आर्यसिद्धान्तः
आर्यसिद्धान्तः ज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। आर्यभटो हि ज्योतिषसिद्धान्तप्रणेतृषु पुरुषेषु प्रथमः । यद्यपि स बहुषु विषयेषु सूर्यसिद्धान्तसंवादी स्तौति ब्रह्म[१] तथापि तस्य बेधपरिपाटी तदुभयविलक्षणा । आर्यभटस्य आर्यभटीयं ज्योतिषग्रन्थेषु पौरुषेयेषु प्रथमम् । आर्यभट आत्मानं कुसुमपुरनिवासिनं ३९८ मितशकाब्दभवञ्च कथयति । कुसुमपुरं केचन पाटलीपुत्रमपरे तु दक्षिणप्रदेशस्थं किमपि तत्संज्ञक नगरं मन्यन्ते । अधिकांशविपश्चितस्तु तं मागधमेव मन्यते ।
आर्यभटौ हि द्वौ ख्यातावुभावेव गण कौ ययोराद्य आर्यभटीयस्य प्रणेता ३९८ शकाब्दे जातः, अपरस्तु महासिद्धान्तस्य कर्ता शकानन्तर ८७५ मितवर्षमभितो जातः । प्रकरणेऽस्मिन् यत्रापि आर्यसिद्धान्त इति व्यपदेशः स प्रथमार्यभटसम्बद्धो यश्च महासिद्धान्तनाम्ना व्यपदिश्यते स द्वितीयार्यभटसम्बद्धः । आर्यभटस्यार्यभटीयं चतुषु भागेषु विभक्तम्-गीतिकापादः गणितपादः कालक्रियापदः गोलपादश्चेति । स एवाह एथा -
‘प्रणिपत्यैकमनेक के सत्यां देवतां पलं ब्रह्म।
आर्यभटस्त्रीष्गिदति गणितं कालक्रियां गोलम् ।।' इति।[२]
सन्ति तत्र क्रमेण १३, ३३, २५, ५० श्लोका इति समष्टौ १२१ श्लोकाः । आर्यभटो हि लाघवार्थं वर्णसाहाय्येनाङ्कान्निदशति । ग्रन्थान्तरे १२३४५ कथने शरयुगाग्निलोचनेन्दवः इति कथ्यते ( व्यक्तमव्यक्तेन सुच्यते ) आर्यभटीये तु सैव सङ्ख्या घगखका इति । गणना च कः १ खः २"""मः २५, यः ३० रः ४० लः ५० वः ६० शः ७० षः ८० सः ९० हः १०० । एवमेव अः १. ( एककम् ) आः ( द्विकम् ) ॐ शतम् ईः सहस्रम् उः दशसहस्राणि ऋः लक्षम् ऋः दशलक्षाणि लुः कोटीः लुः दशकोटयः एः अयुतम् ऐः दशायुतानि ओः नियुतम् औः दशनियुतानि । तेन किः १०० खिः २०० ङिः ५०० शिः ७००० छुः २००० बुः २३००० इत्यादि ।
परिपाटयाऽनया घटे पारावारस्तु गृह्यते किन्तु सम्भवोऽपि तत्र महतोऽनर्थस्य । एकाक्षराशुद्धया सम्भवति महती अशुद्धिः । यथा घुरिति घस्य चतुर्वाचकत्वेव उकारस्य सहस्रवाचकत्वेन च ४००० सङ्ख्याबोधकः । धुरिति १९००० सङ्ख्याबोधकः । एवमेव पिरिति २१०० षिरिति ८००० । वर्णसाहाय्येन सङ्ख्यां बोधयित्वैव केवलं त्रयोदशार्यासु गीतिकापाद उक्तः । आद्ये ब्रह्मणो वै परस्य ब्रह्मणस्य च स्तुतिरूपं मङ्गलाचरणं ततः सङ्ख्याया अक्ष रैः सूचनविधिनिर्देशः तदनु सूर्यादीनां भगणसङ्ख्या निर्देशः । किञ्चार्यभटः पृथ्व्या अपि दैनिकी वार्षिकीञ्च गति मन्यतेऽतस्तेन तस्या अपि भगणा निदष्टाः युग. माश्रित्य ।[३] यथा हि भूभ्रमा १५८२२३७५०० वर्षमानञ्च ३६५॥१५॥३१॥१५॥० । बुधभगणाः १७९३७०२० गुरुभगणाः ३६४२२४ इति तत्र निदष्टाः शेषाश्च प्राचीनसूर्यसिद्धान्तसंवादिनः । तदनु तृतीयार्यया कल्पादित आरभ्य युगकालगणना निर्दिष्टा । तदनु राश्यंशकलासम्बन्धः आकाशकक्षाया विस्तारः पृथ्वीसूर्यचन्द्रादीनां गतिः अङ्गुलहस्तपुरुषयोजनसम्बन्धः पृथिव्याः व्यासः सूर्यादिग्रहाणां बिम्बव्यासपरिमाणं ग्रहाणां क्रान्तयो विक्षेपाश्च तेषां पाता मन्दोच्चस्थानानि च तेषां मन्दशीघ्रपरिधिपरिमाणं ज्याखण्डमानञ्च तत्र क्रमेण निर्दिष्टानि । द्वितीये गणितपाठे सन्ति त्रयस्त्रिशच्छ्लोका यत्र अङ्कबीजरेखागणितानां क्रमेण विधयो निर्दिष्टाः । तृतीयो हि कालक्रियापादकालविभागताधारितज्योतिषसम्बद्धगणना पञ्चविंशतिश्लोकैनदिष्टा । तस्यायमादिमः श्लोकः -
