वज्जी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वैशालीनगरे विद्यमानः अशोकस्तम्भः

"वज्जाः" अथवा "विरजि" इत्याख्याः ८-९ वंशानां कश्चन समूहः । वज्जाः, लिच्चाविजनाः, विदेहानाः, ज्ञात्रिकाः च तेषु अन्यतमाः आसन् । तेषु वज्जाः प्रमुखाः आसन् । "मिथिला"नगरं (इदानीन्तनतिरहुत्जनपदस्य जनकपुरम्) विदेहस्य राजधानी आसीत् । एतत् नगरम् उत्तरभारतस्य सांस्कृतिक-राजकीयकार्यक्रमाणां केन्द्रम् आसीत् । राज्ञः जनकस्य काले विदेहराज्यम् अत्यन्तं प्रसिद्धं जातम् । विदेहस्य अन्तिमः राजा आसीत् "कलरा"नामकः । तस्य अनन्तरं लिच्चाविनाः, विदेहानाः अन्ये च लघुसमूहाः अस्तित्वं प्राप्नुवन् । महावीरस्य माता लिच्चाविजनानां महाराज्ञी आसीत् । "वैशाली"नगरं (इदानीन्तनस्य उत्तरबिहारस्य वैशालीजनपदस्य बसर्हानगरम्) लिच्चाविजनानां राजधानी आसीत् । तत् स्थानं तेषां मैत्रीकूटस्य प्रधानं राजकीयस्थानम् आसीत् । वैशालीनगरं गङ्गानदीतः २५ मैलयावत् उत्तरे, राजगृहतः ३८ मैलदूरे च आसीत् । तदानीन्तनकाले महताप्रमाणेन वर्धनं जातमासीत् अस्य नगरस्य । बौद्धमतस्य द्वितीया सभा अत्रैव प्राचलत् । लिच्चाविजनाः बौद्धमतस्य अनुयायिनः आसन् । भगवान् बुद्धः अपि बहुवारम् एतत् नगरम् आगतवान् आसीत् । मध्ययुगपर्यन्तं नेपाले शासनं कृतवद्भिः राजवंशीयैः सह मगधजनैः सह च एतेषां विवाहसम्बन्धः भवति स्म । इदानीं नेपालेशासनरतानां "शा"राजवंशेन सह तेषां कोपि सम्बन्धः नास्ति । लिच्चाविजनाः वृत्त्या क्षत्रियाः आसन् इति मनुस्मृतौ उल्लिखितम् अस्ति । वज्जस्य शक्तियुतं गणराज्यं, लिच्चाविजनानां राजधानी, प्रधानं राजकीयस्थानं च आसीत् यत् "वैशाली"नगरं कालान्तरे मगधस्य राजा अजातशत्रुः वशीकृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=वज्जी&oldid=366086" इत्यस्माद् प्रतिप्राप्तम्