महाजनपदाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाजनपदाः

 

c. ६०० क्रैस्तपूर्वम्–c. 300 क्रैस्तपूर्वम्
Location of Mahājanapada
Map of the 16 Mahajanapada
राजधानी Not specified
भाषाः Sanskrit
धर्मः Vedic Hinduism
Buddhism
Jainism
शासनम् Republics
Monarchies
ऐतिहासिकयुगम् लोहयुगः
 - स्थापना c. ६०० क्रैस्तपूर्वम्
 - विस्थापनम् c. 300 क्रैस्तपूर्वम्

(क्रि पू ७००-३२०)

अयसः युगे भारते लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु वैदिकसाहित्येषु अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु मगध-कोसल-कुरु-गान्धारजनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां भाषा प्राकृतम् उच्चवर्गीयाणां विद्यावतां वा भाषा संस्कृतम् आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म ।

तत्त्वशस्त्रस्य प्रथमावस्था इत्याख्यानाम् उपनिषदां रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले बौद्ध-जैनधर्मौ अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः मध्यएषिया, पूर्वएषिया, टिबेट्, श्रीलङ्का, आग्नेयएषियापर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । पर्षिया-ग्रीसदेशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।

महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ;

एतेषु गन्धारः कम्भोजश्च उत्तरपते स्थितौ ।

"https://sa.wikipedia.org/w/index.php?title=महाजनपदाः&oldid=333665" इत्यस्माद् प्रतिप्राप्तम्