सामग्री पर जाएँ

आर्किमिडीस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आर्किमिडीस्
(ग्रीक्: Ἀρχιμήδης)
Archimedes Thoughtful by Fetti (1620)
जननम् क्रैस्तपूर्वः २८७ तमवर्षः
सैरकास्, सिसिली
मरणम् क्रैस्तपूर्वः २१२ (प्रायः ७५ वयः आसीत्)
सैरकास्
वासस्थानम् सैरकास्, सिसिली
कार्यक्षेत्राणि गणितशास्त्रम्, भौतशास्त्रम्, ज्योतिषशास्त्रम्
विषयेषु प्रसिद्धः आर्किमिडीस् प्रमाणम्, आर्किमिडीस्-वर्तनी, तरलसिद्धान्तः


आर्किमिडीस् (ग्रीक्भाषा: Ἀρχιμήδης) (क्रि पू २८७-२१२) कश्चन ग्रीक्देशीयः गणितज्ञः, भौतशास्त्रज्ञः, तन्त्रज्ञः, आविष्कर्ता, खगोलविज्ञानी च आसीत् । तस्य विषये ज्ञातम् अत्यल्पमेव चेदपि सः प्राचीनविज्ञानिषु प्रमुखः इति अभिज्ञातः अस्ति । भौतशास्त्रस्य प्रगतौ स्थायिजलशास्त्रम्(hydrostatics), स्थायिशास्त्रम् (statics), संज्ञादण्डस्य नियमाश्च अनेन प्रतिपादिताः । अनेन बहुविधानि यन्त्राणि निर्मितानि । तेषु आर्किमिडीस्-वर्तनी (Archimedes' screw) प्रसिद्धम् । अयं प्रायोगिकविज्ञानस्य जनकः इति कथ्यते । तेन कृतानि संशोधनानि यद्यपि अति प्रसिद्धानि तथापि तेन संशोधनस्य अपेक्षया गणितशास्त्रप्रगतेः कृते एव अधिकम् अवधानं दत्तम् । आर्किमिडीसः अपूर्वः गणितज्ञः ।
आर्किमिडीसः मग्नाग्रेसियाप्रदेशे सिराकुझानगरे सिसिलिद्वीपे क्रि पू २८७ तमे वर्षे जातः । अयं ७५ वर्षाणि अजीवत् । तस्य पिता फिडियास् कश्चन खगोलशास्त्रज्ञः आसीत् इति श्रूयते किन्तु नान्यदधिकं ज्ञायते । तस्य मित्रेण हेराक्लैड्सेन लिखितम् आर्किमिडीसस्य जीवनचरितं नष्टम् इत्यतः तस्य विषये अधिकं न किञ्चित् ज्ञायते । सः किं विवाहितः, पुत्रवान् इत्यपि न ज्ञायते । सः ईजिप्टस्य अलेक्साण्ड्रियायाम् अध्ययनं कृतवान् स्यात् । कोनोन् आफ् समोस् तस्य मित्रमिति उल्लिखितं दृश्यते ।
आर्किमिडीसः क्रि पू २१२ तमे वर्षे द्वितीयपुनिक्-युद्धावसरे मरणं प्राप्तवान् । वर्षद्वयात्मकस्य प्रतिबन्धस्य अनन्तरं तदा रोमन्सेनया सिराकुसानगरं वशीकृतम् आसीत् । प्लुटार्केण दत्तं विवरणम् एवमस्ति - नगरस्य वशीकरणावसरे आर्किमिडीसः कस्याश्चित् गणितीयसमस्यायाः परिहरणे मग्नः आसीत् । रोमन्सैनिकः कश्चन आगत्य आर्किमिडीसम् अवदत् - 'आगत्य जेनेरल् मर्सेलसेन मिलतु' इति । 'न शक्यते । मया इयं समस्या परिहरणीया' इति । क्रुद्धः सैनिकः खड्गेन आर्किमिडीसम् अमारयत् । इमां वार्तां ज्ञातवान् जेनेरल् मर्सेलसः नितरां क्रुद्धः यतः आर्किमिडीसः काचित् वैज्ञानिकसम्पत्तिः सः कथञ्चिदपि मारितः न स्यात् इति तेन पूर्वमेव आदिष्टम् आसीत् । तद्विषये लिखितम् अन्तिमवाक्यम् अस्ति - मम वृत्तं मा पीड्यताम् इति । वृत्तगणितसमस्यायाः परिहरणे मग्नं तं रोमन्सैनिकः अबाधयत् इत्यतः एवम् उल्लिखितमस्ति । इयम् उक्तिः लेटिन्भाषया एवमस्ति -"Noli turbare circulos meos" इति । आर्किमिडीसस्य मुखात् इदं वाक्यं श्रुतम् इति कुत्रापि उल्लेखः न लभते ।

संशोधनानि

[सम्पादयतु]
आर्किमिडीस्-सिद्धान्तम् उपयुज्य वस्तुनः घनफलस्य मापनम्

आर्किमिडीसस्य सिद्धान्तः

[सम्पादयतु]

