽस्ति ।

मीलितालङ्कारः[सम्पादयतु]

यदि स्वसादृश्याद्भ दो न लक्ष्यते तदालितालङ्कारः । यथा--

‘रसो नालक्षि लाक्षाया चरणे सहजारुणे ।'

अत्र चरणयोः सहजारुण्येन स्वसदृशाल्लाक्षारसस्य ज्ञानं न जायते । '

एकावली[सम्पादयतु]

एकावलीति सेयं यत्रार्थपरम्परा यथालाभम् ।

आधीयते यथोत्तरविशेषणा स्थित्यपहोभ्याम् ॥[२२]

पूर्वं पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत्स्थापनं निषेध वा सम्भवति सा द्विधा बुधैरेकावली भण्यते ।

प्रथमः–'नेत्रे कर्णान्तविश्रान्ते कण द्वौ स्तम्भदोलितौ ।'

द्वितीयम्-‘न तज्जलं यन्न सुचारुपङ्कजं ।

न पङ्कजं तद् यदलीनषट्पदम् ।।

मतालङ्कारः[सम्पादयतु]

प्रत्याख्यानं कृतमस्यालङ्कारस्य मम्मटभट्टेन ।

अन्योक्तिः[सम्पादयतु]

अन्योक्त्यलङ्कारस्यान्तर्भावोऽभवदन्यस्मिन्नलङ्कारे परवत्तिभिरालङ्कारिकैः ।

प्रतीपम्[सम्पादयतु]

यत्रानुकम्प्यते समुंपमाने निन्द्यते वापि ।

उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात् ।।[२३]

अलङ्कारत्वे सति वाक्यार्थोपकारकत्वे सति प्रसिद्धोपमानप्रतिकूलधर्मवत्त्वम् प्रतीपत्वम् । प्रतिकूलत्वञ्च तिरस्टारप्रयोजकत्वम् । उपमानोपमेयभावस्य विवक्षाधीनत्वेन चन्द्र इव मुखमित्यत्र मुखस्यापि उपमानत्वं भवतीत्युप. मायामतिव्याप्तिवारणाय प्रसिद्धेति । एवञ्च कविकुले प्रकृते चन्द्रस्यैवोपमानत्वं प्रसिद्धमिति नातिव्याप्तिः । उदाहरणं यथा -

‘त्वल्लोचनसमं पद्मं त्वद्वक्त्रसदृशो विधुः ।'

अत्र प्रसिद्धोपमानस्य पद्मादेः न्यूनत्वबोधनाय नेत्रसादृश्यं विवक्षितम् ।

उभयन्यासः[सम्पादयतु]

उभयन्यासोऽर्थान्तरन्यासादीनामपि नालङ्कारेतरत्वमिति मन्यन्ते परवत्तिनः ।

भ्रान्तिमान्[सम्पादयतु]

अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् ।

निःसन्देहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ।।[२४]

यत्र प्रतिपत्त्यार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थं उपमान- . लक्षणं निःसंशयमवबुध्यते स इत्यमुना प्रकारेण भान्तिमानलङ्कार इति । यथा--

‘अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।'

सा भ्रान्तिः पशुपक्ष्यादिगती यस्मिन् वाक्यसन्दर्भेऽनूद्यते स भ्रान्तिमान् ।

प्रत्यनीकम्[सम्पादयतु]

वक्तुमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र ।

तस्य विरोधीत्युक्त्वा कल्पयेत्प्रत्यनीकं तत् ।।[२५]

यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकारः कत्तुं न शक्यत इति तत्सम्बन्धिनो दुर्बलस्य यत् तं बाधितुं तिरस्कारः क्रियते । तत् प्रत्यनीकमलङ्कारः । यथा--

नेत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधः कृतौ ।

उत्पन्नाभ्यां विजेतुमशक्ययोः स्वजयकारिणोः नेत्रयोः अनुसारिणौ । कण तिरस्कृताविति ।

पूर्वाऽलङ्कारः[सम्पादयतु]

मम्मटभट्टमतानुसारेण कार्यकारणस्य विप“यरूपातिशयोक्तावस्य पूर्वालङ्कारस्यान्तर्भावो वर्तते ।[२६]|

साम्यम्[सम्पादयतु]

अथ क्रियया यस्मिन्नुपमानस्यैति साम्यमुपमेयम् ।

तत्सामान्यगुणादिककारणया तद्भवेत्साम्यम् ।।[२७]

परस्परमनुरूपयोः पदार्थ योः सम्बन्धस्य वर्णनम् साम्यालङ्कारः । अनुरूपत्वं योग्यत्वम् । तच्च युक्तमिति लौकिकव्यवहारविषयत्वम् । तथा च चमत्कारजनकत्वे सति स्वविशिष्टसम्बन्धवर्णनत्वम् साम्यालङ्कारत्वम् ।। यथा -

‘स्वानुरूपं कृतं सद्म हारेण कुचमण्डलम् ।।

इह हारकुचमण्डलयोः सौन्दर्येण औचित्येन वानुरूपयोः संयोगस्य तादृश्यस्य वर्णनमस्ति । कार्यस्य कारणेन सारूप्यम् । यथा -

'नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ।'

इह लक्ष्म्याः समुद्रजलजातत्वेन जलरूपकारणस्येव नीचासक्तता वणता अनिष्ट विना यमर्थं कत्तु मुद्यतस्तत्सिद्धिस्तृतीयं साम्यम् । यथा -

युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः ।

इह वारणार्थिनस्ते वारणलाभो युक्तो न स्यादिति ।।

स्मरणम्[सम्पादयतु]

वस्तुविशेषं दृष्ट्वा प्रतिपत्ता स्मरति यत्र तत्सदृशम् ।

कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम् ।।[२८]

उदाहरणं यथा -

अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।

स्मरामि वदनं तस्याश्चारुचञ्चललोचनम् ॥

तद्गुणालङ्कारः[सम्पादयतु]

यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम् ।

संसर्गे नानात्वं न लक्ष्यते तद्गुणः स इति ।।[२९]

यत्र परिमितगुणस्य वस्तुनः समीपर्वात प्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणस्तस्योत्कृष्टगुणस्य गुणाः अस्मिन्निति कृत्वा । न चेदं मीलितं तत्र हि प्रकृतं वस्तुवस्त्वन्तरेणाच्छादितत्त्वेन प्रतीयते । उदाहरणं यथा -

नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः ।

बन्धूकभावमानिन्ये रागेणाधरवत्तना ।।

अधिकालङ्कारः[सम्पादयतु]

यत्रान्योऽन्यविरुद्ध विरुद्धबलवत् क्रिया प्रसिद्धं वा ।

वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम् ।।

यत्राधारेसुमहत्याधेयमवस्थितं तनीयोऽपि ।

अतिरिच्येत कथञ्चित्तदधिकमपरं परिज्ञेयम् ॥[३०]

आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकस्यातिन्यूनकल्पनमधिकम् । उदाहरणं यथा -

अहो विशालं भूपाल भुवनत्रितयोदरम् ।

भाति मातुमशक्योऽपि यशोरात्रिर्यदत्र ते ।।

असङ्गतिः[सम्पादयतु]

विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र ।

यस्यामुपलभ्येते विज्ञेया संगतिः ज्ञेयम् ।।[३१]

ययोः कार्यहेत्वोः भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसङ्गतिः । तथा च चमत्कारजनकत्वे सति कार्यताविशिष्टकारणत्वमसङ्गतित्वम् । यथा

‘विषं जलधरैः पीतं मूच्छिताः पथिकाङ्गना ।'

पिहितम्[सम्पादयतु]

परवृत्तान्तज्ञातुः साकूतचेष्टितं पिहितालङ्कारः । उदाहरणं यथा -

'प्रिये गृहागते प्राप्ते कान्तातल्पमकल्पयत् ।।

अत्र गृहागते कान्ताशयनमकल्पयत् । रात्रौ सपत्नीगृहे जागरणत्वं श्रान्तोऽसि इति शयनकल्पनरूपसाभिप्रायकचेष्टा कामिन्याः वर्तते ।

व्याघातः[सम्पादयतु]

अन्यैरप्रतिहतमपि कारणमुत्पादनं न कार्यस्य ।

यस्मिन्नभिधीयते व्याघातः स इति विज्ञेयः ।।[३२]

यं कञ्चिदुपायमवलम्ब्य केनचिद्यन्निष्पादित वस्तु तत्ततोऽन्येन केनचित् । तत्प्रतिद्वन्द्विना तेनेवोपायविशेषेण यदन्यथा क्रियते स निष्पादित वस्तुव्याहतिहेतुत्वात् व्याघातः । उदाहरणं यथा -

दृशा दूग्धं मनसिजं जीवयन्ति दृशैव याः ।

विरूपाक्षस्य जयनीस्ताः स्तुवे वामलोचना ।।

अहेतुरविशेषश्च[सम्पादयतु]

अहेतुरविशेषादौ नालङ्कारत्वं मन्यते मम्मटभट्टाद्याचार्याः ।।

असम्भवः[सम्पादयतु]

कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्ववर्णनत्वमसम्भवत्वम् । उदाहरणं यथा -

‘को वेद गोप शिशुकः शैलमुत्पाटयेदिति' ।

अत्र गोपबालककतृकशेलकर्मकोद्धरणस्यात्यन्तासम्भावितस्य कथनम् ।

अवयवः[सम्पादयतु]

उत्प्रेक्षावयवादीनलङ्कारान् स्वतन्त्रालङ्कारत्वमेवास्वीकृतं रुद्रटेण ।।

तत्त्वालङ्कारः[सम्पादयतु]

अस्याप्यलक्कारत्वं नाङ्गीकृतं परवत्तभिराचार्यंः। '

वक्रोक्तिः[सम्पादयतु]

श्लेषकाकुभ्यामभिप्रेतार्थात् अन्यार्थस्य प्रकल्पनं वक़ोत्यलङ्कारत्वम् । यथा -

‘मुञ्चमानं दिने प्राप्तं नेह नन्दी हरान्तिके।'

यद्यपि हरस्य समीपे नन्दी नास्ति अर्थात् तव समीपे स्वामी अस्ति । रात्रिर्गता। मानस्यावसरो नास्ति तथापि त्वं मानं न त्यजति इति सखि प्रत्युक्तिः ।

श्लेषः[सम्पादयतु]

उपमानेन यत्तत्वमुपमेयस्य साध्यते ।

गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥[३३]

चमत्कारजनकत्वे सति नानाधर्मावच्छिन्नार्थनिरूपितनानाशक्तिमच्छब्दजनत्वम् श्लेषत्वम् । यथा---

'सर्वदो-माधवः पायात् स योग-गामदीधरत् ।'

स सर्वदः सर्वद्यता माधवः विष्णुः पायात् रक्षेत् योऽगं गोवर्धननामकं पर्वतं गां पृथ्वीं धृतवान् इति विष्णुपक्षे, अन्यपक्षे उमाधवः पायात् यो गङ्गाम् अदीधरत् ।

चित्रालङ्कारः[सम्पादयतु]

काव्यवित्प्रवरैश्वित्रं खङ्गबन्धादि लक्ष्यते ।

तेष्वाद्यमुच्यते श्लोकद्वयी सज्जनरञ्जिका ॥

कामिनीव भवत्खङ्ग लेखाचारुकरालिका ।

काश्मीरसेसारक्ताङ्गीशत्रुकण्ठान्तिकाश्रिता ।।[३४]

