असम्बाधा
दिखावट
अक्षर | |
---|---|
असम्बाधा।
प्रतिचरणम् अक्षरसङ्ख्या 14
म्तौ न्सौ गावक्षग्रहविरतिरसम्बाधा। - केदारभट्टकृत- वृत्तरत्नाकर:३. ७६
ऽऽऽ ऽऽ। ।।। ।।ऽ ऽऽ
म त न स ग ग।
यति: पञ्चभि: नवभि:च।
उदाहरणम् -
धर्मग्लानिर्वापि च बलवदधर्मो वा,जातं चेत्पार्थ स्वयमहमपि जायेय। साधूनां त्राणाय च खलजननाशार्थं, धर्मं चापि स्थापयितुमसकृदेवात्र॥