अलङ्काराणां वर्गीकरणम्
अलङ्काराणां वर्गीकरणम् अतीव महत्त्वपूर्णः विषयः वर्तते। अलङ्क्रियतेऽनेनेति करणव्युत्पत्तिनिष्पन्नो यमकोपमादिबोधको नायमलङ्कारशब्दः किन्तु, ‘अलङ्कृतिरलङ्कारः' इति भावव्युत्पन्नो दोषापगमगुणाऽलङ्कारसंचलनकृतसौन्दर्यपरः, तत्प्रतिपादकात्वादेवाऽयमलङ्कारः । अत्र मानं तुकाव्यं ग्राह्यमलङ्कारात्, सौन्दर्यमलङ्कारः, दोषापगमगुणालङ्कारहानोपादानाभ्याम्' इत्यादिवामनसूत्रमेवेति । अनेनालङ्कारकृतचारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः । तेनालङ्कारस्वरूपत्वञ्च–रसोपकारत्वे सति तद्वृत्तित्वं तथात्वे सति रसानिंयतस्थितिकत्वम् अनियमेन रसोपकारकत्वं वेति । अलङ्कारत्वञ्च रसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयतासम्बन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रासादिविशिष्टशव्दज्ञानादुपमादि विशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्वयः शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायां विषयितयावच्छेदकत्वे तंद्विशेपणीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् ।
रसवदाद्यलङ्कारसंग्रहाय व्यङ्गयोपमादिवारणाय च विलक्षण एवेति ध्येयम् यतो ह्यलङ्कारत्वं कविसमयसिद्धान्यतमत्वम् । कविसमयसम्बन्धेनालङ्कारपदवत्त्वं वा सूचितमन्यस्यालङ्कारत्वस्या प्रतिपादनात् । फलितार्थश्चालङ्कारस्य सारतत्त्वम् चमत्कार एवेति । चमत्कारशून्याऽलङ्कारः निःसारत्वात्काम्यो नाऽस्ति । शोभाविषये यो ह्यलङ्कारः यावदेव सहायको भवति तावदेवास्यालङ्कारपदेन तस्य महत्त्वमस्ति । किच्चाऽलङ्कारमूलकस्य चमत्कारस्य सौन्दर्यस्य च न कोऽपि वस्तुगत निश्चित मापदण्डोऽस्ति, तत्तु प्रतिभावतः कवेः विवेकवतस्समालोचकस्य कल्पनाशीलमनसः एवोद्भावनाऽस्ति । अतएव विभिन्नकालेषु काव्यशास्त्रीयरस-अलङ्काररीति-ध्वनि-वक्रोक्तिप्रभृतेः प्रकाशो विकासश्चाप्यवलोक्यते । स्व-स्व-कालेषु सर्वेषां सम्प्रदायानां स्व-स्व विशेषताऽऽसीत् । विचारस्य काऽपीयत्ता न भवति । तेन परवत्तिनः विवेकशीलमनीषिणः पूर्ववत्तिनः मान्यतायाः युक्तायुक्तत्वस्य महत्वस्य च विवेचनं कृतवन्तः ।।
अलङ्काराणाञ्च विकासस्यापीयमेव स्थितिः । काव्येषु मुख्यरूपेण गौणरूपेण चालङ्काराणां विधानं कवय एवं कृतवन्तः । तेषामलङ्काराणामलङ्कारशास्त्रे यथासम्भवः निरूपणोऽभवत् । अलङ्काराणामेतेषु विधानेषु क्वाऽपि कवयः अलङ्काराणां लक्षणानुसारेण नवीन-लक्ष्यस्य रचना कृतवन्तः, कुत्रचिच्चाचार्यैः काव्यगतलक्ष्यधारे एवालङ्कारलक्षणानां निरूपणञ्च कृतम् । अनेन प्रकारेणालङ्काराणां विकासे कवेराचार्यस्य च कल्पनायाः अपूर्वयोगदानमस्ति । परवत्तिनः । आचार्याः येषु पूर्ववणितेष्वलङ्कारेषु चमत्कृतिरपश्यन् तेषामलङ्काराणां संग्रहः कृतवन्तस्तथा येष्वलङ्कारेषु तान् स्वस्वरुच्यनुसारेण चमत्कारस्य प्रतीतिर्न बभूव, तेषामलङ्काराणां ते संग्रहणम् न कृतवन्तः । अलङ्काराणामस्मिन्नभिनवनिरूपणे ग्रहण-परित्यागेषु विवेचनेन सह रुचिवैचित्र्यस्यापि कारणमस्ति ।
अलङ्कारशास्त्रे न केवलमलङ्काराणां विकासस्य निरूपणम्वभूवापितु | कतिपयैः आचार्यैः तेषां वर्गोऽपि दर्शितः । येष्वलङ्कारेपु समानतत्त्वस्योपलब्धिजता तेषामलङ्काराणामेकस्मिन्नेव वर्गे संग्रहीतः । अनेन प्रकारेण विभिन्नमौलिकतत्त्वोपरि विभिन्नवर्गस्योद्भावनं कृतमाचार्य प्रवरेणेति । अधः तेषामेव विभिन्नवगनामेवं तेषां मौलिकतत्त्वानां विवेचनं वर्तते।