यत्र खड्गादि सन्निवेशविशेषेण न्यस्ताः वर्णाः खड्गाद्याकारं प्रकटयन्ति तत्र चित्रालङ्कारः । तथा च चमत्कारजनकत्वे सति खड्गादिसभिवेशप्रयत्नत्वं चित्रालङ्कारत्वम् ।

भोजराजस्य योगदानम्[सम्पादयतु]

(२१+१०२= १२३-५१=७२ ) निजसरस्वतीकण्ठाभरणे सुविस्तरेणालङ्काराणां विवेचनं कृतम्भोजराजाचार्येण । शब्दालकारेषु जाति-गति-रीति-वृत्ति-भणिति-शय्या-पठिति-गूढप्रश्नोत्तर-ध्येय-श्रव्य-दृश्य-अभिनयान्तास्त्रयोदशानामभिनवालङ्काराणां निरूपणं कृतमनेन । अग्निपुराणवणतदुष्करालङ्कारस्य प्रत्याख्यानं कृत्वा चित्रालकारस्य प्रश्न-प्रहेलिकारूपप्रभेदयोरलङ्कारत्वम् स्वतन्त्ररूपेण स्वीकृत्य, प्रश्नालङ्कारस्य स्थाने प्रश्नोत्तराऽलङ्कारः अङ्गीकृतमनेन । अर्थालङ्कारेषुभयोलडकारेषु च भेद-वितर्क-प्रत्यक्ष-उपमान-आगम-अर्थापत्ति-अभाव-उल्लेखान्ताः टालङ्काराः नव्याः सन्ति । प्रश्नोत्तरस्य स्वतन्त्ररूपेणालङ्कारत्व स्वीकरणेa भोजराजस्यैकविंशतिर्नव्यालङ्कारा एव भवन्ति एवंप्रकारेण पूर्वोक्तेषु अधिकशतमलङ्कारान् विहाय मात्रद्वासप्ततेरलङ्काराणां प्रतिपादनं कृतमनेन भोजराजाचार्येण ।।

प्रत्यक्षालङ्कारः[सम्पादयतु]

इन्द्रियार्थसन्निकर्षजन्यत्वे सति ज्ञानत्वं यक्षत्वम् तस्य कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्येऽलङ्कारिता । तथा च चमत्कारजनकत्वे सति इन्द्रियार्थसन्निकर्षजन्यज्ञानत्वं प्रत्यक्षालङ्कारत्वम् । यथा -

क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।

स्वादुनिप्रणिदितालिनिशीथे निर्ववारमधुनीन्द्रियवर्गः ॥

अत्रेन्द्रियतृप्त्या तज्जन्य प्रत्यक्षालङ्कारत्वम् ।।

उपमानालङ्कारः[सम्पादयतु]

उपमानोपमेयसादृश्यज्ञानजन्यज्ञानत्वमुपमितित्वम् । तच्चोपमिनोपमीतिमानसप्रत्यक्षसाक्षिकजातिविशेषः । तदाश्रयकरणमुपमानम् । तस्य कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्येऽलङ्कारिता । तथा च चमत्कारजनकत्वे सति अनुमितिकरणत्वं अनुमानालङ्कारत्वम् । यथा--

‘यथारन्ध्र व्योम्नश्चलजलद धूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा -

विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभः

तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥'

रूपसङ्कीर्णमिदम् । शुद्धानुमानं यथा -

‘निलीयमानैविगैविनिमतवद्भिश्च पङ्कजैः

विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥'

अर्थापत्तिः–चमत्कारवर्णनत्वे सति कैमुतकन्यायेनार्थसिद्धेवर्णनत्वमर्थापत्यलङ्कारत्वम् । यथा -

‘स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम्' येन चन्द्रेण पदमानि जितानि सोऽपि त्वन्मुखेन जितः तेन मुखेन पदमानि जितानि इति किमु वक्तव्यमर्थात् तानि जितान्येवेत्यर्थापत्त्यावगम्यते ।

उल्लेखः[सम्पादयतु]

'बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते ।

तथा च -

चमत्कारजनकत्वे सति एकत्ववद् वस्तुविशिष्टज्ञानत्वमुल्लेखत्वम् । प्रथमसम्बन्धस्योदाहरणं यथा -

'स्त्रीभिः कामोथिभिः स्वः कालः शत्रुभिरैक्षि सः' । द्वितीयसम्बन्धस्योदाहरणं यथा--

'गुरुर्वचस्यर्जुनोऽयं कीत्त भीष्मः शरासने' ।

अत्र ग्रहीतृभेदाभावेऽपि विषयभेदादेकस्य बहुधोल्लेख इति । अतः परं । नाटयालङ्काराः सन्ति ।

मम्मटभट्टस्य योगदानम[सम्पादयतु]

( सप्तनव्यालङ्काराः सर्वे १२३ अलङ्काराः )

( ६+ १२३= १३०-५६=७४ ) काव्यप्रकाशे मम्मटभट्टेन षड्शब्दालङ्काराणां, षष्टिः अर्थालङ्काराणाञ्च तथा गुणीभूतव्यङ्गयस्य प्रसङ्गे सप्तरसवदाञ्चलङ्काराणां प्रतिपादनं कृतम् । एतेष्वलङ्कारेषु रसवद्वर्गस्यालङ्कारेषु भावोदयः, भावसन्धिस्तथा भावशवलता स्त्रयोऽलङ्कारा एवमतद्गुण-विनोक्ति-सामान्यास्तथा स्वतन्त्ररूपेण मालादीपकाख्यश्चत्वारोऽभिनवालङ्काराः सन्ति । उदात्तालङ्कारस्तु दण्डिनः उदारालङ्कारस्यैव प्रकारान्तरमस्ति । अनेन प्रकारेण पूर्वोक्तेषु त्रयोविंशत्यधिकशतमलक्कारेषु मम्मटेन सप्ताभिनवालङ्कारान् संयोज्य पूर्वप्रतिपादितान् षट्पञ्चाशदलङ्कारान् विहाय केवलं चतुःसप्तत्यलक्काराणां निरूपणं कृतम् ।

भावोदयः[सम्पादयतु]

भावस्योगमावस्था भावोदयः । स यद्यपराङ्ग तदा भावोदयालङ्कारः । तथा च चमत्कारजनकत्वे सति अपराङ्गत्वे सति उद्गमावस्थापन्नभावत्वं भावोदयालङ्कारत्वम् । यथा -

तदद्य विश्रम्य दयालुंरेधि मे दिनं निनीषामि भवद् विलोकिनी।

अदश पादेन विलिख्य पत्रिणा तथैव रूपेण समः स मत्प्रियः ॥

अत्र नलं प्रति दमयन्त्याः दिनं निनीषामीत्यनेनोत्सुकतारूपभावोदयः शृङ्गाररसस्याङ्गम् ।।

भावसन्ध्यलङ्कारः[सम्पादयतु]

द्वयोविरुद्धयोर्भावयोः परस्परस्पर्धा भावसन्धिः । तथा च चमत्कारजनकत्वे सति अपराङ्गत्वे सति परस्परस्पर्धापन्नभावत्वं भावसन्ध्यलङ्कारत्वम् । यथा -

एकाभूत् कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली।

जेतुर्मङ्गलपालिकेव पुलकै रम्या कपोलस्थली ॥

लोलाक्षीं क्षणमात्रभावविरहक्लेशासहां पश्यतो ।

द्रागाकर्णयतश्च वीर भवतः प्रौढ़ावाडम्बरम् ॥

अत्र विरहक्लेशासहां पश्यत इत्यनेन स्वस्त्रीविषयकं प्रेम प्रौढाहवाडम्बरमाकर्णयत इत्यनेनौत्सुक्यं चेत्युभयोः प्रभुविषयकभावस्य अङ्गम् ।

भावशबलता[सम्पादयतु]

बहूनां भावानां पूर्वपूर्वोपमर्दानोत्पत्तिर्भावशबलता । तथा च चमत्कारजनकत्वे सति अपरङ्गत्वे सति भावानां पूर्वपूर्वोपत्पत्तिमत्त्वं भावशबलतालङ्कारत्वम् । यथा -

क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा

दोषाणां प्रशमाय नः श्रतमहो कोपेऽपि कान्तं मुखम् ।

कि वक्षन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा

चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ।।

अत्र क्रमेण वितक्यौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता विप्रलम्भशृङ्गारस्याङ्गम् ।

अतद्गुणः[सम्पादयतु]

स्वसम्बद्धो योऽन्यपदार्थः । तद्गुणानङ्गीकरणमतः गुणालङ्कारः । तथा च - चमत्कारजनकत्वे सति स्वसम्बन्धीन्यपदार्थगुणानङ्गीकरणवर्णनत्वमतद्गुणालङ्कारत्वम् । यथा -

‘चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि ।

अत्र बहुकालानुरागवति मम चित्ते बहुकाले निहितोऽपि त्वं नानुरागयुक्तो भवसि ।।

विनोक्तिः[सम्पादयतु]

हृद्यत्वे सति विनार्थसम्बन्धित्वं विनोक्तित्वम् । विशेषलक्षणन्तु–चमत्कारजनकत्वे सति किञ्चिद्विना वय॑स्य दुष्टत्वं विनोक्ति| त्वम् यथा -

‘विद्या हृद्यापि सावद्या विना विनयराम्पदश् ।'

प्रस्तुतं किञ्चिद्विनारम्यं रम्यं चेत् साऽपि विनोक्तिः, यथा -

"विनाखविभात्येषा राजेन्द्र ! भवतः सभा ।'

तथा च - किञ्चिद्व्यतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्वान्यतरवर्णनत्वम् विनोक्तित्वमिति प्रकारद्वयसाधारणं लक्षणमिति केचित् ।।

सामान्यम्[सम्पादयतु]

स्वसादृश्याद् यदि व्यावर्तकधर्मो ने लक्ष्यते तदा सामान्यालङ्कारः । यथा -

'पद्माकरप्रविष्टानां मुखं नालक्षि सुध्रुवाम् ।'

अत्र कमलसमुदायगतकामिन्याः कमलसदृशमुखाज्ञानस्य वर्णनम् । तथा च । चमत्कारजनकत्वे सति स्वसादृश्यप्रयोज्यव्यावर्तकधर्मज्ञानाभाववद्वर्णनत्वं सामान्यत्वम् । मीलितालङ्कारे एकेनापरस्य भिन्नस्वरूपानवभासरूपमीलनं क्रियते । सामान्यालङ्कारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो न लक्ष्यते इति भेदः ।

मालदीपकालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति तत्क्रियादिविशिष्टवर्णनत्वं मालादीपकत्वम् । यथा--.

