अहङ्कारं बलं दर्पं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
- मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः माम् आत्मपरदेहेषु प्रद्विषन्तः अभ्यसूयकाः ॥
अन्वयः
[सम्पादयतु]आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ते दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते । अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः आत्मपरदेहेषु मां प्रद्विषन्तः अभ्यसूयकाः भवन्ति ।
शब्दार्थः
[सम्पादयतु]- आत्मसम्भाविताः = आत्मनैव पूज्यत्वं प्रापिताः
- स्तब्धाः = धृष्टाः
- धनमानमदान्विताः = वित्तमानगर्वसहिताः
- दम्भेन = आत्मनो धार्मिकतया ख्यापनेन
- अविधिपूर्वकम् = अशास्त्रीयम्
- नामयज्ञैः = नाममात्रेण यज्ञैः
- यजन्ते = देवान् पूजयन्ति
- संश्रिताः = अवलम्बितवन्तः
- आत्मपरदेहेषु = स्वकीयान्य - शरीरेषु
- प्रद्विषन्तः = खेदयन्तः
- अभ्यसूयकाः = असहमानाः ।
अर्थः
[सम्पादयतु]ते हि आत्मानं पूज्यत्वेन प्रचारयन्ति, अविनीताः भवन्ति, धनमानमदैः उपेताः भवन्ति, तादृशाः ते सोमयाजिप्रभृतिभिः शब्दैः आत्मनः व्यपदेशम् इच्छन्तः अश्रद्धया अशास्त्रीयक्रमेण च कथञ्चित् यागं कुर्वन्ति, तेषु अहङ्कारबलदर्पादयः निवासं कुर्वन्ति । एतादृशाः ते असूयापराः सर्वेषु शरीरेषु अन्तर्यामितया वर्तमानं मां खेदयन्ति ।