अलङ्काराणां ‘वर्गास्तेषां मौलिकतत्त्वञ्च
[सम्पादयतु]१ वक्रोक्तिः अथवा अतिशयोक्ति-वर्गः | अतिशयलोकातिक्रान्त-कथनम्। |
२-( क ) अतिशयोक्ति-वर्गः | अतिशय-वर्णनम् । |
( ख ) स्वभावोक्ति-वर्गः | स्वभाव-वर्णनम् । |
३ -(क ) वास्तव-वर्गः | वस्तु-स्वभाव-कथनम् । |
ख ) औपम्य-वर्गः | उपमानोपमेय-भाव-वर्णनम् । |
ग ) अतिशय-वर्गः | अतिशय-कथनम् । |
घ) श्लेष-वर्गः | श्लेष-निरूपणम् । |
४ –(क) सादृश्य-वर्णनम् | सादृश्य-वर्णनम् । |
( ख ) विरोध-वर्गः | विरोध-प्रदर्शनम् । |
( ग ) शृङ्खलाबन्ध-वर्गः | शृङ्खला-वर्णनम् । |
(घ ) तर्कन्याय-वर्गः | तर्कन्याय-प्रदर्शनम् । |
( ङ ) वाक्यन्याय-वर्गः | वाक्य-न्याय-प्रदर्शनम् ।। |
( च ) लोकन्याय-वर्गः | लोकन्याय-वर्णनम् । |
( छ ) गूढार्थ-प्रतीति-वर्गः | गूढार्थ-प्रदर्शनम् । |
( ज ) विशेषण-विच्छित्ति-वर्गः | विशेषण-वैशिष्ट्यवर्णनम् |
( झ ) गम्यत्व-विच्छिति-वर्गः | गम्यमानतामूलकचमत्कार-वर्णनम् |
( ञ ) मिश्रित-वर्गः | अलङ्कार-साङ्कर्य-वर्णनम् । |
५ - ( क ) साधर्म्य-वर्गः | साधर्म्य-निरूपणम् । |
( ख ) अध्यवसाय-वर्गः | अध्यवसाय-कथनम् । |
( ग ) विरोध-वर्गः | विरोध-प्रदर्शनम् । |
( घ) वाक्य-न्याय-वर्गः | वाक्यन्याय-प्रदर्शनम् |
(ङ) लोक-व्यवहार-वर्गः | लोकन्याय-वर्णनम् । |
च ) श्रृंखला-वैचित्र्य-वर्गः | श्रृंखलावैचित्र्य-वर्णनम् |
( छ ) अपह्नव-वर्गः | अपह्नुति-वर्णनम् । |
( ज ) विशेषण-वैचित्र्य-वर्गः | विशेषण-वैशिष्ट्य-कथनम् । |
६–रसवदादि-वर्गः | रसभावादिमूलक-कथनम् ।। |
(१) वक्रोक्तिः किम्वाऽतिशयोक्ति-वर्गः
[सम्पादयतु]एतेषामतिशयोक्तिवर्गाणामलङ्कारेषु वक्रोक्तिरूपातिशयोक्ति एव चमत्कारस्य प्राणाधारः मन्यते । अस्यावलम्बनादेव कस्याप्यलङ्कारस्यास्तित्वञ्च स्वीक्रियते । आचार्य भामहमते-एकस्यैवातिशयोक्तिवर्गस्य सर्वेऽलङ्काराः सन्ति । अस्यातिशयोक्तिरूपमौलिकतत्वस्याभावे न कोऽप्यलङ्कारो भवितुं शक्यते । शक्यतावच्छेदकरूपेण विषयस्य लक्ष्यस्य विषयिवाचकपदेन बोधनमुपस्थितिर्वा वक्रोक्तिमूलक अतिशयोक्तिवर्ग इति फलितम् । तद्यथा- आचार्यभामहेन -
‘सैषा सर्वत्र वक्रोक्तिरनयाऽर्थों विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।। २।८५ ॥
हेतुश्च सूक्ष्मो लेशोऽथ नालङ्कारतया मतः ।
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ।। २।८६ ।।[1]
लोकव्यवहारे शब्दस्य चार्थस्य च यथा प्रयोगो भवति तद्विलक्षणशब्दः, अर्थश्च लोकातिक्रान्तगोचररूपेण वक्रतया यदा प्रयुक्तो भवति तदा तेषु अलङ्कारत्वम्भवति ।
‘वक्राभिधेयशब्दोक्तिरिष्टावाचामलङ्कृति ।'[6]
‘वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते ।[7]
‘शब्दस्य वक्रता अर्थस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानम् ।[8]
अतो हि वस्तुनः स्वभावकथने यद्यलङ्कारस्य बीजरूपमियमतिशयोक्तिर्न भवति तदा तत्रालङ्कारत्वमपि न भवति । 'गतोऽस्तमर्कः •••••वात्तमेना प्रचक्षते ।[2]