‘स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः । अत्र स्थितिक्रियासम्बन्ध्यवर्ण्यस्मरविषयकत्वं तत्क्रियासम्बन्धिवयं हृदयविषयकत्वं च वर्णने वर्त्तते ।

रुय्यकस्य योगदानम्[सम्पादयतु]

( चत्वारोऽभिनवालङ्काराः )

(४+१३०=१३४-५२= ८२ ) अस्मिन् ग्रन्थे रुय्यकप्रतिपादितेषु श्यशीत्यलङ्कारेषु परिणाम-विचित्रविकल्प-निमीलिताख्याश्चत्वारोऽभिनवालङ्काराः एवास्य स्वनिर्मिताः सन्ति । अस्यालङ्कारिकस्य समयेऽलङ्काराणां संख्या चत्वारिंशदधिकशतमासीत् । किञ्चानेन तेषु द्वापञ्चाशदलङ्कारान्विहाय मात्र द्वयशीत्यलङ्काराणां प्रतिपादनं कृतम् ।

परिणामालङ्कारः[सम्पादयतु]

‘परिणामः क्रियार्थश्चेद् विषयी विषयात्मना ।' तथा च–'परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ।'

तथा यत्रारोपविषयः प्रकृतिकार्यसिद्धयर्थमारोप्यमाणात्मतया परिणमति तत्र यथार्थाभिधानः परिणामालङ्कारः । तथा च-चमत्कारजनकत्वे सति विषयतावच्छेदकविशिष्टविषयित्वं परिणामत्वम् । यथा -

‘प्रसन्नेन दुगब्जेन वीक्षते मदिरेक्षणा ।'

अत्र मदिरेक्षणाकतृ कवीक्षणमब्जकरणकं न सम्भवति । अतोऽब्जं नेत्ररूपेण । परिणमति । कमलस्य नेत्ररूपेण परिणामात् ।

विचित्रालङ्कारः[सम्पादयतु]

फलेच्छया 'विपरीतः प्रयत्नश्चेत् विचित्रालङ्कारः । तथा च चमत्कारजनकत्वे सति फलविशिष्टप्रयत्नत्वं विचित्रालङ्कारत्वम् । यथा -

‘नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ।'

अत्रोन्नतिफलेच्छया नमनविषयकप्रयत्नो विपरीतः ।

विकल्पः[सम्पादयतु]

'विरोधे तुल्यबलयोविकल्पालङ्कृतिर्मता' ।

रमणीयविरुद्धयोर्पाक्षिकीप्राप्तिविकल्पः । एकस्मिन् र्धामणि स्व-स्वप्रापकप्रमाणप्राप्तयोरतस्तुल्यबलयोविरुद्धत्वादेव युगपत् प्राप्तेरसम्भवात् पाक्षिक्येव प्राप्तिः पर्यवसन्ना। तथा च-चमत्कारजनकत्वे सति पदार्थविशिष्टैकधर्मकप्राप्तित्वं विकल्पत्वम् । यथा -

‘सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः ।

अत्र सन्धिप्रमाणप्राप्तस्य महीभुजकत्र्तृ कशिरोनमस्य विरुद्धं यत् विग्रहप्रमाणप्राप्तं चापनमनं समबलं भवतीति लक्षणसमन्वयः ।

मीलितम्[सम्पादयतु]

‘वस्तुना वस्त्वन्तरनिगूहनं मीलितम् ।'

सहजैनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् । न चायं सामान्यालङ्कारः तस्य हि साधारणगुणयोगाद्भदालक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महानयोवशेषः । तथा च-चमत्कारजनकत्वे सति स्वदृश्यदोषहेतुकाभेदसंसर्गकपरप्रकारकज्ञानविशेषताश्रयस्वगुणवर्णनत्वं मीलितत्वम् । यथा -

'रसो नालक्षि लाक्षाया चरणे सहजारुणे ।'

अत्र चरणयोः सहजारुण्येन स्वसदृशाल्लाक्षारसस्य ज्ञानं न जायते ।

प्रथमवाग्भटस्य योगदानम्[सम्पादयतु]

(नवीनालङ्कारस्य कल्पनाभावः, पूर्वप्रतिपादितेष्वलङ्कारेषु ऊनचत्वारिशदलङ्काराणामेव विवेचनं कृतमनेन ।)

प्रथमवाग्भटाचार्येण निजवाग्भटालङ्कारे मात्रोनचत्वारिंशदलङ्काराणामेव प्रतिपादनं कृतम् । अस्य प्रश्नोत्तरालङ्कारोऽपि नास्ति नवीनः । यतो हि भोजराजेन सरस्वतीकण्ठाभरणेऽस्य प्रतिपादनं कृतम् । अनेनैव प्रकारेण हेमचन्द्रस्य , काव्यानुशासने विवेचितेषु सप्तत्रिंशदलङ्कारेषु परावृत्यलङ्कारः नाममात्रादेवाभिनवोऽस्ति । काव्यप्रकाशस्य पर्यायस्य परावृत्यलङ्कारस्य च स्थाने काव्यानुशासने एकः परावृत्यलङ्कारः स्वीकृतोऽस्ति । अतः इयमपि हेमचन्द्रस्याभिनवी कल्पना नास्त्येव ।

शोभाकरमित्रस्य योगदानम्[सम्पादयतु]

( ३९+१३४=१७३-६४=१०९) ( ऊनचत्वारिंशदभिनवालङ्काराणां प्रतिपादनं : कृतमनेन तथा पूर्वप्रतिपादितानां सप्तत्यलङ्काराणां वर्णनं कृतम्, सर्वे वणतालङ्काराः नवाधिकशतमस्ति ।)

शोभाकरमित्रेण स्वकीयालङ्काररत्नाकरे षट्शब्दालङ्काराणां तथा त्रयोऽधिकशतमर्थालङ्काराणां प्रतिपादनं कृतम् । अर्थालङ्कारेषु असम-प्रतिमाविनोद-व्यासङ्ग-वैधयं-अभेद-प्रतिभा-क्रियातिपत्ति-निश्चय-विध्याभास-सन्देहाभास-विकल्पाभास-विपर्यय-अचिन्त्य-अशक्य-व्यत्यास-समता-उद्रेक-तुल्य-अनादरआदर-अनुकृति-प्रत्यूह-प्रत्यादेश-व्याप्ति-आपत्ति-विधि-नियम-प्रतिप्रसव-तन्त्र-प्रसङ्गवर्धमानक-अवरोह-अतिशय-शृङ्खला-विवेक-परभाग-उद्भेद-गूढान्ताः ऊनचत्वारिंशदलङ्काराणां नवीनोद्भावना कृताऽनेन । अयं हि कारणमालातः भिन्नः शृङ्खलानामकस्यालङ्कारस्य कल्पना कृतवान् । अनेन प्रकारेण पूर्वनिष्पादितेषु चतुस्त्रिशदधिकशतमलङ्कारेषु ऊनचत्वारिंशदभिनवालङ्कारान् संयोज्य शोभाकरमित्रेण त्रयःसप्तत्यधिकशतमलङ्काराणां संख्या वधता । किञ्च तेषु चतुःषष्ट्यलङ्कारान् विहाय नवाधिकशतमलङ्काराणामेव विवेचनं कृतम् ।।

वस्तुतस्तु राजानकरुय्यकस्य समकालीनोऽत्यन्तविरोधी च विद्वदग्रणीराचार्यंशोभाकरमित्रः स्वीयालङ्काररत्नाकरे रुय्यकप्रतिपादितानामनेकालङ्काराणां लक्षलक्षणभेदोपभेदांश्च नवनवोन्मेषशालिन्यामलङ्कारधियाऽलोच्याकरीधरोत्येव नूतनानप्यनेकालङ्कारानुद्भाव्य सौन्दर्यस्य सूक्ष्मावलोकिनीं स्वीयां बुद्धिमुपस्थापयति । रुय्यकोक्तपौनरुक्त्यवर्गीयेषु पञ्चस्वप्यलङ्कारनिकरेष्वर्थालङ्कारत्वेनाभिमतयोलटानुप्रासपुनरुक्तवदाभासयोरर्थालङ्कारतां निरस्य तयोः शब्दालङ्कारतावस्थापिताचार्यवरेण शोभाकरेण । अलङ्कारपक्षपातिनानेन, विदुषा रुय्यकापेक्षया पञ्चचत्वारिंशदधिकालङ्काराः प्रतिपादिताः । यद्यप्यनुपदमालोचकाः एते रुय्यकस्य तथाप्यत्र तेषां नवीनालङ्काराणां स्वरूपप्रदर्शन यथावसरं लक्ष्यसङ्केतपुरःसरं विवेचनं चाभीष्टं नः नत्वालोचनपद्धतिः पंक्तिश्च। क्रमेण पूर्वोक्तानामलङ्काराणां स्वरूपविवेचनम् । न चोदाहरणानि सर्वेषामलङ्काराणां प्रस्तूयते विस्तरभयात् ।।

असमः[सम्पादयतु]

उपमानस्य सर्वथैव निषेधे भवत्यसमालङ्कारः ।

तद्विपर्ययः समस्तद्विरहोऽसमः (अ० र० सूत्रं १० वृत्तिश्च ) ।

तद्यथा -

‘ढुण्डुण्णन्तं मरीहसि' इत्यादी मालतीसदृशस्यान्यास्याभावप्रतिपादनार्दस्त्यसमालङ्कारः अलङ्कारममुं पण्डितराजादयोऽपि स्वीकुर्वन्ति।[३५] नागेशभट्टाश्चास्य विरोधिनः।[३६]

प्रतिमालङ्कारः[सम्पादयतु]

प्रकृतस्य कार्यकारणादिधर्मेः प्रसिद्धान्तरसम्बन्धनिबन्धनत्वाद्यत्रार्थमौपम्यं प्रतीयते तत्रार्थान्तरस्य प्रतिमात्वाद्भवति प्रतिमालङ्कारः। तद्यथा—अन्यधर्मग्रोगादर्थमौपम्यं प्रतिमालङ्कारः ( अ० र० १३ ) न कोऽप्यन्यः संस्कृतकाव्यशास्त्रे अस्य चर्चा करोति । इतरालङ्कारेभ्योऽस्य वैशिष्ट्यं बहुप्रतिपादितमाचार्येणान्यत्र द्रष्टव्यम् ( सं० अ० उ० वि० प्र० ३६२ ) न चात्र प्रस्तूयते विस्तरभयात् ।

विनोदालङ्कारः[सम्पादयतु]

‘अन्यासङ्गात् कौतुकविनोदो विनोदः ।' [३७]

असन्निहितेऽनुभूतेऽननुभूते वाऽभिलक्ष्यमाणेऽर्थे प्रतिच्छन्दसदशादिवस्त्वन्तरानुभवात्मकादन्यासङ्गाद्यत्र स्यात्कौतुकातिवाहनं तत्र भवति विनोदालङ्कारः । नादरास्पदमेष विनोदः संस्कृतालोचनाशास्त्रे ।

व्यासङ्गः[सम्पादयतु]

अनुभवस्मृत्यादिप्रत्यूहो व्यासङ्गः ।।[३८]

प्रक्रम्यमाणस्य प्रक्रान्तस्य वानुभवस्य स्मृतेः क्रियान्तरस्य वा वस्त्वन्तरासङ्गात् प्रत्यूहे स्याद् व्यासंङ्गालङ्कारः । मम्मटाद्युदाहृतं भावशान्त्युदाहरणम्-'तस्याः सान्द्रविलेपनस्तनतटम् ।' इत्यादिकमनुभूयमानानुभवस्य व्यासङ्गत्वेनोदाहरत्ययं कविः ( द्र० का० प्र० पृ०१२४ ) ।

वैधयम्[सम्पादयतु]

