असत्यमप्रतिष्ठं ते...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
- अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]असत्यम् अप्रतिष्ठं ते जगदाहुः अनीश्वरम् अपरस्परसम्भूतं किम् अन्यत् कामहैतुकम् ॥ ८ ॥
अन्वयः
[सम्पादयतु]ते जगत् असत्यम् अप्रतिम् अनीश्वरम् आहुः । अपरस्परसम्भूतं कामहैतुकम् अन्यत् किम् इति आहुः ।
शब्दार्थः
[सम्पादयतु]- असत्यम् = सत्यभूतवेदादिहीनम्
- अप्रतिम् = अनाधारम्
- अनीश्वरम् = नियन्तृरहितम्
- आहुः = वर्णयन्ति
- अपरस्परसम्भूतम् = स्त्रीपुरुषमिथुनात् जातम्
- कामहैतुकम् = कामनिमित्तकम् ।
अर्थः
[सम्पादयतु]ते जनाः वदन्ति - अस्मिन् लोके सत्यार्थप्रतिपादकाः वेदपुराणादयः न प्रमाणानि । तारतम्ये स्वभावः एव कारणम्, न तु धर्माधर्मौ । लोकेऽस्मिन् न कोऽपि नियामकः अस्ति । स्त्रीपुरुषद्वन्द्वात् एव जगदिदं समुपन्नम् इति कामः एव जगतः उत्पत्तौ कारणम् । कारणान्तरं सर्वथा नास्ति ।