उपर्युक्तालङ्कारसामान्यरूपवक्रोक्तिशब्दस्यार्थेऽतिशयोक्तिशब्दः शुद्धरूपेण यौगिकोऽस्ति अलङ्कारविशेषरूपे चातिशयोक्तिशब्दः योगरूढोऽस्ति । वक्रोक्तिः किम्बाऽतिशयोक्तिशब्दस्यातिशययुक्तकथनमेव यौगिकार्थ सर्वाऽलङ्कारबीजत्वं स्वीकृतं समथितञ्च समालोचकैविद्वभिरिति । महाकविभिर्यदेयमंतिशयोक्तिरलङ्कारस्य सर्वेष्वलकारेषु समुचितसमन्वयो भवति तदेयमतिशयोक्तिरनिर्वचनीयकाव्यशोभायाः, उत्कर्षाधायको भवति-तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात् तस्य चारुत्वातिशय-योगोऽन्यस्यालङ्कारमात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात सैव सर्वाऽलङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः।[3]
अनयातिशयोक्त्या यदा पूर्बप्रतिपादितोऽर्थोऽपि चमत्कारोत्पादकरूपेणाभिहितो भवति, तदा तत्र सौन्दर्यस्य सृष्टि कुर्वन् रसमयो भवति–'तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् । तथा ह्यनथातिशयोक्त्यार्थः सकलजनोपभोग पुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमोदादयानादिभिर्विभावतां नीयते विशेषेण च भाव्यते रसमयी क्रियते ।[4] अतएवातिशयोक्तिमू काव्यजीवितरूपेण स्वीकृतमलङकारवादिभिः ‘अथ सा काव्यजीवितत्त्वेन तु विवक्षिता ।'
आनन्दाभिनवगुप्ताभ्यां मतेन सहमतो मम्मटभट्टः अतिशयोक्तेः सर्वाऽलङ्कारसामान्यरूपेण किञ्चित् संशोधनं कुर्वन् दण्डिनः मतानुसारेण स्वभावोक्तेरपि अलङ्कारत्वं मन्यते। विशेषालङ्कारस्य स्वरूपनिरूपणप्रसङ्ग तेनोक्तम्यत्र प्रसिद्धमाधारं विनाधेयस्य विशिष्टावस्थितिर्यदभिधीयते स एको विशेषः । तत्र प्रसिद्धमित्यनेनेदमुक्तं यदत्र वास्तवमाधारत्वं न विवक्षितमु किन्तु कविप्रसिद्धिमात्र सिद्धमिति -
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः
एकात्मा युगपद् वृत्तिरेकस्यानेकगोचरा
अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः
तथैव करणञ्चेति विशेषस्त्रिविधस्मृतः ॥[5]
एवं त्रिविधविशेषे आधारं विनाऽधेयस्य स्थितिः एकस्य वस्तुनो युगपद्या एकात्मा तथा चैकस्मिन्नेव प्रयत्ने कार्यद्वयस्य सम्पादनं व्यावहारिकदृष्ट्याऽनूपपन्नोऽस्ति । एवंविधस्थलेषु अलङ्कारत्वमेवासम्भव इति । अस्य समाधानं कुर्वन्नवदत्-‘सर्वत्र एवंविध विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते, तां विना प्रायेणालङ्कारत्वायोगात् । अत्र प्रदीपकारोऽपि-नन्वाधारं विना वास्तवस्याधेयस्य व्यवस्थितिरनुपपन्नैव एवमन्ययोरप्यनुपपत्तिरिति चेन्न, अतिशयोक्तिमालम्ब्य तथाभिधानात् । सवत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणायिता । तां विना प्रायशोऽलङ्कारात्वाभावात् । अतएवाहुः -
सैषा सर्वत्र वक्रोक्तिरनयर्थोिं विभाव्यते ।
यत्नोऽस्यां कविभिः कार्यः कोऽलङकारोऽनया विना।' इति ।
( २ ) अतिशयोक्तिवर्गस्तथा स्वभावोक्तिवर्गश्च
[सम्पादयतु]आचार्य दण्डिना भामहोक्तातिशयोक्तिं वृहस्पतिप्रशंसितं मत्वा तामन्यालङ्काराणां प्राणरूपत्वेन स्वीकृतम्
अलङ्कारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ।।[6]
अनेन प्रकारेण भामहस्यानुकृतिं कुर्वन्नप्यमुना पदार्थस्य नानावस्थानां स्वाभाविक-यथार्थकथनेऽपि चमत्कृतिः, स्वीकृत्यालङ्काराणां द्वितीयः स्वभावोक्ति-वर्गोऽपि स्वीकृतः---
नानावस्थं पदार्थानां रूपं साक्षात् विवृण्वती ।
स्वभावोक्तिश्च जातिश्चेत्याद्या सालङ्कृतिर्यथा ।।[7]
