अश्मकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

अश्मकजनाः दक्षिणपथे आसन् । दक्षिणभारते गोदावरीनद्याः तीरे वसन्ति स्म ते बुद्धस्य अवधौ । विन्ध्यपर्वतस्य उत्तरभागे वसतां तेषं रजधनी आसीत् "पोटाना" अथवा "पोटाली"नगरम् । महाभरतस्य काले एतत् नगरं "पौण्डन्य" नाम्ना निर्दिश्यते स्म । पाणिना अपि अश्मकजनानाम् उल्लेखः कृतः अस्ति । मार्कण्डेयपुराणे बृहत्संहितायां च अश्मकजनाः उत्तरपश्चिमदिशि आसन् इति उक्तम् अस्ति । नदी गोदावरी मुलकारराज्यात् (अलाकाराज्यम्) अश्मकराज्यं पृथक्करोति स्म । तन्नाम अश्मकराज्यं गोदावरीनदीपर्यन्तं विस्तृतम् आसीत् । कौटिल्यस्य अर्थशास्त्रस्य भाष्यकाराणां मतानुसारम् अश्मकाः महाराष्ट्रराज्ये आसीत् । अश्मकराज्यस्य प्रभावः मध्यप्रदेशादपि अग्रे पृसृतः आसीत् । एतत् राज्यं दक्षिणपथात् उत्तरपथं प्रति गमनमार्गे आसीत् । मुलाकाराज्यस्य अवन्तीराज्यस्य च भागाः अश्मकराज्यान्तर्गताः आसन् । षोडषमहाजनपदेषु अन्यतममिदम् ।

"https://sa.wikipedia.org/w/index.php?title=अश्मकः&oldid=366149" इत्यस्माद् प्रतिप्राप्तम्