सामग्री पर जाएँ

काम्भोजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

काम्भोजदेशः अपि उत्तरपथे विद्यते स्म । पुरातन-इतिहासेषु काम्भोजः गान्धार-दारद-बह्लिका-सम्बद्धः आसीत् इति उल्लिखितः अस्ति । "हिन्दुकुश"पर्वतस्य पार्श्वद्वये अपि विद्यमनाः प्रदेशाः काम्भोजान्तर्गताः आसन् इति उच्यते । मूलकाम्भोजदेशः पार्वदिशि विद्यमानस्य आक्सस्देशस्य प्रतिवेशिराज्यस्य बह्लिकान्तर्भूतः आसीत् । कालान्तरे काम्भोजाः हिन्दुकुशजनैः सह वैवाहिकसम्बन्धान् अकुरवन् । तस्मात् कारणात् अनन्तरकालस्य एते काम्भोजाः भारतीयेतिहासे दारादानाम् अथवा गान्धाराणां सम्बद्धाः इति उक्तम् अस्ति । एते विषयाः राज्ञः अशोकस्य राजशासने अपि उल्लिखिताः सन्ति । महाभारते तोलिमियभूगोलशास्त्रे च काम्भोजानां द्विविधस्थानं निर्दिष्टम् अस्ति । हिन्दुकुशप्रदेशः सुरेस्तानतः काश्मीरस्य नैरुत्यभागस्य राजपुरिपर्यन्तं विस्तृतः आसीत् । पार्श्वे विद्यमानयोः दारदगान्धरयोः मेलनेन काम्भोजः समुत्पन्नः । काम्भोजस्य राजधानी आसीत् काश्मीरस्य राजपुरम् (इदानीन्तर'राजोरी'नगरम्) । बौद्धसम्प्रदायेषु पुरातनकाम्भोजः हिन्दुकुशस्य एव भागः इति उल्लिखितम् अस्ति । पश्चिमे बह्लिकापर्यन्तम् उत्तरे लोहास तथा सोग्डियनफर्गस्य रिशिकासपर्यन्तं च विस्तृतः परमकाम्भोजः इति नियुक्तः आसीत् । पामिर् तथा बदक्षन्प्रदेशाः अपि हिन्दुकुशप्रदेशान्तर्गताः आसन् । हिन्दुकुशपर्वतस्य पश्चिमभागे विद्यमानः काम्भोजदेशः पूर्णतया इरानीयः आसीत् । हिन्दुकुशपर्वतस्य पूर्वभागे विद्यमानः काम्भोजदेशः भारतीयसंस्कृतेः प्राभावेण भारतीयः जातः । महाकाव्यकलादपि काम्भोजदेशः गणराज्यम् आसीत् । महाभारते काम्भोजानां बहूनां गणानाम् उल्लेखः अस्ति । कौटिल्यस्य अर्थशास्त्रे अपि काम्भोजाः गणतन्त्रम् अनुसरन्ति स्म इति लिखितम् अस्ति । राज्ञः अशोकस्य राजशासने (संख्या -XIII) अपि अस्य उल्लेखः अस्ति । बौद्धसिद्धान्तस्य पठ्यानामनुसारं महाजनपदेषु आरम्भस्य १४ महाजनपदाः मध्यभारते अन्तिमजनपदद्वयम् उत्तरपथे अथवा जम्बुद्वीपस्य उत्तरपश्चिमभागे च आसन् । पञ्चमे वा षष्ठे वा शतके आरब्धे सर्वश्रेष्ठतानुकरणे मगधदेशः पुरातनभारतस्य बहून् भागान् वशीकृत्य महाशक्तिरूपेण उद्भूतः । मगधस्य सार्वबौमः महापद्मनन्दः सर्वान् अपि क्षत्रियान् अनाशयत् इति ब्राह्मणपुराणे उल्लेखः दृश्यते । तदनन्तरं क्षत्रियपदेन निर्देष्टुं कोपि नासीदेव । कौटिल्यस्य चन्द्रगुप्तस्य उदयपर्यन्तं काम्भोजाः मगधस्य साक्षात् सम्पर्के नासीत् । सैरसस्य (५५८-५३०बिसीइ) शासनावसरे पर्षियायाः अकीमिसिड्-इत्यस्य बलिरभवत् काम्भोजदेशः ।

"https://sa.wikipedia.org/w/index.php?title=काम्भोजः&oldid=366167" इत्यस्माद् प्रतिप्राप्तम्