स्वभावस्य वर्णनीयतत्तद्वस्तुमात्रगतस्य प्रकृतिसिद्धस्य धर्मस्योक्तिः । एवञ्च यस्य कश्चिद्वस्तुनोऽसाधारणधर्मवर्णनं स्वभावोक्तिरलङ्कारः । अत्राऽपि चमत्कृतिहेतुत्वमलङ्कारसामान्यलक्षणप्राप्तमस्त्येव । तेन ह्यलङ्कारस्य अनुकरणमूलकचमत्कारत्वात् तस्य अलङ्कारस्य द्वितीयः स्वभावोक्ति वर्गोऽपि सर्वथा मान्य एव प्रतिभाति । अतएव स्वभावोक्तिरूपजात्यादेः विधानं काव्ये बाणभट्टमतेऽपि काम्योऽस्ति -
नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः ।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥[8]
( ३ ) वास्तवौपम्यातिशयोक्तिश्लेषवर्गः
[सम्पादयतु]रुद्रटाचार्येण भामहस्यातिशयोक्तिमूलकम् दण्डिनश्च स्वभावोक्तिमूलकमलङ्कारं च विहाय औपम्यमूलकः श्लेषमूलकश्चालङ्काराणामतिरिक्तं वर्गद्वयं । स्वीकृतम् । अलङ्कारेषु चमत्कारः न केवलातिशयकथने न वा स्वभाववर्णने एवाऽस्ति प्रत्युत् रुद्रटमते औपम्यः श्लेषश्चाऽपि ईदृशं तत्त्वमस्ति यो हि चमत्कारस्य सर्वथा सृष्टि करोति । अतएवोपर्युक्त तत्वद्वयस्याधारं गृहीत्वाऽनेन स्वतन्त्रवर्गद्वयस्य कल्पना कृतेति ।
( क ) वास्तववर्गः
[सम्पादयतु]औपम्य-अतिशय-श्लेषाद्भिन्नम् वस्तुस्वरूपयथार्थकथनमेव वास्तवमिति ज्ञेयम् । यस्यार्थः पुष्टः अर्थात् सहृदयहृदयाह्लादकारी भवति तथाऽविपरीतः अर्थाद्वण्र्यविषयकस्य यथार्थप्रतिपादको भवति तदेववास्तवमिति बोध्यम् । तद्यथा--
वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत् ।
पुष्टार्थमविपरीतं निरूपममनतिशय-श्लेषम् ।।[१]
वस्तुस्थितिस्वरूपस्य यथार्थवर्णने वास्तवमूलकाऽलङ्कारेषु हृदयाकर्षणस्य चमत्कारोत्पादनस्य च क्षमता भवत्येव । रुद्रटानुसारेण वास्तववर्गे निम्नलिखितास्त्रयोविंशत्यलङ्काराः सन्ति ।
१. सहोक्तिः,
२. समुच्चयः,
३. जातिः ( स्वभावोक्तिः ),
४. यथासंख्यम्,
५. भावः,
६. पर्यायः,
७. विषमम्,
८. अनुमानम्,
९. दीपकः,
१०. परिकरः,
११. परिवृत्तिः,
१२. परिसंख्या,
१३. हेतुः,
१४. कारणमाला,
१५. व्यतिरेकः,
१६. अन्योऽन्यः,
१७. उत्तरः,
१८. सारः,
१९. सूक्ष्मः,
२०. लेशः,
२१. अवसरः,
२२. मीलितः,
२३. एकावली।
(ख ) औपम्यवर्गः
[सम्पादयतु]वयमानपदार्थस्याधिकस्पष्टयितुं तत्समानप्रसिद्धवस्तुनः वर्णनमेवौपम्यशब्देन व्यपदिश्यते अर्थात् साधयं किम्वा सादृश्यशब्देन व्यवह्रियते । तद्यथा
सम्यक् प्रतिपादयितुं स्वरूपतो वस्तु तत् समानमिति ।
वस्त्वन्तरमभिदध्यात् वक्ता यस्मिन् तदौपम्यम् ॥ --रुद्रटा०[२]
रुद्रटस्य औपम्यवर्गे विंशत्यलङ्काराः सन्ति । ते च -
१. उपमा,
२. उत्प्रेक्षा,
३. रूपकम्,
४. अपहनुतिः,
५. संशयः,
६. समासोक्तिः,
७. मतम्,
८. उत्तरः,
९. अन्योक्तिः,
१०. प्रतीपः,
११. अर्थान्तरन्यासः,
१२. उभयन्यासः,
१३. भ्रान्तिमान,
१४. आक्षेपः,
१५. प्रत्यनीकः,
१६. दष्टान्तः,
१७. पूर्वसहोक्तिः,
१८. पूर्वसमुच्चयः,
१९. साम्यः,
२०. स्मरणम् ।
( ग ) अतिशयवर्गः
[सम्पादयतु]यत्र वयवस्तुनः अथवा वय॑मानवस्तुनो धर्मः लोकातिक्रान्तगोचररूपे भत्वा चमत्कृतो भवति तदेवातिशयशब्देन ज्ञायते । अस्मिन्नतिशयवर्गे -
द्वादशालङ्काराः सन्ति -
यत्रार्थ-धर्म-नियमः प्रसिद्धिबाधात् विपर्ययं याति ।
कश्चित् क्वचिदतिलोकं स स्यादतिशयस्तस्य ।।[३]
१. पूर्वः,
२. विशेषः,
३. उत्प्रेक्षा,
४, विभावना,
५. तद्गुणः,
६. अधिकः
७. विरोधः,
८. विषमः,
९. असंगतिः,
१०. पिहितः,
११. व्याघातः,
१२. अहेतुः ।
(घ ) श्लेषवर्गः