प्रागभिहितार्थापेक्षया तत्प्रतिभटभूतानामर्थान्तराणां अत्र पश्चान्निर्देशो भवति तत्र वैधम्र्यालङ्कारचमत्कृतिराजते । यथा -

‘उद्दिष्टस्य प्रतिपक्षतयानुनिर्देशो वैधय॑म् ।'[३९]

अभेदालङ्कारः[सम्पादयतु]

निहतधर्महानावारोप्यमाणस्यातिसाम्यमभेदः ।[४०]

न चायं व्यतिरेकः साधर्म्यगन्धस्याभावापमानोपमेयभावस्याविवक्षणाच्च । विषयविषयिणोरत्यन्तसाम्यप्रतिपादनाय यस्मिन्वर्णने विषयिणि नियतरूपतयासतो धर्मस्याभावनिवेदनं स्यात्तत्र जायते अभेदाऽलङ्कृतिचारुता । यथा'वनेचराणां वनिता सखाना'मित्यादौ कुमारसम्भवश्लोके औषधितैलपूरप्रदीपयोरत्यन्तसाम्योत्सतोऽपि तैलपूरणत्वधर्माभावनिबन्धनाच्चास्त्यभेदालङ्कारः ।

प्रतिभा[सम्पादयतु]

‘सम्भाव्यमानस्य प्रतिभा ।'[४१] सम्भाव्यमानस्य वस्तुनः उल्लेखवत् कविप्रतिभयाऽनेकधा परिकल्पनो भवत्यलकृतिः प्रतिभा । 'गतं तिरश्चीनमनूरुसारथे ।' इत्यादिमाघपद्ये प्रतिभालङ्कार इति शोभाकरः, सम्भाव्यमानस्य नारदस्यानेकधा परिकल्पितत्वात् । मल्लिनाथस्त्वत्र सन्देहालङ्कार इति वदति ।

क्रियातिपत्तिः[सम्पादयतु]

यद्यर्थोक्तावसम्भाव्यमानस्य क्रियातिपत्तिः ।[४२] यद्यादिशब्दैरसम्भाव्यस्यार्थस्य परिकल्पनाया क्रियातिपत्तिर्जायते । यथा-

‘पुष्पं प्रवालोपहितं यदि स्यात्' इत्यादिकुमारसम्भवश्लोकोऽस्योदाहरणमिति शोभाकरः। मम्मटादीनां यद्यर्थातिशयोक्तावस्याः सुतरामन्तर्भावः सुकरः ।। मल्लिनाथोऽप्यत्रातिशयोक्तिमेव समर्थयति ।[४३]

निश्चयः[सम्पादयतु]

विहितस्याशङ्कितस्य वार्थस्य विशेषप्रतिपत्तये निषेधो निश्चयालङ्कारः इति रत्नाकरः । अनन्तरञ्च विश्वनाथादयोऽस्य विवेचनं कुर्वन्ति ।

‘अन्यन्निषिध्य प्रकृतस्थापनं निश्चयं पुनः ।[४४] यथा-

वेदनमिदं न सरोजनयनं नेन्दीवरे एते ।।

विध्याभासः[सम्पादयतु]

“अनिष्टविधानं विध्याभासः ।'[४५]

विज्ञातस्य विधानं विध्यलङ्कारः किञ्च यत्र विशेषप्रतीत्यर्थमनिष्टस्यार्थस्य विधानं भवंति, अनिष्टार्थस्य च विधानायोग्यत्वात् बाधितत्वादाभासो भवति तत्रालङ्कारो विध्याभासः आक्षेपाद्विलक्षणः ।।

सन्देहाभासः[सम्पादयतु]

'सन्दिह्यमानयोरेकत्र तात्पर्येच्छो सन्देहाभासः, - तत्रैव ५० सन्दिह्यमानयोरर्थयोरेकस्य स्वीकारे तात्पर्यनिबन्धंने स्याद्वैचित्र्यं सन्देहाभासस्य । ‘मात्सर्यमुत्सायं' इत्यादिपद्येऽस्य सौन्दर्यमिति रत्नाकरःकृती।

विकल्पाभासः[सम्पादयतु]

‘विकल्पितयोविकल्पाभासः ।' -तत्रैव, ५१॥

विकल्पितयोरर्थयोरेकस्य ग्रहणे तात्यर्यविवेचने विकल्पस्याभासमानत्वा• दाभासोऽलङ्कारो भवति । न कोऽप्यन्यः स्वीकरोत्येनमलङ्कारत्वमिति । (१३) विपर्ययः

‘र्धामधर्मभावस्य धर्माणां विनिमयोविपर्ययः । तत्रैव, ५७ । उपात्तस्य धर्मणः धर्मत्वेन धर्मस्य च धर्मत्वेनान्यधर्माणामन्यधर्मेण वा यत्र विनिमयस्तत्र विपर्ययालङ्कारो भवति । लौकिकवचनवन्न चात्र जायते काऽपि सौन्दर्यसृष्टिः । यदि चाभीष्टमेव परिवृत्तावन्तर्भावस्तु सुकर एव ।

अचिन्त्यः[सम्पादयतु]

‘अविलक्षणात् विलक्षणकार्योत्पत्तिश्चाचिन्त्यम् ।' -अ० ० ५८

विषमे विरोधे वास्यान्तर्भावः कत्तुं शक्यते न च तयोरतिरिक्तं किञ्चिदत्र वैचित्र्यम् ।

अशक्यः[सम्पादयतु]

‘प्रतिबन्धकादेविधानासामर्थ्यमशक्यम् ।' –अ० र० ६५ कार्योत्पत्तौ प्रतिबन्धककारणानामन्येषां वा निमित्तानां वर्तमानत्वात् तस्याशक्यता निबन्धनमशक्यम् । अप्पयदीक्षिताभिमतासम्भवस्याप्येवतुल्यकक्षतैवेति ।

व्यत्यासः[सम्पादयतु]

‘गुणदोषयोरन्यथात्वं व्यत्यासः ।' –अ० ० ६६ :

यत्र च दोषस्य गुणीभावः गुणस्य च दोषीभावः स्यात्तत्र व्यत्यासालङ्कारः तत्रैवास्य चारुताऽपि जायते । दीक्षितोक्तलेशालङ्कारोऽस्यैवापरमभिधानम् ।[४६]

समता[सम्पादयतु]

‘तदन्याभ्यां समाधानं समता ।' –अ० र० ६७

यत्र च गुणेन गुणः दोषेण दोषों का समाधीयते समपसार्यते तत्र दोषगुणयोरुत्कटत्वाभावात्समतालङ्कृतिर्भवति ।

उद्रेकः[सम्पादयतु]

‘सजातीयविजातीयाभ्यां तुच्छत्वमुद्रेकः ।' –अ० ० ६८ दोषगुणयोर्यत्र सजातीयविजातीयाभ्यां तुच्छत्वं प्रतिपाद्यते तत्रोद्रेकालङकारो भवति ।

तुल्यालङ्कारः[सम्पादयतु]

निवृत्तावन्योदयस्तुल्यम् । —तत्रैव, ६९ । दोषस्य निवृत्तौ दोषान्तरस्योदयात् गुणान्तरनिवृत्तौ गुणोदयात्तथा च निवृत्तावन्यगुणस्याप्रतीतित्वात् गुणाश्रयत्वे च गुणनिवृत्तित्वादाधिक्याभाववादनाद्वैचित्र्ये सजायते तुल्यमलङ्करणम् । गुणक्रियायौगपद्यसमुच्चये ये वाऽलङ्कारेऽस्य स्थितिः स्वीकरणीयास्ति ।

अनादरः[सम्पादयतु]

‘अप्राप्तार्थ तत्तुल्यानादरोऽनादरः ।'-तत्रैव, ७० ।

अप्राप्तवस्तुनः प्राप्त्यर्थं तत्तुल्यस्यानादरवर्णने भवत्यानादरालङ्कारः इयमेवास्य चारुता । वस्तुतस्त्वेषोऽतिशयोक्त्यादेविषयः ।

आदरः[सम्पादयतु]

'त्यक्तस्वीकार आदरः । तत्रैव - ७१ हीनं मत्वा परित्यक्तस्य कस्याप्यर्थस्याधिकगुणलालसया पुनः स्वीकारनिबन्धने आदरालङ्कारो भवति । 'श्रोणीबिम्बं त्यजति तनुताम्' इत्यादावस्योदाहरणे मम्मटादयः पर्यायं ब्रूवते ।

अनुकृतिः[सम्पादयतु]

‘हेत्वन्तरादन्यस्यापि तथात्वमनुकृतिः । तत्रैव, ७२, ११ अ० केनापि निमित्तेन कस्मिश्चिदपि वस्तुनि कस्यापि रूपस्योदये निमित्तान्तरादन्यस्यापि वस्तुनः तदूपत्वप्राप्तौ तदनुकारित्वाद्भवति चारुत्वमनुकृतेऽलङ्कारस्येति । पर्याये, भावादौ वास्यान्तर्भावः सम्भवः ।

प्रत्यूहः[सम्पादयतु]

‘प्राप्तस्य प्रतिबन्धः प्रत्यूहः । तत्रैव, ७३ । येन केनापि हेतुनोपस्थितस्य कार्यस्य हेत्वन्तरेण विघाते प्रत्यूहालङ्कारो भवति । व्याघातान्नातिरिक्तं चारुत्वमावहत्येषः ।।

प्रत्यादेशः[सम्पादयतु]

स्थितस्यान्यथापत्तिः प्रत्यादेशः । तत्रैव, ७४ । वर्तमानस्य कार्यस्य हेत्वन्तरेणान्यथापादनत्वे प्रत्यादेशो भवति । समुच्चयेनास्य गतार्थता भविष्यति ।।

व्याप्तिः[सम्पादयतु]

'सर्वथा सम्भवोऽसम्भवो वा व्याप्तिः । तत्रैव ७७ सकलपक्षावलम्बनेऽपि कस्याप्यर्थस्य सर्वथा सम्भवत्वं वा यन्न निबध्यते तत्र व्याप्तेः सौन्दर्यं समुल्लसति । विचारतस्तु अत्रार्थान्तरन्यासादतिरिक्तसौन्दर्याभावो दृश्यते ।

आपत्तिः[सम्पादयतु]

'अनिष्टापादनमापत्तिः । - तत्रैव, ८०

स्वल्पकार्यकारणेऽनिष्टापत्तावापत्तेः चमत्कृतिर्जायते । न चात्र चारुतावहः कश्चिद्विद्यते येनालङ्कारत्वेनास्य स्वीकरणौचित्यम् स्यात् । परिसंख्यावत् विधिनियमावधिकृत्य विधिनियमाभिधेयकौ द्वावलकारी मीमांसाशास्त्रपरी विवेचितावलङ्काररत्नाकरे ।।

विधिः[सम्पादयतु]

'असम्भाव्यहेतुफलप्रेषणं विधिः ।' –अ० ० ८२ तत्र च हेतुफलयोरसम्भाव्यतायामेकस्यापि कस्यापि फलप्रेषणे विधिः ।। (२८) नियमः-‘अन्यनिषेधार्थोऽपि विधिनियमः । -तत्रैव, ८३ तथा चान्यनिषेधार्थके विधौ व्यक्ते स्यान्नियमः । परिसंख्याविधिर्यद्यलङ्कारत्वेनाभीष्टो विदुषां तह विधिनियमौ अपि अलङ्कारपदवीमाप्तुमर्हाविति प्रशस्यः कविरत्नाकरकारः ।।