नितरां प्रसिद्धिं गता आर्किमिडीस्-सम्बद्धा इयं कथा अनियमिताकारस्य वस्तुनः घनफलं कथं ज्ञातव्यम् इत्यस्मिन् विषये तेन कृतं संशोधनं विवृणोति । विट्रुवियसस्य कथनानुसारं - राजा हीरो २ - कस्मैश्चित् देवालयाय सुवर्णकिरीटमेकं कारितवान् आसीत् । तन्निमित्तं शुद्धं सुवर्णमेव उपयोक्तव्यमिति स्वर्णकारः सूचितः आसीत् । किन्तु कापट्येन तेन रजतं तस्मिन् योजितं किम् इति ज्ञातुम् इच्छति स्म राजा । इयं समस्या आर्किमिडीसेन परिहरणीया आसीत् किरीटस्य संस्करणं विना । अन्यथा तत् द्रावयित्वा तस्य नियतरूपं संसाध्य घनत्वं ज्ञातुम् अशक्ष्यत् । स्नानकरणावसरे तेन अवलोकितं यत् द्रोण्यां जलस्य स्तरः अवर्धत यदा तदीयं शरीरम् अन्तः गतम् । झटिति तेन बुद्धं यत् अयं परिणामः किरीटस्य घनफलस्य गणनाय उपयोक्तुं शक्यमिति । प्रायोगिकरूपेण जलं सङ्कोचयितुम् अशक्यम् । अतः मज्जितं किरीटं स्वस्य घनफलं यावत् स्यात् तावदेव जलं निष्कासयेत् । इदं घनफलं परिशुद्धस्वर्णात् निर्मितस्य अपेक्षया न्यूनं स्यात् यदि रजतं योजितम् । इदं संशोधितवान् आर्किमिडीसः अत्यन्तम् उद्विग्नः सन् विवस्त्रः सन् एव युरेका ! इति आक्रोशन् मार्गम् अधावत् । (ग्रीकभाषा: "εὕρηκα!," अर्थात् 'अहं ज्ञातवान्') । इयं परीक्षा अदर्शयत् यत् किरीटे रजतं योजितमस्ति इति । इयं कथा आर्किमिडीसस्य योगदानेषु न दृश्यते । अपि च अत्र उक्ता प्रक्रिया अप्रायोगिकी इति भाति यतः बहिः आगतस्य जलस्य सुष्ठु मापनं कष्टकरम् । स्थायिजलशास्त्रे प्लवमानस्य वस्तुनः विषये प्रसिद्धस्य आर्किमिडीससिद्धान्तस्य साहाय्यात् समस्यायाः परिहारं प्राप्तवान् स्यात् । अयं सिद्धान्तः कथयति यत् द्रवे मज्जितं वस्तु बहिः प्रेषितस्य द्रवस्य भारस्य समप्रमाणकं बलम् अनुभवति इति । सुवर्णघनस्य सुवर्णकिरीटस्य च भारस्य तोलनेन सत्यम् अवगतं स्यात् इति अभिप्रैति गेलिलियो ।

आर्किमिडीस्-वर्तनी

आर्किमिडीस्-वर्तनी

[सम्पादयतु]

तान्त्रिकक्षेत्रे आर्किमिडीसेन कृतस्य कार्यस्य महान् भागः स्वस्य मूलनगरस्य सिराकुझस्य आवश्यकतायाः निवारणाय कृतः आसीत् । ग्रीक्लेखकः अथीनस् लिखति यत् राजा हीरो २ महानौकायाः विन्यासनिर्माणाय आर्किमिडीसः सूचितः आसीत् इति । एवं निर्मिता महानौका सिराकुझिया महता कौशलेन निर्मिता आसीत् । अस्यां ६०० जनाः प्रयाणं कर्तुं शक्नुवन्ति स्म । तस्मिन् अफ्रोडिट्-देव्याः मन्दिरमपि आसीत् । उद्यानालङ्काराः व्यायामशाला च अस्याम् आसन् । एतादृश्याः महानौकायाः महतः प्रमाणस्य जलं स्रवति बहिर्द्वारात् इति जानन् सः आर्किमिडीश्-वर्तनीं निर्मितवान् जलविसर्जनाय । वर्तनी किञ्चन उपकरणं यत्र दण्डगोले भ्रममाणं वर्तन्याकारकं क्षुरपत्रं विद्यते । हस्तेन भ्रमितुं योग्यं वर्तते इदम् । अधः विद्यमानं जलम् कृषिनालासु वहनाय अस्य उपयोगः कर्तुं शक्यः । अद्यत्वे अपि अस्य उपयोगः बहुधा क्रियते । १८३९ तमे वर्षे समुद्रनौका कार्यरता या जाता तस्याः नाम आर्किमिडिस् इति दत्तं तस्य गौरवदर्शनाय ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=आर्किमिडीस्&oldid=479968" इत्यस्माद् प्रतिप्राप्तम्