[सम्पादयतु]परिवृत्तिसहानां श्लिष्टानां शब्दानां प्रकरणादिनियमाभावादनेकार्थप्रतिपादकत्वेऽर्थश्लेष इत्युच्यते । एकार्थप्रतिपादकानां सामान्यैकधर्मवत्तया सामान्यरूपस्यैकस्यार्थस्य वाचकानां शब्दानामनेकोऽर्थः, विशेषरूपो नाना, अर्थः प्रकरणादेरनियमेन बुध्यते स श्लेषः । श्लिष्यतोऽर्थावस्मिन्निति श्लेषपदव्युत्पत्तिः ।
यत्रैकमनेकार्वाक्यं रचितं पदैरनेकस्मिन् ।
अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ।।[४]
अस्मिन् वर्गे रुद्रटानुसारेण दशाऽलङ्काराः सन्ति । ते च -
१. अविशेषश्लेषः,
२. विरोधश्लेषः,
३. अधिकश्लेषः,
४. वक्रश्लेषः,
५. व्याजश्लेषः,
६. उक्तिश्लेषः,
७. असम्भवश्लेषः,
८. अवयवश्लेषः,
९. तत्त्वश्लेषः,
१०. विरोधाभासश्लेषः ।
(४) रुय्यककृतं वर्गविभाजनम्
[सम्पादयतु]आचार्यरुद्रटस्य पश्चाद्विद्वदग्रणीराचार्य राजानकरुय्यकः ‘स्वीयाऽलङ्कारसर्वस्वे' मौलिकतत्त्वस्याधारोपरि कतिपयेषु वर्गेषु अलङ्काराणां विभाजन कृतवान् । तद्यथा -
( क ) सादृश्यवर्गः
[सम्पादयतु]येष्वलङ्कारेषु सादृश्यविच्छित्तिपदस्याधारो भवति तान् सादृश्यमूलकाऽलङ्कारान् सादृश्यवर्गे एव परिगणितमाचार्यप्रवरेण । अस्मिन्नपि सादृश्यः,
१. भेदाभेदप्रधानः,
२. अभेदप्रधानः,
३. भेदप्रधानः
४. गम्योपमामूलक इति चर्तुषु वर्गेषु विभाजितः ।
( १ ) भेदाभेदप्रधानमूलकसादृश्यवर्गे चत्वारोऽलङ्काराः सन्ति । ते चउपमा, उपमेयोपमा, अनन्वयस्तथा स्मरणाऽलङ्काराः ।
( २ ) अभेदप्रधानमूलकसादृश्यवर्गे–रूपकम्, परिणामः, ससन्देहः, भ्रान्तिमान्, उल्लेखः, अपह्नुतिः, उत्प्रेक्षा, अतिशयोक्तिश्चाष्टावलङ्काराः सन्ति ।
( ३ ) भेदप्रधानमूलकसादृश्यवर्गे–व्यतिरेकः, सहोक्तिस्तथा विनोक्तिस्त्रयोऽलङ्काराः सन्ति
(४) गम्योपम्याश्रयमूलकसादृश्यवर्गे.
( क ) पदार्थगतः-तुल्ययोगिता तथा दीपकोऽलङ्कारद्वयमस्ति ।
( ख ) वाक्यार्थगतः–प्रतिवस्तूपमा, दृष्टान्तः, निदर्शना चेति त्रयोऽलङ्काराः सन्ति । अनेन प्रकारेण सादृश्यवर्गे सर्व संयोज्योपर्युक्तविंशत्यलङ्काराः सन्ति ।
( ख ) विरोधवर्गः
[सम्पादयतु]यत्र वर्णने वस्तुगत्याविरोधाभावेऽपि यद्वयोवरुद्धयोरिवाभिधानं दर्शयित्वा चमत्कारोत्पादनं करोति तादृशानलङ्कारान् विरोधवर्गे एवं संग्रहीताः । अस्मिन्वर्गे द्वादशाऽलङ्काराः सन्ति । ते च–विरोधः किम्वा विरोधाभासः, विभावना, विशेषोक्तिः ( कार्य-कारणपौर्वापर्य-विपर्ययमूलकः ), अतिशयोक्तिः, असंगतिः, विषमः, समः, विचित्रः, अधिकः, अन्योऽन्यः, विशेषस्तथा व्याघातः ।
(ग) शृङ्खलाबन्धवर्गः
[सम्पादयतु]यत्र पूर्वपूर्वमुत्तरोत्तरं वा शृङ्खलायाः आधारं गृहीत्वा चमत्कारोत्पादनं भवति तत्राऽलङ्कारान् शृङ्खलाबन्धवर्गे स्थापितः अस्मिन्वर्गे चत्वारोऽलङ्काराः सन्ति । कारणमाला, एकावली, मालादीपकः, सारश्च ।
(घ ) तर्कन्यायवर्गः
[सम्पादयतु]यत्र तर्कशास्त्रानुसारेण तर्कन्यायस्याधारं गृहीत्वा काव्ये विच्छित्तिः किम्वा चमत्कारांधायकत्वम्भवति तत्राऽलङ्काराः तर्कमूलकाः भवन्ति । रुय्यकस्त्वस्मिन् वर्गे काव्यलिङ्गः अनुमानश्चेत्यलङ्कारद्वयम् सङ्कलितः ।
(ङ) वाक्यन्यायवर्गः
[सम्पादयतु]वाक्यन्यायस्यार्थात् मीमांसाशास्त्रोक्तन्यायस्याधारं गृहीत्वा विच्छित्युत्पादकाऽलङ्कारा अस्मिन् वाक्यन्यायवर्गे सन्निवेशिताः । ते चालङ्काराः अष्टसंख्यकाः सन्ति । यथासंख्यः, पर्यायः, परिवृत्तिः, परिसंख्या, अर्थापत्तिः, विकल्पः, समुच्चयः, समाधिश्चेति ।