प्रतिप्रसवः[सम्पादयतु]

‘प्रत्यापत्तिप्रतिप्रसवः' । --तत्रैव, ८५ ।

निवृत्तस्यार्थस्य पुनः प्राप्तिः प्रत्यापत्तिः कथ्यते, प्रत्यापत्तिरेव प्रतिप्रसवालङ्कारः । जयदेवादेः पूर्वरूपमस्यैव नामान्तरकरणम् । 'विभिन्नवर्णागरुडाग्रजेन' इत्यादि प्रसिद्धकाव्यप्रकाशाद्युक्ततद्गुणोदाहरणे प्रतिप्रसवं मन्यमानानां शोभाकराणां विफल: प्रयासः तद्गुणत्वेनैवास्यापि गतार्थत्वात् ।।

तन्त्रम्[सम्पादयतु]

'नानाफलप्रयुक्तः प्रयत्नस्तन्त्रम् ।' -तत्रैव, ८६ । एकस्यैव प्रयासस्यानेकफलोत्पादकत्वे भवति तन्त्रम्, स्वतन्त्रमलङ्करणम् । 'असंगदिन्यार्थः प्रसङ्गः ।

-तत्रैव, ८७ । कस्यापि प्रयोजनस्य सिद्धये प्रयुक्तेन प्रयासेन प्रसङ्गवशात् प्रधानफलातिरिक्तान्यत्कार्योत्पत्तिनिबन्धने प्रसङ्गः ।

वर्धमानकः[सम्पादयतु]

‘रूपधर्माभ्यामाधिक्यं वर्धमानकम् ।' –तत्रैव ९३ । रूपधर्माभ्यामनेकेषामुत्तरोत्तराधिक्यनिबन्धने भवति वर्धमानकः ।

अवरोहः[सम्पादयतु]

‘विपर्ययेऽवरोहः । तत्रैव, ९४ । पूर्वोक्तस्यैव विपर्यये जायतेऽवरोहचारुता ।

अतिशयः[सम्पादयतु]

‘सम्भावनयाऽसम्भावनया वाऽतिशयोऽतिशयः । तत्रैव, ९५ सम्भावनयाऽसम्भावनया वोत्तरोत्तरमुत्कर्षे वयंमाने भवत्यतिशयालङ्कारः।। वस्तुतस्त्वेतेषां त्रयाणामपि सार एवान्तर्भावो वाच्यस्तदतिरिक्तसौन्दर्याभावात्।

शृङ्खला[सम्पादयतु]

‘उत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वं विपर्ययो वा शृङ्खला ।' -तत्रैव, ९६

उत्तरोत्तरस्याश्रयत्वादिना पूर्वपूर्वं प्रति पूर्वपूर्वस्योत्तरमुत्तरं प्रति वा पेक्षित्वे शृङ्खलाऽलङ्कारो भवति । अस्यैव त्रिभेदात्मके रूपे कारणमालैकावलीमालादीपकमिति त्रयाणामप्यलङ्काराणामन्तर्भाव इति महदाचार्यस्य बुद्धिकौशलं सौन्दर्यपरीक्षणसामर्थ्यञ्च । जगन्नाथादयस्त्वस्य विरोधिनः किन्तु समीचीनपक्षस्तु शोभाकरस्यैवेति ।

विवेकः[सम्पादयतु]

‘तस्यां कुतश्चिद्विवेको विवेकः । तत्रैव, ९९। गुणसाम्यात्-वस्तुनो भेदाप्रतीती कुतश्चित् कारणात्तस्यावगमनं वेद्विवेकालङ्कारः । जयदेवोक्तोन्मीलितस्याप्ययमेव विषयः । द्रष्ट०-च० .३५, कुव० १४८, अ० म० ११३, का० वि० २२२ अ० म० पृ० २६३ ।

परभागः[सम्पादयतु]

'अनुभूतस्यार्थान्तरोपलब्धौ परभागः । तत्रैव, १०० अर्थान्तरोपलब्धावनुभूतार्थाद्वस्तुनस्तस्य भेदप्रतीतिनिबन्धने परभागोऽलङ्कारः स्यात् । व्यतिरेकस्य गुणीभूतव्यङ्गयस्य वैष विषयो भवितुमर्हति ।

उद्भेदः[सम्पादयतु]

'निगूढस्य प्रतिभेद उभेदः । तत्रैव, १०१ निगूढस्यार्थस्य कथञ्चित् प्रकाशतामागतस्य स्यादुद्भेदचारुता । जयदेवादेः पिहितस्याप्यत्रैवावसर इति । | ( ३९ ) गूढम्-‘गूढमाकाङ्क्षोपनिबद्धं गूढम् । तत्रैब, १०२ अनभिहितगूढवस्तुनोऽनुपादाने मात्र गूढाक्षेपकं साकाङ्क्षवस्तुनिबन्ध सुतरां, रञ्जयति सहदयानां मनांसि तत्र गूडोऽलशरो भवति । न अलङ्कारशास्त्रस्येतिहासः दोषः कार्यादिना प्रकृतस्यार्थस्य झटित्यवभासमानत्वात् अप्पयदीक्षितोक्तगूढाक्षेपस्त्वस्यैव नामान्तरकरणपाण्डित्यम् इति संक्षेपेण प्रतिपादिताः शोभाकरोद्भाविताभिनवालङ्काराः । यथा चोदितं प्रोग्यत्र केवलं प्रतिपादयन्त्येते नूतनालङ्काराने वापितु यत्र तत्र परेषां मतमपि दूषयन्ति । रसाद्यलङ्कारेषु रसवत्-प्रेयस्-ऊर्जस्वि-अलङ्कारान् विहाय परेषां समाहितादीनां विरोधी शोभाकरस्तानवधीरयति ।

अमृतानन्दस्य योगदानम्[सम्पादयतु]

( एकोऽभिनवालङ्कारः )

(१+१७३=१७४ ) अमृतानन्दयोगी स्वालङ्कारसंग्रहे ‘ऐतिह्य' नामकस्यैकस्यैवाभिनवालङ्कारस्य निरूपणं कृतवान् । एतस्य कवेः समयेऽलङ्काराणां संख्या चतुःसप्तत्यधिक शतं बभूव । नरेन्द्रप्रभसूरिमहोदयस्यालङ्कारमहोदधिनामके ग्रन्थे ते एव सप्तशब्दालङ्कारास्तथा सप्तत्यर्थालङ्काराः प्रतिपादिताः सन्ति ।।

ऐतिह्यालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति अपराङ्गत्वे सति ऐतिह्यत्वं ऐतिह्यालङ्कारत्वम् । यथा -

'कल्याणी वत गाथेयं लौकिकी प्रतिभाति मे ।।

एति जीवन्तमानन्दो नरं वर्षशतादपि ।' ।

जीवन् नरः वर्षशतादपि चिरकालादपि आगच्छति तं पश्यामीत्यानन्दअनिदृष्ट वक्तृकपरम्परावाक्यत्वमैतिह्यम् ।

जयदेवस्य योगदानम्[सम्पादयतु]

( ग्रन्थेऽस्मिन् त्रिशन्नव्यालङ्काराः अष्टसप्तत्यलङ्काराः पूर्वप्रतिपादिताः, सर्वं सङ्कलय्य अष्टोत्तरशतमलङ्काराः निरूपिताः )। । एष चन्द्रालोको ग्रन्थश्चिरन्तनादेव कालादध्ययनाध्यापनादिषु लब्धप्रचुरप्रचारः प्रारम्भिक शिक्षाप्रतिष्ठित आसीदिति । काव्यप्रकाशादस्य बहुत्र मतभेदोऽपि दृश्यते । स्वरूपस्यातिरोधानेऽपि भेदस्य तिरोधानं मीलितम्, भेदस्य तिरोधानेऽपि द्वयोः साम्यकारणात् व्यावर्तकास्फुरणं सामान्यमिति चन्द्रालोकस्याशयः । काव्यप्रकाशस्य तु–स्वरूपस्य तिरोधाने सत्यपि भेदस्यातिरोधानं मीलितम्, स्वरूपप्रतीतावपि साम्यवशात् भेदतिरोधानमिति सामान्यम् । महाविदुषी सुप्रसिद्धेनाऽपि अप्पयदीक्षितेनास्य ग्रन्थस्यार्थालङ्कारप्रकरणमाश्रित्यैव कुवलयानन्दाख्यो नवीनो ग्रन्थो निरमायि ।।

चन्द्रालोके कतिपयानां नवीनालङ्काराणां समुद्भावनं कृतं जयदेवेन । शब्दालङ्कारेषु छेकानुप्रासः, वृत्त्यनुप्रासः, लाटानुप्रासादीनां चातिरिक्तौ स्फुटानुप्रासार्थानुप्रासौ द्वावलङ्काराभिनवौ स्तः । मम्मटस्य पुनरुक्तवदाभासरूप पुनरुक्तप्रतीकाशः नाममात्रेण नवीनालङ्कारोऽस्ति । यथा -

पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् ।

अंशुकान्तं शशी कुर्वन् अम्बरान्तमुपेत्यसौ ।। [४७]

अर्थालङ्कारेषु परिकराङ्कुर-प्रस्तुताङ्कुर-अल्प-विकस्वर-प्रौढोक्ति-सम्भावनमिथ्याध्यवसिति-ललित-प्रहर्षण-विषादन-उल्लास-अवज्ञा-अनुज्ञा-मुद्रा-रत्नावलीपूर्वरूप-अनुगुण-उन्मीलित-विशेष-गूढोक्ति-विवृतोक्ति-युक्ति-लोकोक्ति-छेकोक्तिअत्युक्ति-निरुक्ति-प्रतिषेधाश्चालङ्काराः नवीनाः सन्ति ।।

