कोसलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

कोसलजनपदः अपि १६ महाजनपदेषु अन्यतमः । अयं कोसलजनपदः मगधदेशस्य (महाजनपदस्य) पश्चिमोत्तरभागे व्याप्तः आसीत् । श्रावस्तीनगरम् अस्य देशस्य राजधानी आसीत् । अयं जनपदः गोरखपुरस्य पश्चिमोत्तरदिशि ७०mileपर्यन्तम् आसीत् । इदानीन्तन-उत्तरप्रदेशस्य अवधप्रान्तः अपि कोसलजनपदान्तर्गतः आसीत् । उत्तरभागे हिमालयपर्यन्तं व्याप्तः आसीत् | पूर्वदिशि गण्डकीनदी दक्षिणे तु गङ्गानदी अस्य जनपदस्य सीमा आसीत् । अस्मिन् जनपदे राजा प्रसेनजित् तस्य पुत्रः विधुदाबः च शासनम् अकुरुताम् । तदा अधिकारार्थं मगधदेशस्य राज्ञा अजातशत्रुणा सह सर्वदा युद्धं प्रचलति स्म । कालान्तरे "लिच्चविस्"संयुक्तराज्यं मगधान्तर्गतम् अभवत् । तदनन्तरं राज्ञः विधुदाबस्य काले कोसलजनपदः अपि मगधान्तर्गतः जातः । अयोध्या, साकेतः, बनारस्, श्रावस्ती इत्येतानि कोसलजनपस्य प्रमुखाणि नगराणि आसन् ।

"https://sa.wikipedia.org/w/index.php?title=कोसलः&oldid=366067" इत्यस्माद् प्रतिप्राप्तम्