(च) लोकन्यायवर्गः
[सम्पादयतु]यत्र लोकन्यायः अर्थात् लोकव्यवहारमूलकश्चमत्कारो भवति तत्र लोकन्यायवर्गीयालङ्काराः भवन्ति । अस्मिन् वर्गे सप्ताऽलङ्काराः सन्ति। ते चप्रत्यनीकः, प्रतीपः, मीलितः, सामान्यः, तद्गुणः, अतद्गुणः, उत्तरश्चेति । डितराज जगन्नाथेनास्मिन्वर्गे प्रौढोक्तिः, ललितः, प्रहर्षणः, विषादनः, उल्लासः, अवज्ञा, अनुज्ञा, तिरस्कारस्तथा लेशाख्यकाः नवाऽलङ्काराः सन्निवेशिताः ।
(छ) गूढार्थप्रतीतिवर्गः
[सम्पादयतु]अस्मिन्वर्गेऽलङ्कारेषु चमत्कारस्याधारः सहृदयसंवेद्यगू ढार्थस्य प्रतीतिरेव भवति । अस्मिन्वर्गे षडलङ्काराः सन्ति । ते च–सूक्ष्मः, व्याजोक्तिः, वक्रोक्तिः, स्वभावोक्तिः, भाविकः, उदात्तश्चेति ।
( ज ) विशेषणविच्छित्तिवर्गः
[सम्पादयतु]यत्र विशेषणस्य वैशिष्ट्यपदेनैव शोभाधायको भवति तत्र विशेषणविच्छित्तिवर्गस्यालङ्काराः मन्यन्ते मनीषिणः । ते च–समासोक्तिः, परिकरः, श्लेषः, अप्रस्तुतप्रशंसा, (अर्थान्तरन्यासश्च) एते पञ्चालङ्काराः विशेषणविशेष्यविच्छित्याश्रयाः सन्ति ।
( झ ) गम्यत्वविच्छित्तिवर्गः
[सम्पादयतु]गम्यत्वविच्छित्तिवर्गे गम्यमानार्थस्य कारणमेव चमत्काराधीयको भवति । अस्मिन्वर्गे पर्यायोक्तः, व्याजस्तुतिः, आक्षेपश्च त्रयोऽलङ्काराः ।
(ञ) मिश्रितवर्गः
[सम्पादयतु]अस्मिन् मिश्रितवर्गेऽनेकानामलङ्काराणामेकत्रैव मिश्रणो भवति । अत्र । सङ्करः संसृष्टिश्चालङ्कारद्वयमस्ति । विद्याधरस्तु स्वग्रन्थे एकावल्यां रुय्यकमतानुसारेणैव मौलिकतत्त्वं मन्यते । तस्य वर्गीकरणे न काऽपि नवीनताऽस्ति । तेन च केवलसादृश्यमूलकगम्यौपम्याश्रये विशेषविच्छित्याश्रयः परिकराङ्कुरालङ्कारस्तथा लोकन्यायमूलक प्रश्नोत्तरिकालङ्कार एव स्वीकृतः ।
(५) साधर्म्यसादृश्ये
[सम्पादयतु]विद्यानाथेन तु निजप्रतापरुद्रयशोभूषणनामकग्रन्थे वर्गविभाजनस्य प्रसंगे किञ्चित्परिवर्तनं कृतम् । सादृश्यवर्गस्य सादृश्यमूलकालङ्कारम् साधर्म्यमूलकपदेन व्यपदिश्यते । कारणन्तु स्पष्टमेव । विद्यानाथः सिद्धान्ततः आचार्य मम्मटस्यानुयायी वर्तते । मम्मटभट्टस्तु ‘साधर्म्यमुपमाभेदे' इत्युपमां लक्षयति । समानः एकः तुल्यो वा धर्मो गुणक्रियादिरूपो ययोः अर्थादुपमानोपमेययोः तौ सधर्माणी तयोर्भावः साधर्म्यम् उपमानोपमेययोः समानधर्मेण सह सम्बन्ध इत्युक्त्वा पूर्वाचार्यप्रतिपादित ‘सादृश्यमुपमा' इत्यस्य स्थाने ‘साधर्म्यमुपमा इति कथित्वा निजवैशिष्ट्यं प्रदशितम् ।
साधर्म्यसादृश्ययोर्भेदः
[सम्पादयतु]१. साधर्म्यम्
[सम्पादयतु]समानः, एकस्तुल्यो वा धर्मो गुणक्रियादिरूपो ययोरर्थादुपमानोपमेययोस्तो सधर्माणी तयोर्भावः साधर्म्यमुपमानोपमेययोः समानधर्मेण सह सम्बन्ध इत्यर्थः । समासोत्तरर्वात्त भाववाचितद्धितप्रत्ययस्य ‘कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेन' इति भत्तृहरिप्रोक्तन्यायेन सम्बन्धाभिधायकत्वात् स एवोपमानोपमेययोः समानधर्मेण सह सम्बन्धः उपमा इति ।