एतेष्वलङ्कारेष्वल्पालङ्कारः मम्मटस्याधिकालङ्कारस्य विरोध्यस्ति । मिथ्याध्यवसिताख्यमलङ्कारं प्रौढोक्त्येव गतार्थत्वं कृतं पण्डितराजजगन्नाथेन । तद्यथा--चन्द्रालोककारकृतः ‘शशशृङ्गधनुर्लसत्करा गगनाम्भोरुहमालिकाधराः।' इत्यादावेकस्य मिथ्यात्वसिद्वयर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसिताख्यमलङ्कारान्तरमिति न वाच्यम् । प्रौढोक्त्येव गतार्थत्वात् ।' एवञ्च वेश्या वशयेत् स्वस्रजं वहन्' इति कुवलयानन्दकृता मिथ्याध्यवसितेरुदाहरणं निमितम्, तत्तु निदर्शनयैव गतार्थम् ।' ( रस० पृ० ७५९ प्र ) । विश्वेश्वरस्त्वलङ्कारकौस्तुभे यद्यक्तिरूपातिशयोक्तिमेवाङ्गीकृतवान्-‘यद्यक्तिरूपातिशयोक्तेवशेषस्य दुर्वचत्वात् ( अ० कौ० पृ० २८४ ) भोजस्य सरस्वतीकण्ठाअरणे पद-वाक्य-विभक्ति-वचन-समुच्चय-संवृत्तिगतषड्भेदैः सह मुद्रालङ्कारः ब्दालङ्काररूपेणैव वणतमस्ति । किञ्च चन्द्रालोकेऽयमलङ्कारः अर्थालङ्कारस्य टावेवास्ति । रत्नावल्यलङ्कारस्तु भोजस्य गुम्फना नामकस्य शब्दालङ्कारस्य मकृतागुम्फना' रूपप्रभेदात्प्रादुर्भूतं मन्यतुं शक्यते । गूढोक्ति विवृतोक्तिञ्च अवनिवादिनः अलङ्कारत्वेनास्वीकृत्य तावलङ्कारी क्रमशः वस्तुध्वनिस्तथा गुणीअतव्यङ्ग्य एव मन्यन्ते । सैव मान्यता युक्तिसङ्गताऽऽपि प्रतीतो भवति । जयदेवस्य युक्त्यलङ्कारः भोजदेवस्य युक्तिनामकशब्दालङ्कारात् भिन्न एवास्ति । विश्वेश्वराद्याचार्याणां मतेऽयमलङ्कारः व्याजोक्तिरूप एवास्ति । लोकोक्तिस्तथा छेकोक्तिः द्वाविमावलङ्कारावर्थालङ्काररूपत्वेनाभिनवौ स्तः । यद्यप्यस्य बीजं भोजराजस्यं छायानामकशब्दालङ्कारस्य लोकोक्तिस्तथा छेकोक्तिरूपभेदद्वये उपलब्धमस्ति । ( सर० कण्ठा० शब्दालङ्कारप्रकरणे द्रष्टव्यम् ) प्रतिषेधालङ्कारस्योल्लेखः यशस्कस्यालङ्कारोदाहरणे मिलति । विध्यलङ्कारस्यापि प्रथमोद्भावनस्य श्रेयोऽस्य नास्ति । यतो ह्यस्य पूर्ववत्तनः जयदेवस्यालङ्काररत्नाकरेऽस्य वर्णनमस्ति । यद्यप्यलङ्काररत्नाकरस्य विध्यलङ्कारेण सह चन्द्रालोकस्य विध्यलङ्कारस्य सम्बन्धो नास्ति । अनेन प्रकारेण चन्द्रालोकस्य त्रिषु शब्दालङ्कारेषु तथा सप्तविंशत्यर्थालङ्कारेषु कतिपया एव नव्याः अलङ्काराः सन्ति कतिपयास्तु नाममात्रेणैवाभिनवालङ्काराः सन्ति । जयदेवस्तु पूर्वप्रतिपादितेषु चतुःसप्तत्यधिकशतमलङ्कारेषु त्रिशन्नव्यालङ्कारान् संयोज्य षण्णवतिः प्राचीनालङ्कारान् विहाय केवलमष्टोत्तरशतमलङ्काराणां निरूपणं कृतवान् ।

स्फुटानुप्रासः[सम्पादयतु]

श्लोकस्यार्धं तदर्थे वा वर्णावृतिर्यदि ध्रुवा ।

तदा मताः मतिमतां स्फुटानुप्रासतां सताम् ।। [४८]

अत्र यो वर्णः श्लोकपूर्वाद्धवसाने स एवोत्तरार्द्धवसाने इत्येको भेदः । चतुषु पदान्तेष्वेको वर्ण इत्यपरो भेद इति तु शरदागमकृत् । वस्तुतस्तु श्लोकाधे वर्णावृत्तिर्देधा–आदितोऽन्तपर्यंन्ताप्रथमाऽपादावसाने स एव वर्ण इति द्वितीया । श्लोकाद्धे पादे तु एकविधैव । उदाहरणं त्विदमेव पद्यम् ।

अर्थानुप्रासः[सम्पादयतु]

‘उपमेयोपमानादावर्थानुप्रास इष्यते ।।[४९]

उदाहरणं यथा--

‘चन्दनं खलु गोविन्दचरणद्वन्द्ववर्णनम् ।' अत्र चन्दनवन्दनपदयोपमेयोरुपमानयोर्नकारदकारवर्णावृत्तिर्वर्त्तते इत्यर्थानुप्रासः ।

पुनरुक्तप्रतीकाशः[सम्पादयतु]

‘पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् ।[५०]

उदाहरणं यथा तत्रैव-‘अंशुकान्तं शशीकुर्वन्नम्बरान्तमुपैत्यसौ ।'

अत्र अंशुकान्तमम्बरान्तम् इति द्वयोः पादयोर्वसनाकाशरूपार्थभेदेऽपि केवलवसनरूपैकार्थत्वेन पुनरुक्ततयाभानाल्लक्षणसङ्गतिः ।

परिकाङ्कुरालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति प्रकृतार्थोपपादकार्थव्यञ्जकविशेषत्वं परिकराङ्कुरत्वम् । यथा -

|'चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ।'

अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भमिति ।

प्रस्तुताङ्कुरः[सम्पादयतु]

प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुताङ्कुरालङ्कारत्वम् । तथा च चमत्कारजनकत्वे सति प्रस्तुतविशिष्टप्रस्तुतवर्णनत्वं प्रस्तुताङ्कुरत्वम् । यथा -

‘कि भृङ्ग, सत्यां मालत्या केतक्याकण्टकेच्छया ।' इति ।

प्रियतमेन वेश्यासक्तेन सहोद्याने विहरन्ती काचिद्भृङ्गं प्रत्याह । आशयस्तु सुन्दरीं गुणवतीं विहाय मां सामान्यस्त्रिया अगुणवत्या सह रमणं न युक्तमिति व्यङ्गयार्थव्यञ्जकोऽत्र वाक्यार्थः ।

अल्पालङ्कारः[सम्पादयतु]

स्वापेक्षया सूक्ष्मदाधेयाधारस्य सूक्ष्मत्वं यत्तदल्पं नामालङ्कारः । तथा च चमत्कारजनकत्वे सति सूक्ष्माध्यविशिष्टसूक्ष्मत्ववर्णनत्वमल्पालङ्कारत्वम् । यथा -

‘मणिमालोमिका तेऽद्य करे जपवटीयते ।

अत्र मणिपक्तिरूपमङ्गुलीयकमङ्गुलिमात्रपरिमितत्वात् सूक्ष्ममपि विरहिण्याः करे करवत् प्रवेशितं तस्याः करे तदङ्गुलीयकं जपमालावल्लम्बते इत्युक्त्या ततोऽपि करस्य विरहकार्यादतिसूक्ष्मता दर्शितेत्यलम् ।

विकस्वरालङ्कारः[सम्पादयतु]

यत्र कस्यचिद् विशेषस्य समर्थनार्थसामान्य विन्यस्य तत्प्रसिद्धावपि अपरितुष्यता कविना तत्समर्थनाय पुनः लोषान्तरमुपमानरीत्या अर्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्वरालङ्कारः । यथा-

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोऽपि जातम् ।

एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥

इदमुपमानरीत्या विशेषान्तरस्य कथने उदाहरणम् । अर्थान्तरन्यास इदमुपमानरी विधया । यथा -

मालिन्यमब्जश दोषावितः कवचकार्यातिशयहेतत्त्वब्जशशिनोर्मधुलिट्कलङ्कौ धत्ते मुखे तु तव दृक् तिलकाञ्जनाभम् ।

दोषावितः क्वचनमेलनतो गुणत्वं वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ।।

प्रौढोक्तिः[सम्पादयतु]

चमत्कारजनकत्वे सति कार्यातिशयहेतुभिन्नर्धामकतशयहेतुत्वकल्पनत्वं प्रौढोक्तित्वम् । यथा--

'कचाः कलिन्दजातीरतमालस्तोममेचकाः ।।

अत्र तमालगतनैल्यातिशयाहेतौ यमुना तटारोहणे तद्धेतुत्वम् ।

सम्भावना[सम्पादयतु]

अन्यस्य सिद्धये यदीत्थं स्यादिति तर्कः सम्भावना । चमत्कारजनकत्वे सति अन्यसिद्धिनिमित्तकत्वे सति यद्यस्त्वमित्याकारकतर्कत्वमिति सम्भावना यथा -

'यदि शेषो भवेद् वक्ता कथिताः स्युर्गुणास्तव ।'

मिथ्याधिवसतिः[सम्पादयतु]

कस्यचित्पदार्थस्य मिथ्यात्वसिद्धयर्थं मिथ्याभूतार्थकल्पनं मिथ्याधिवसतिः । तथा च चमत्कारजनकत्वे सति यथार्थज्ञानाविषयपदार्थसिद्धिहेतुकयथार्थज्ञानाविषयार्थान्तरकल्पनत्वं मिथ्याधिवसतित्वमिति । यथा--

'वेश्यां वश्येत् स्वःस्रजं वहन् ।'

अत्र मिथ्याभूतस्य वेश्यावशीकरणस्य सिद्धये आकाशकुसुममालाधारणरूपार्थान्तरकल्पनं मिथ्याधिवसतित्वम् ।

ललितालङ्कारः[सम्पादयतु]

प्रस्तुते धर्मणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव प्रतिबिम्बरूपस्य कस्यचित् अप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । तथा च चमत्कारजनकत्वे सति प्रस्तुतधमकवर्णनीयवृत्तान्तविशिष्टाप्रस्तुतवृत्तान्तवर्णनत्वं ललितालङ्कारत्वम् । यथा -

'निर्गते नीरे सेतुमेषा चिकीर्षति ।'

जले गते सति यथा सेतुबन्धनं निरर्थकम् तथैव नायिकान्तरासक्तस्य तवोपेक्षयाऽऽगत्य प्रतिनिवृत्तस्य नायकस्यानुनयार्थं सखीप्रेषणं व्यर्थमिति बोध्यम् ।

प्रहर्षणम्[सम्पादयतु]

यत्नं विनोत्कण्ठितार्थसंसिद्धिः प्रहर्षणम् । तथा च चमत्कारजनकत्वे सति यत्नविशिष्टार्थसिद्धिकथनत्वं प्रहर्षणत्वम् । यथा -

'तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ।

यो हि यस्याः दूतिकाया ध्यानं करोति तं प्रति सैव दूतिका प्रेषिता ।

विषादनालङ्कारः[सम्पादयतु]

चमत्कारजनकत्वे सति इष्यमाणविरुद्धार्थसम्प्राप्तित्वं विषादनत्वम् । यथा -

‘दीपमुद्योजयेद् यावन्निवणस्तावदेव सः ।।

अत्र दीपोद्दीप्तिविषयकेच्छाकर्ता दीपस्य निर्वाणं प्राप्तवान् ।

उल्लासः[सम्पादयतु]

कस्यचित् गुणदोषाभ्यां अन्यस्य यदि गुणदोषी भवतस्तदोल्लासालङ्कारः । तथा च चमत्कारजनकत्वे सति अन्यदीयगुणदोषप्रयोज्यान्यसम्बन्धिगुणदोषाधानवर्णनत्वमुल्लासत्वम् । यथा--

अपि मां पावयेत् साध्वी स्नात्वेतीच्छति जाह्नवी ।

पतिव्रता स्नात्वा मां पावयेदितीच्छति जाह्नवी । अत्र पतिव्रतायाः गुणेन ' गङ्गायाः गुणः ।,

अवज्ञा[सम्पादयतु]

अन्यस्य गुणदोषाभ्यामन्यस्य गुणदोषयोरभावोऽवज्ञालङ्कारः । तथा च चमत्कारजनकत्वे सति अन्यसम्बन्धिगुणदोषप्रयुक्तान्यसम्बन्धिगुणदोषाधानाभाववर्णनत्वमवज्ञात्वम् । यथा---

