अहं क्रतुरहं यज्ञः...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
- मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अहं क्रतुः अहं यज्ञः स्वधा अहम् अहम् औषधम् मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहं हुतम् ॥ १६ ॥
अन्वयः
[सम्पादयतु]अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् आज्यम्, अहम् अग्निः, अहमेव हुतम् ।
शब्दार्थः
[सम्पादयतु]- अहं क्रतुः = अहं वेदोक्तः यज्ञः
- अहं यज्ञः = अहं स्मार्तः यज्ञः
- अहं स्वधा = अहं पितृभ्यः प्रदेयमन्नम्
- अहम् औषधम् = अहं भेषजम्
- अहं मन्त्रः = अहं वेदमन्त्रः
- अहम् आज्यम् = अहं घृतम्
- अहम् अग्निः = अहम् अनलः
- अहमेव हुतम् = हवनकर्म अहमेव ।
अर्थः
[सम्पादयतु]अहं श्रौतयज्ञः, स्मार्तयज्ञः, पितृभ्यो देयं हविः, औषधम्, मन्त्रः, आज्यम्, हविश्चेति सर्वमपि अस्मि ।