साधर्म्यमिति साधारणधर्मवत्वम् । तत्र साधारणधर्मवत्वञ्च साधारणधर्मसम्बन्ध एव मतुबूपतद्धितप्रत्ययोत्तरर्वात्त भावप्रत्ययस्य प्रागुक्तन्यायेन सम्बन्धबोधकत्वात् । तथा च सादृश्य-प्रयोजकसाधारणधर्मसम्बन्धः, उपमेति । अत्र विचार्यते-साधर्म्यं हि सम्बन्धविशेषः सम्बन्धश्चैकप्रतियोगिकोऽपरानुयोगिक एव नियतः, यथा ‘राज्ञः पुरुषः' इत्यत्र राजपुरुषयोः स्वस्वामिभावः सम्बन्धः, तस्य च राजा प्रतियोगी पुरुषोऽनुयोगी तथा चात्र साधम्र्याख्य सम्बन्धस्य कौ प्रतियोग्यनुयोगिनाविति चेत् साधारणधर्मः प्रतियोगी, उपमानोपमेयं चेति द्वावप्यनुयोगिनाविति गृहाण । उक्तञ्च परमानन्दचक्रवत्तभट्टाचार्यैः–‘सादृश्यस्य प्रतियोग्युपमानं अनुयोग्युपमेयम् । अस्य च साधर्म्यस्य, उपमानमुपमेयं च द्वावप्यनुपयोगिनौ ।' इति । एवञ्च यः साधारणधर्मप्रतियोगिकः, उपमानोपमेयोभयानुयोगिकः सम्बन्धः स साधर्म्यमित्युच्यते।
२. सादृश्यम्
[सम्पादयतु]सादृश्यञ्च साधारणधर्मसम्वन्धप्रयोज्यो धर्मविशेषः । तेन चोपमानप्रतियोगिकः, उपमेयानुयोगिकः सम्बन्धः स सादृश्यमित्युच्यते । सादृश्यप्रयोजकसाधारणधर्मसम्वन्धो ह्य पमा सादृश्यं चातिरिक्तः पदार्थः । अत्र पायगुण्डोपाख्येन वालभट्टेन–'अत्र परिभाषायां सादश्यं साधारणधर्मसम्बन्धप्रयोज्यं सदृशादिपदशक्यतावच्छेदकतया सिद्धं सदृशदर्शने संस्कारोबोधकत्वस्य सर्वसम्मतत्त्वेन तत्कारणतावच्छेदकतया च सिद्धमखण्डमतिरिक्तपदार्थः इति । प्राचीननैयायिकगौतममते तु सादृश्यस्य पदार्थान्तरत्वं तस्य च प्रमेयपदार्थः अन्तर्भावः ।। | नव्यनैयायिकास्तु सादृश्यातिरिक्तपदार्थत्वेऽष्टमपदार्थापत्या 'द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तैव पदार्थाः । इति स्वसिद्धान्तहानिः मन्यमानाः ‘सादृश्यं न पदार्थान्तरम् किन्तु साधर्म्य सादृश्यं चैकमेव । तच्च सादृश्यं तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वरूपम् । अस्यायमर्थः-तस्माद्भिन्नत्वे सति तत्रासाधारण्येन विद्यमानाः ये भूयांसो धर्मास्तद्वत्वमिति । यथा 'चन्द्रमुखम्' इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम् । अत्र सादश्यनिरूपकेऽतिव्याप्तिवारणाय तद्भिन्नत्वे सतीति विशेषणम् अतोऽलङ्कारशास्त्रे साधर्म्यसादृश्ययोर्भेदाभेदत्वासमानरूपेण मान्योऽस्ति ।। | मम्मटाचार्यस्यानुगमनं कुर्वन् विद्यानाथस्तु साधर्म्यमूलकवर्गमेवं मन्यते ।
(क) साधर्म्यवर्गः - सादृश्यवर्गे येऽलङ्काराः प्रदर्शितास्ते एवास्मिन्वर्गे सन्निष्टाः । ।
(ख) अध्यवसायवर्गः -
( अ ) अध्यवसानमाहार्यादिभेदनिश्चयः । ( कल्पिताभेदस्य निश्चयः )
( आ ) अध्यवसानम् द्रढीयसीबुद्धिः । ( उपमेयस्योपमाने दृढनिश्चयः )
( इ ) अध्यवसानमप्रकृततादात्म्यारोपः ( उपमेये उपमानस्य तादात्म्यारोपः ) विद्यानाथस्याध्यवसायवर्गे रूय्यकस्यावसायमूलकोऽभेदप्रधान सादृश्यगर्भोत्प्रेक्षाऽतिशयोक्तिश्चालङ्कारद्वयमेवास्ति ।
(ग) विरोधवर्गः - अस्मिन्विरोधवर्गे रुय्यकस्य विरोधमूलकविरोधाभासः, विभावना, विशेषोक्त्यादिः पूर्वोक्ताऽलङ्कारा एव सन्ति ।
(घ) वाक्यन्यायवर्गः - वाक्यन्यायवर्गे रुय्यकस्य वाक्यन्यायमूलकः पर्यायः, परिवृत्तिः, परिसंख्याप्रभृतयोऽलङ्काराः सन्ति ।
(ङ) लोकव्यवहारवर्गः - लोकव्यवहारवर्गे ते एव पूर्वोक्ताः प्रतीप-प्रत्यनीक-मीलितादयोऽलङ्काराः । सन्ति ।
(च) शृङ्खलावैचित्र्यवर्गः - अस्मिन् वर्गे रुय्यकेन निर्दिष्टाः कारणमाला-एकावलीमालादीपक-सारादयोऽलङ्काराः विद्यानाथेनापि स्वीकृताः ।
(छ) अपनववर्गः - रुय्यकस्य गूढार्थप्रतीतिवर्ग एव विद्यानाथस्यापह्नववर्गोऽस्ति । अतोऽस्मिन् वर्गे ते एव सूक्ष्म, व्याजोक्त्यादयः अलङ्काराः सन्ति ।