‘स्वल्पमेवाम्बु लभ्यते प्रस्थं प्राप्स्यामि सागरम् ।'

अत्र महाजलवन्तं सागरं प्राप्य प्रस्थपरिमाणमात्रं स्वल्पमेव जलं लभते ।

अनुज्ञा[सम्पादयतु]

दोषेषु गुणदर्शनात् दोषेषु इच्छा अनुज्ञा । अथवाउत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः प्रार्थनमनुज्ञा । तथा च चमत्कारजनकत्वे सति उत्कटगुणविशेषलालसीकरणकत्वे सति दोषत्वेन प्रसिद्धस्य वस्तुनः प्रार्थनात्वमनुज्ञेति । यथा--

'विपदः सन्तु नः शश्वद् यासु सङ्कीर्यते हरिः ।।

अत्र हरिसङ्कीर्तनरूपगुणदर्शनेन विपत्तिरूपदोषेषु इच्छायाः वर्णनमस्ति ।

मुद्रा[सम्पादयतु]

प्रकृतार्थपरैः शब्दैः सूचनीयार्थस्य सूचनं मुद्रालङ्कारः । तथा च चमत्कारजनकत्वे सति प्रकृतार्थबोधकपदकरणकसूच्यर्थसूचनत्वं मुद्रात्वमिति सामान्यलक्षणम् । यथा -

'नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ।'

अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुप् छन्दसः युग्मविपुला नामत्वरूपसूच्यर्थ सूचनेन मुद्राबोधः ।।

रत्नावली[सम्पादयतु]

प्रकृतार्थानां प्रसिद्धक्रमानुसारि प्रतिपादनं रत्नावल्यलङ्कारः । तथा च चमत्कारजनकत्वे सति प्रथमविशेषणनिष्प्रकारतासमानाधिकरणीभूताग्रिमप्रकारतानिरूपितविशेष्यताश्रयवर्णनत्वं एकावलीत्वमिति सामान्यलक्षणम् । यथा

'चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ।

अत्र चतुरास्यादिपदे वर्णनीयस्य राज्ञः ब्रह्मविष्णुरुद्रात्मा प्रतीयते इति प्रसिद्धपाठानां क्रमेण निवेशनमस्ति ।

पूर्वरूपालङ्कारः[सम्पादयतु]

स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपालङ्कारः । तथा च चमत्कारजनकत्वे सति तद्गुणोपादाननाशेऽपि तदगुणानुवृत्तित्वं पूर्वरूपालङ्कारत्वम् । यथा- .

‘हरकण्ठांशुलिप्तशेषस्त्वद् यशसा सितः ।'

शेषः सर्पः शिवस्य नीलकण्ठात् स्वच्छं स्वगुणं त्यक्त्वा तव यशसा पुनः स्वच्छोऽभूत् ।।

अनुगुणः[सम्पादयतु]

परसन्निधिवशात् पूर्वसिद्धस्य स्वगुणस्योत्कर्षः अनुगुणो नामालङ्कारः । तथा च चमत्कारजनकत्वे सति परसन्निधिहेतुकपूर्वसिद्धस्वगुणोत्कर्षवर्णनत्वमनुगुणत्वम् । यथा -

'नीलोत्पलानि दधते कटाक्षरतिनीलताम् ।।

अत्र नीलकमले पूर्वसिद्धस्वनीलगुणस्य कटाक्षेरतिनीलतावर्णनम् ।

उन्मीलितम्[सम्पादयतु]

स्वगुणसादृश्यात् भेदानध्यवसाये सति कुतोऽपि हेतोभेदस्फूत उन्मीलितम् । तथा च चमत्कारजनकत्वे सति सादृश्यप्रयुक्तस्वभेदज्ञानाविषयधर्मिक यत् किञ्चित् हेतुकज्ञानविषयभेदवर्णनत्वं उन्मीलितत्वम् । यथा -

‘हिमाद्रि त्वद् यशोमग्नं सुराः शीतेन जानते ।

त्वद् यशसा मीलितं हिमालयपर्वतं शीतेन देवाः जानन्ति । हिमालयस्य यशसश्च स्वच्छतया सादृश्यादभेदग्रहेऽपि तयोर्भेदज्ञानं शीतहेतुकं देवसमवेतमत्र वर्णितम्।

विशेषः[सम्पादयतु]

स्वसादृश्यात् व्यावर्तकविशेषधर्मास्फूत्तौं सत्यां कुतश्चितकारणं व्यावर्त्तकस्फूर्ती विशेषालङ्कारः । यथा -

'लक्षितान्मुदिते चन्द्रे पानि च मुखानि च ।

इह पद्मसदृशात् मुखात् पद्मे व्यावर्तकधर्मज्ञानं जातम् । चन्द्रोदय सति । पद्मस्य सङ्कोचात् विशेषज्ञानं जातम् । तथा च-चमत्कारजनकत्वे सति सादृश्यप्रयोज्यस्ववृत्तिव्यावर्त्तकधर्मज्ञानाविषयमकयत्किञ्चिद्धेतुकव्यावर्तकं धर्मप्रकारकज्ञानविषयवर्णनत्वं विशेषालङ्कारत्वम् ।

विवृतोक्तिः[सम्पादयतु]

श्लिष्टं गुप्तं वस्तु यथा कथञ्चित् कविना आविष्कृतं चेत् विवृतोक्तिः । तथा च चमत्कारजनकत्वे सति कविकतृ कश्लिष्टपदार्थस्य कथञ्चित् प्रकाशवर्णनत्वं विवृतोक्तित्वम् । यथा -

'वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ।'

अत्र गुप्तं वस्तुं ससूचनं कवन आविष्कृतम् ।।

गुढोक्तिः[सम्पादयतु]

यदन्योद्देश्यकं वाक्यं तदन्यं प्रति कथ्यते चेत् गूढोक्तिः । यथा -

'वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ।।

अत्र परकलत्रभुञ्जानं कामुकं प्रति वक्तव्यम् । परक्षेत्रे शस्यानि भक्षयन्तं कञ्चित् वृषभं समीपे चरन्तं निर्दिश्य कथ्यते ।

युक्तिः[सम्पादयतु]

स्वस्य मर्मगोपनीय क्रियया यत् परस्य वञ्चनं सा युक्तिः । तथा च - चमत्कारजनकत्वे सति स्वमर्मगोपननिमित्तकक्रियाहेतुकपरवञ्चनत्वं युक्त्यलङ्कारत्वम् । यथा

‘त्वामालिखन्ती दृष्ट्वाऽन्यं धनुः पौष्पं करेऽलिखत् ।' इति नायकं प्रति सख्युक्तिः ।।

लोकोक्तिः[सम्पादयतु]

लोकप्रवादानुकरणं लोकोक्तिः । तथा च - चमत्कारजनकत्वे सतिलोकप्रवादानुकरणवर्णनत्वं लोकोक्तित्वम् । यथा -

'सहस्व कतिचिन्मासानु मीलयित्वा विलोचने ।'

अत्र लोचने मीलयित्वेति लोकप्रवादानुकरणम् ।

छेकोक्तिः[सम्पादयतु]

लोकोक्तेरर्थान्तरव्यञ्जकता चेत् छेकोक्तिः । तथा च चमत्कारजनकत्वे सति लोकोक्तिनिष्ठार्थान्तरव्यञ्जकत्ववर्णननं छेकोक्तिअलङ्कारत्वम् । यथा -

‘भुञ्जङ्ग एव जानीते भुजङ्गचरणं सखे ।'

अत्युक्तिः

मिथ्याभूतस्य शौर्यादेर्वर्णनमत्युक्तिः । यथा -

‘त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ।'

अत्र कल्पवृक्षाणां मया याचकत्वेऽपि याचकत्वेन वर्णनं मिथ्याभूतम् । तथा च चमत्कारजनकत्वे सति स्वावृत्तिधर्मप्रकारकज्ञानविशेषवर्णनत्वं अत्युक्तित्वमिति ।

निरुक्तिः[सम्पादयतु]

योगवशात् नाम्नामर्थविशेषाभिधायिनामर्थान्तरोपवर्णनं निरुक्त्यलङ्कारः । तथा च चमत्कारजनकत्वे सति योगकरणकसंज्ञार्थभिन्नार्थवर्णनत्वं निरुक्त्यलङ्कारत्वम् । यथा--

"ईदृश्यैश्चरितैर्जाने सत्यं दोषाकरो भवान् ।'

अत्र जनसन्तापनरूपैश्चरित्रैर्भवान् चन्द्रः दोषाणामाकरः इति जाने ।

प्रतिषेधः[सम्पादयतु]

विज्ञातस्य प्रतिषेधस्य कथनं प्रतिषेधालङ्कारः । तथा च चमत्कारजनकत्वे सति विशेषबोधनिमित्तकनिषेधस्य निषेधत्वेन कथनत्वं प्रतिषेधत्वम् । यथा-

'न चूतमेतत् कितवक्रीडनं निशितैः शरैः'

हे पाशक्रीडक, तीक्ष्णशरैः क्रीडनमेतत् चूत नेत्यर्थः । तीक्ष्णशरकरणकक्रीडनं पाशक्रीडनं नेति निषेधविज्ञातेऽपि तस्य निषेधस्य पुनः कथनं छूते तव प्रागल्भ्यं न तु तीक्ष्णशरकरणकयुद्धे इति बोधयति ।

जयरथस्य योगदानम्[सम्पादयतु]

आचार्यजयरथेन रुय्यकस्यालङ्कारसर्वस्वनामकग्रन्थस्य विमशिनीनामकटीकायामुदाहरणनामकस्यैकस्य नवीनालङ्कारस्योद्भावनं कृतम् ।।

उदाहरणम्[सम्पादयतु]

सामान्येन निरूपितार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयवविभावउच्यमानउदाहरणम् । यथा

‘अमितगुणोऽपि पदार्थों दोषेणैकेन निन्दितो भवति ।

निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥'

विद्याधरस्य योगदानम्[सम्पादयतु]

नैकोऽपि नवीनालङ्कारस्योद्भावनं कृतमनेनाचार्येण ।

विद्यानाथस्य योगदानम्[सम्पादयतु]

विद्यानाथोऽपि प्रतापरुद्रयशोभूषणे नैकोऽपि नवीनालङ्कारस्योद्भावनं कृतवान् । एकावल्याः प्रश्नोत्तरिकालङ्कारः वाग्भटालङ्कारस्य प्रश्नोत्तरालङ्काररूपेऽन्तर्भवितुं शक्यते । अस्य स्वरूपः सरस्वतीकण्ठाभरणे एवोपलब्धो भवति ।[५१] अतोऽस्यालछारस्योद्भावनश्रेयः विद्याधरस्य नास्त्येव । अनेनैव प्रकारेण प्रतापरुद्रयशोभूषणे नवीनालङ्कारस्य प्रतिपादनः नाभूत् ।।

द्वितीयवाग्भटस्य योगदानम्[सम्पादयतु]

( द्वावभिनवालङ्कारौ सर्वं सङ्कलय्योनसप्तत्यलङ्काराः वर्णिताः )