(ज) विशेषण-वैचित्र्यवर्गः - रुय्यकस्य विशेषण-विच्छित्तिमूलकपरिकरः, विशेष्यविच्छितिमूलक-परिकराङ्कुरः, विशेषणविशेष्य-विच्छितिमूलकश्लेषाऽलङ्कारश्च विद्यानाथस्यास्मिन् वर्गेऽभिष्टाः सन्ति ।
रुय्यकेन निर्दिष्टान् कतिपयालङ्कारान् विद्यानाथः तस्माद्भिन्नवर्गे एव निदिष्टवान् ।
क्रमः | अलङ्काराः | रुय्यकमतानुसारेण | विद्यानाथमतानुसारेण |
१ | विनोक्तिः | सादृश्यवर्गे | लोकन्यायवर्गे |
२ | अर्थान्तरन्यासः | विशेषणविच्छित्तिवर्गे | तर्कन्यायवर्गे |
३ | समः | विरोधवर्गे | लोकव्यवहारवर्गे |
४ | पर्यायः | वाक्यन्यायवर्गे | विरोधवर्गे |
५ | परिवृत्तिः | " | लोकव्यवहारवर्गे |
६ | समाधिः | " | " |
७ | प्रतीपः | लोकन्यायवर्गे | साधम्र्यवर्गे |
८ | अतद्गुणः | " | विरोधवर्गे |
९ | स्वभावोक्तिः | गूढार्थप्रतीतिवर्गे | लोकव्यवहारवर्गे |
१० | भाविकः | " | विरोधवर्गे |
उपरिनिदष्टानलङ्कारान् येन विधिना विद्यानाथेन निर्दिष्टा साऽतीव तर्कसङ्गता प्रतीयते । यतो हि स्वभावोक्तौ भाविके च गूढार्थस्य न किञ्चिदपि प्रतीतिर्भवति, अपि तु लोकव्यवहाराश्रित एव स्वभावोक्तिरस्ति । भाविकालङ्कारे बलादतीतानागतं वस्तु प्रत्यक्षीक्रियते तथैव काव्यार्थविद्भिरपि तस्या एव बलात् भूताः भाविनश्च भावाः पदार्थाः, अप्रत्यक्षा अपि प्रत्यक्षा इव क्रियन्ते इदमेव भाविकम् । तद्यथा मम्मटेन -
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकम् ।' [५]
भाविकानामलङ्कारं द्विधा लक्षयति मम्मटभटेन । भूताः पूर्वकालिकाः, भाविनः, उत्तरकालिकाश्च भावाः पदार्थः ( वस्तूनि ) कविना यत् प्रत्यक्षा इव क्रियन्ते प्रत्यक्षतयाभिधीयन्ते, अलौकिकप्रत्यक्षविषया अपि लौकिकप्रत्यक्षविषयतयाभिधीयन्ते तत्प्रकारद्वयवत् भाविकाऽलङ्कार इति । अस्मिन् भाविकालङ्कारे आपाततः विरोध एव न तु गूढार्थस्य प्रतीतिः । अनेन प्रकारेण सम-पर्यायपरिवृत्तिप्रभृत्यन्यालङ्कारेऽपि तर्कयितुं शक्य इति ।
(६) रसवदादिवर्गः
[सम्पादयतु]रसवदादिवर्गे रसवत्-प्रेय-ऊर्जस्वि-समाहित-भावोदय-भावशान्ति-भावसन्धिभावशबलतादयः अलङ्काराः सन्ति नवेति विचारणीयविषयाः । अलङ्कारसम्प्रदायस्य भामह-दण्डिप्रभृतयः आचार्याः मुख्यरसस्थले रसवत्, मुख्यभावस्थले प्रेयः, दण्डिनः मतानुसारे अहङ्कारस्य प्रदर्शने ऊर्जस्वि, एवमुद्भटस्य मते रसाभासः अथवा भावाभासस्थले ऊर्जस्वि तथा भावशान्तिस्थले समाहित अलङ्काराः मन्यन्ते । ध्वनिसम्प्रदायस्यानन्दवर्धन -मम्मटादीनामाचार्याणां मतानुसारेण--
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥[६]
यत्र काव्ये स्वभिन्नत्वे वस्त्वलङ्काररसादिरूपे व्यङ्गचे प्रधाने सति रसादयो अचमत्कारितयाङ्गम् तस्मिन् काव्ये रमादिरर्थात् रसवत्, प्रेयः ऊर्जस्वि, समहितम्, भावोदयम्, भावशान्तिः, भावसन्धिः, भावशबलत्वम् अलङ्कारो "ति । यत्र रसभावादि ध्वन्यमानोऽस्ति तत्र रसादीनामङ्गित्वे स्वयमेवाभारत्वात् कुतोऽलङ्कारतेति । इत्थञ्च|
(१) रसस्याङ्गत्वे--रसवत् ।
(२) भावस्याङ्गत्वे-प्रेयः
(३) रसाभासस्य भावाभासस्य चाङ्गत्वे-ऊर्जस्वि
(४) भावशान्तेः–समाहितम् ।
(५) भावोदयस्याङ्गत्वे-भावोदयम् ।
(६) भावसन्धेरङ्गत्वे-भावसन्धिः
(७) भावशबलतायाः - भावशबलत्वम्, इत्यादिः ।
ध्वनिवादिनः मम्मटादीनां मते चालङ्कारोऽवधारणीयः ।