(२+२०४=२०६-१३७=६९ ) काव्यानुशासने द्वितीयवाग्भटाचार्येण श्रयःषष्टयलक्काराणां निरूपणकृतम् । तेष्वलङ्कारेषु 'अन्यः, अपरश्च' द्वावर्थालङ्कारौ नवीनौ स्तः । अनेकेषां .. पदार्थानामेकत्रसमावेशकरणेनान्यालङ्कारो भवति । यथा -

'अनेकेषामेकत्र निबन्धस्त्वन्यः ।[५२]

अनेन प्रकारेण गुणक्रियया युगपदभिधानमपरालङ्कारोऽस्ति । यथा| ‘गुणक्रियायां युग पदभिधानमपरः । तत्रैव, पृ० ४१ सामान्यस्य सामान्येन समर्थनरूपमेवोभयान्यासालङ्कारो भवति । यो ह्यर्थान्तरन्यासस्यैवैकः प्रभेदोऽस्ति । यथा-- ‘सामान्यं सामान्येन यत् समय॑ते स उभयन्यासः । तत्रैव, पृ० ४४ अतोऽयमयलङ्कारः नास्त्यभिनवः । अनेन प्रकारेण वाग्भटाचार्येण द्वयधिकशतद्वयेष्वलङ्कारेषु द्वावभिनवालङ्कारी सङ्कलितौ । किञ्च स्वग्रन्थे सप्तत्रिंशदधिकशतमलङ्काराणां प्रतिपादनमकृत्वैव केवलमूनाशीत्यलङ्काराणामेव प्रतिपादनं कृतम् ।

विश्वनाथस्य योगदानम्[सम्पादयतु]

(द्वौ नवीनावलङ्कारौ सर्व सङ्कलय्य सप्तसप्तत्यलङ्काराणां

प्रतिपादनम् ।) | साहित्यदर्पणे विश्वनाथेन भाषासमनामकस्यैकस्य शब्दालङ्कारस्य कल्पना कृता । अनेनैवार्थालङ्कारेऽपि ‘अनुकूल' नामकस्य एकस्यालङ्कारस्य कल्पना कृताऽस्ति । अनेन सप्तसप्तत्यलङ्काराणां भेदप्रभेदैः सह प्रतिपादनं कृतम् ।

भाषासमः[सम्पादयतु]

‘शब्दैरेकविधैरेव भाषासु विविधास्वपि ।

वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ।।

उदाहरणं यथा -

मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।

विरसासि कॅलिकीरे किमालि ! धीरे च गन्धसारिसमीरे ॥

अत्र एकविधैरेवशब्दैः संस्कृतप्राकृतादिविविधभाषासु वाक्योपपत्तेः भाषासमः ।

अनुकूलः[सम्पादयतु]

‘अनुकूलं प्रतिकूल्यमनुकुलानुबन्धि चेत् ।' यथा-

'कुपितासि यथा तन्वि, निधाय करजक्षतम् ।

बधान भुजपाशाभ्यां कण्ठमस्य दृढं तथा ।'

केशवमिस्य योगदानम्[सम्पादयतु]

( नवीनालङ्कारः एक एव )

( १+२०८=२०९ ) केशवमिश्रस्यालङ्कारशेखरे प्रतिपादितेष्वष्टशब्दालङ्कारेषु गूढ-प्रहेलिकालङ्कारयोरपि प्रतिपादनं भोजराजेन पूर्वमेव कृतम् । आचार्य विश्वनाथेन प्रत्याख्यातोऽयमलङ्कारः प्रहेलिकेति । तद्यथा सरस्वतीकण्ठाभरणकृल्लक्षणात्--

‘प्रहेलिका तु सा ज्ञेया वचः संवृत्तकारि यत् ।'

इत्यादि प्राचीनान्तरलक्षणकरणाच्च प्रहेलिकाया अलङ्कारतया तल्लक्षणस्यावश्यं वक्तव्यमित्युद्दिश्य विश्वनाथेन

‘रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका।

उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका ॥'[५३]

किञ्च केशवमिश्रेणास्यालङ्कारत्वं स्वीकृतमेवेति । तद्यथा--

‘प्रहेलिका सकृत्प्रश्नः ।'[५४] सा च च्युताक्षरा दत्ताक्षरादिः । यथा -

विदग्धः सरलो रागी नितम्बोपरि संस्थितः ।

तन्वङ्गयालिङ्गितः कण्ठे कलं कूजति कोविदः ॥

अत्र विट इत्यत्र विकारस्थाने घकारदान. द्वितीयोऽर्थों भवति । सा च नि । अनेन केशवेनार्थालङ्कारेष्वन्यदेशत्वनामकस्यैकस्य नवीनालङ्कारस्य वः कृतः । केचित्तु 'अन्यदेशत्वमेव विशेषोक्तिविभावने, अधिकरणद्वय गोवर्द्धनस्त अभ्यासमेवान्यथासिद्धयाऽन्यदेशत्वमेव निराचकार । किञ्च केशवेन चतुर्दशस्वर्थालङ्कारेष्वन्यदेशत्वमपि स्वतन्त्रालङ्कारत्वेन स्वीकृतम् ।

‘सहोक्तिरन्यदेशत्वं विशेषोक्तिः विभावने।

एवं स्युरर्थालङ्काराश्चतुर्दश न चापरे ॥

तत्रैव च यत्र प्रयोज्यप्रयोजकयोर्वैयधिकरण्य–अन्यदेशत्वमिति । तत्रैव । मम्मटस्यासङ्गत्यलङ्कारे एवास्यान्तर्भावः । विश्वनाथेन यदसङ्गत्यलङ्कारस्योदाहरणं दत्तम् । तदेवालङ्कारशेखरेऽन्यदेशत्वस्योदाहरणमस्ति ।

अप्पयदीक्षितस्य योगदानम्[सम्पादयतु]

( नवीनालङ्कारौ द्वौ त्रयोविंशत्यधिकशतमलङ्काराः सर्वे )

| (२+२०९=२११-८८=१२३ ) अप्पयदीक्षितस्य कुवलयानन्दे चन्द्रालोकस्य शतमर्थालङ्कारातिरिक्ताः सप्तरसवदाद्यलङ्काराः, दशप्रत्यक्षादि प्रमाणालङ्काराः, संसृष्टिस्तथा पञ्चप्रकारकाः सङ्करालङ्काराः वणताः सन्ति । त्रयोविंशत्यधिकशतमलङ्कारेषु द्वावेवाभिनवौ प्रमाणालङ्कारौ स्तस्तौ च श्रुतिः, स्मृतिश्चेति । अनेन प्रकारेण पूर्वप्रतिपादितेषु नवाधिकशतद्वयमलङ्कारेषु द्वावभिनवालङ्कारौ संयोज्य तथा पूर्वप्रतिपादितानष्टाशीत्यलङ्कारान् विहाय दीक्षितेन त्रयोविंशत्यधिकशतमलङ्काराणां निरूपणं कृतम् ।

जगन्नाथस्य योगदानम्[सम्पादयतु]

( एक एवाभिनवालङ्कारः, सर्वे ऊनसप्तत्यलङ्काराः प्रतिपादिताः) (१+२११%=२१२-१४३= ६९)

संस्कृतसाहित्यगगनस्यान्तिमः देदीप्यमाननक्षत्रः पण्डितराजजमा - जयदेव-दीक्षितयोः कतिपयानामलङ्काराणां खण्डनं तथा कतिपयानां माय . मपि कृतवान् । रसगङ्गाधरे तिरस्कारनामकस्यैकस्य नवीनालङ्कारस्योद्धा - कृतमनेन । यद्यप्यस्याऽपि बीजः शोभाकरमित्रस्यानपरालङ्कारे निहितोऽस्ति। । एवञ्च दोषविशेषानुबन्धात् गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारालङ्कारो भवति .. रसगङ्गाधरे अलङ्काराणां विवेचनं खण्डितमिव प्रतिभाति । अस्य कवेः समये. - अलङ्काराणां संख्या द्वादशाधिकशतद्वयमासीत् । रसगङ्गाधरे उत्तरालङ्कार. पर्यन्तविवेचितमलङ्काराणां संख्या ऊनाशीत्यासीत् । विश्वेश्वरेण अलङ्कारकौस्तुभनामकग्रन्थे एकषष्टयलङ्काराणां निरूपणं कृतं तथा अच्युतरायेनाऽपि साहित्यसारे शतमालङ्काराणां..निरूपणं कृतम् । - अनयोः ग्रन्थयोः नास्त्येकोऽपि नवीनालङ्कारः। अस्मिन् ग्रन्थे मया तेषां ग्रन्थानामुल्लेखः न कृतः यस्मिन् ग्रन्थे नवीनालङ्काराणां सर्वथाऽभावोऽस्ति, अथवा यस्मिन् ग्रन्थेऽलङ्काराणां संख्याऽत्यल्पाऽस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ना० शा० १७.४२
  2. अशे० प्र०)
  3. ना० शा० १७/४४
  4. नाट्यशास्त्रम् १६॥५७-५८
  5. ना० शा० १६/६०
  6. नाट्यशास्त्रम् १६॥५९-६३
  7. --का० प्र० ९॥११७
  8. कुवलयानन्दः, ३८
  9. काव्याल० २/६८
  10. काव्याल० ३।८
  11. —काव्याल० ३।४३
  12. का० प्र० ११॥९२
  13. -काव्याल० २।३४
  14. काव्याल० २।२९
  15. काव्याल० २/५३
  16. –अ०र० पृ० १८६ ।
  17. —काव्यादर्शः २॥२६०
  18. –काव्यादर्शः २।२३५
  19. काव्यालङ्कारसारसंग्रहः १/१
  20. ( का० सा० सं० १॥२२ )
  21. काव्यल० ७/८४
  22. काव्या० ७॥१०९
  23. काव्याल० ८।७६
  24. काव्याल० ८/८७
  25. काव्याल० ८।९२॥
  26. (द्र० का० १०/१००)
  27. काव्याल० ८।१०५
  28. काव्याल० ८।१०९
  29. काव्याल० ९/२२
  30. काव्याल० ९॥२६॥२८
  31. काव्याल० ९/४८
  32. काव्याल० ९/५२
  33. काव्या० ३०/१४
  34. –चन्द्रालोकः ५॥९-१०
  35. द्र० तु० ० ० पृ० २१०; अच्युतरायस्य साहित्यसारे पृ० ८५५४. अपि द्रष्टव्यम्
  36. नागेशः उद्योते पृ० ४४८ द्रष्टव्यम्
  37. अ० र० २० पृष्टे ।
  38. —अ० र० सं० २१ ।
  39. –अ० र० स० २५
  40. –अ०र०सं० २७
  41. -अ० र० ३५ सू० वृत्तिश्चेति
  42. -अ० र० स० ३६
  43. कुमारसम्भवे १।४४ श्लोकस्य सञ्जीवनी द्रष्टव्येति
  44. सा० दे० १०-३९
  45. अ० र० ४९
  46. द्र० कुवलयानन्दे का० १३८
  47. -चन्द्रा० ५७
  48. -चन्द्रा० ५॥५.
  49. च० लो० ५।६
  50. -चन्द्रा० ५।७
  51. ( द्रष्ट० एकावली ८।६८ तथावाग्भटालङ्कारः ४।१४३ )
  52. –काव्यानु० पृ० ४१
  53. सा० द० १०॥१३
  54. ( अ० शे०,११ म० )