‘वर्ष द्वादशमासास्त्रिशद्दिवसो भवेत्स मासस्तु ।
षष्टिर्नाड्यो दिवस: षष्टिस्तु विनाडिका नाडी' ।।[४]
ग्रहावस्थितियथा -
"भानामधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः ।
तेषामधश्च भूमिधीभूता त्वमध्यस्था' ॥[५]
मण्डलमल्पमधस्ताकालेनाल्पेन पूरयतिचन्द्रः । अल्पे हि मण्डलेऽल्पा महतिमहान्तश्च राशयो ज्ञेयाः ।।
गोलपादे सन्ति पञ्चाशच्छ्लोकाः । तस्यायमादिमः श्लोकः -
मेषादेः कन्यान्तं सममुदगपमण्डलार्धमपयातम् ।
तौल्यादेर्मीनान्तं शेषाधं दक्षिणेनैव ॥[६]
तदनु-
‘ताराग्रहेन्दुपाता भ्रमन्त्यजस्रमपमण्डलेऽर्कश्च ।
अकच्चि मण्डला भ्रमति हि तस्मिन् क्षितिच्छाया' ॥[७]
आर्यभटगणिता युगपद्धतिग्रन्थान्तरापेक्षया भिन्नैव । तदनुसारेण द्वासप्ततियुगैरेक मन्वन्तरं भवति । तन्मते सर्वेऽपि युगपादाः समाना एव । बुधवासरस्य सूर्योदयान्महायुगारम्भः प्रवर्तत । तत आरभ्य वर्तमानकलियुगारम्भ पर्यन्तं १९८६१२०००० वर्षाणि गतान्यभूवन् । कल्पारम्भे गुरुवासर आपतति कलियुगारम्भे शुक्रवारश्च । सिद्धान्तान्तरानुसारं तु कल्पारम्भतः वर्तमानकलियुगप्रारम्भपर्यन्तं व्यतीतानि १९७२९४४० ०० वर्षाणि । आर्यभटस्य सिद्धान्तमियं ब्रह्मगुप्तः खण्डयति कथनेनानेन -
‘न समा युगमनुकल्पा कल्पादिगतं कृतादि यातञ्च ।
स्मृत्युक्तैरार्यभटो जातो जानाति मध्यगतिम् ॥' इति ।।
आर्यभटानुसारेण कल्पारम्भे प्रत्येकमहायुगारम्भे प्रत्येकयुगपादारम्भे च सर्वेऽपि ग्रहा एकत्रीसन्नाः । आर्यभटो हि भूम्या अपि गतिं मन्यते । तेन स भूभ्रमानपि गणयति । स कथयति-
'अनुलोयगतिनीस्थः पश्यत्यचलं विलोमनं यद्वत् । .
अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् । इति ।
सा च भूः प्राणेनेति । पलस्य षष्ठांशेः कलयैकया चलतीति । सिद्धान्तमिमं । पयलोच्य ब्रह्मगुप्तः कथयति -
‘प्राणेनेति कलां भूर्यपि तह कुतो व्रजेत्कमध्वानम् ।
आवर्तनमुव्र्याश्चेन्न पतन्ति समुच्छ्रयाः कस्मात् । नक्षत्रादिगतिविषये तत्सिद्धान्तो यथा -
‘उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः ।
लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ॥
एवमेव ग्रहगतिर्यथा-
षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहाः भपरिणाहम् ।
दिव्येन नभः परिधि समं भ्रमन्तः स्वकक्षासु ॥ [८]
आर्यसिद्धान्तो हि नैव ग्रन्थान्तरवदधिकारेषु विभक्तः किन्तु त्रिष्वेव प्रकरणेषु बहवो विषयाः सङ्क्षेपणोक्ताः । सिद्धान्तोऽयं सक्षिप्तोऽपि नैव तथा दुर्बोध्यः । अत्र हि नैव चन्द्रशृङ्गोन्नतिर्भग्रह युति योगताराभोगशराः अयनांशाश्च विवेचिता ये हि ग्रन्थान्तरे प्राधान्येन गृह्यन्ते । तेन हि सिद्धान्तोऽयं ज्योतिषस्य सिद्धान्तपक्षमात्रसम्बद्धो न तु व्यवहारेणाऽपि । न चात्र तिथिनक्षत्रकरणाद्यानयनविधिरत्रोक्तः । शक्करबालकृष्णः परामृशति यदेतादृशविषया आर्यभटस्य नैव ज्ञानविषया इति न । तेन हि तेनापरः कश्चित्करणग्रन्थोऽपि प्रणीतो भवति एतादृशं विषयमवलम्ब्येति । स हि -
'उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे ।
मध्याह्नो यवकोट्यां रोमकविषयेऽर्धरात्रः स्यात् ।।[९]
इति तु कथयति किन्तु दिनप्रवृत्तिः कदाऽऽरभ्य भवतीति नैव तत्रोक्तं किन्तु वराहमिहिरो हि आर्यभटेन लार्द्धरात्रितो दिनप्रवृत्तिः कथितेति स्मरति । तदवश्यमेव क्वचिदुक्तं भवति । तेनाऽपि तस्य हि करणग्रन्थस्य सम्भवसङ्गतिर्दृश्यते । यथोक्तं तेन स्वयमेव -
'क्षितिरवियोगाद् दिनकृद्रवीन्दुयोगात्प्रसाधितश्चन्द्रः ।
शशिताराग्रहयोगात्तथैव ताराग्रहाः सर्वे ।
सदसज्ज्ञानसमुद्रात्समुद्धृतं देवताप्रसादेन ।
सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिना वा ।' इति ।
ब्रह्मगुप्तो ह्यार्यभटस्य पर्यालोचकः । तदुन्नीताः कतिपये दोषास्तु यथार्था. अपि किन्तु तत्राधिक्येन तं प्रति समालोचकस्य दुराग्रह एव दृश्यते यदा स कथयति -
'आर्यभटदूषणानां सङ्ख्या वक्तुं न शक्यते यस्मात् ।
तस्मादयमुद्देश्यो बुद्धिमताऽन्यानि योज्यानि ॥'[१०]
तत्र दूषणान्यपि कतिपयान्यासभेवेति लल्लकृतात् तदुपरि बीजसंस्कारादपि सिध्यति । अथात्र कानिचिदेव ब्रह्मगुप्तसङ्केतितानि आर्यभटदूषणान्युपस्थाप्यन्ते ।
‘युगपादानार्यभटश्चत्वारि समानि कृतयुगादीनि ।
यदभिहितवान्न तेषां स्मृत्युक्तसमानमेकमपि ॥' [११]
'अकृतार्यभटः शीघ्रगमिन्दुच्चं पातमल्पगं स्वगतेः ।
तिथ्यन्तग्रहणानां घुणाक्षरं तस्य संवादः ॥'[१२]
'मध्यगतिज्ञं वीक्ष्य श्रीषेणार्यभटविष्णुचन्द्रजाः ।
सदसि न भवन्त्यभिमुखाः सिंहं दृष्ट्वा यथा हरिणः ॥'[१३]
अर्कोदयास्तमययोविना चारार्द्धन रात्रिदिनदलयोः ।
न स्फुटमार्यभटोक्तं स्पष्टीकरणं स्फुटोक्तिरतः ॥'[१४]
'मेषादितः प्रवृत्ती नार्यभटस्य स्फुटा युगस्याद ।
भीषणस्य कुंजाद्या सूर्याचविष्णुचन्द्रस्य ।
दूरभ्रष्टा स्पष्टाः श्रीषेणार्यभटविष्णुचन्द्रेषु ।
अस्माकुजादयस्तेषु न विदुषामादरस्तस्मात् ॥'[१५]
'न स्फुटमार्यभटादिष्टार्कग्रहणं ••• ••• ••• •••।[१६]
'पूर्ववदन्यस्पष्टं ब्रह्मोक्तिसूर्यस्पष्टशशिपातैः ।
नार्यभटादिभिरुक्तं•••••••••••••••••••••••••••••••।[१७]
आर्यभटः क्षेत्रांशैश्यान्यदुक्तवांस्तदसत् ।'[१८]
‘कृत्वाऽपि दृष्टिकर्म श्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।।
प्रतिदिनमुदयेऽस्ते वा न भवन्ति दृग्गणितयोरैक्यम् ॥'[१९]
‘आर्यभटो युगपादान् त्रीन् पातानाह कलियुगादौ यत् ।।
तस्य कृतान्तर्यस्मात् स्वयुगाद्यन्तौ न तस्मात् ॥'[२०]
इत्थं हि यान्यप्यार्यभटदूषणत्वेन ब्रह्मगुप्तवचनानि तेषां सङ्ग्रहे कृते ग्रन्थान्तरमेव सम्पद्यते । दूषणनियतोऽपि ब्रह्मगुप्त एतत्तु तथ्यं स्वीकरोति यत्कतिपये दोषास्तु कालान्तरितत्वेनापि सम्भवन्तीति ।
‘कालान्तरेण दोषा येऽन्यैः प्रोक्ता न ते मयाऽभिहिताः ।
करणप्रकाशः[२१] दामोदरस्य भटतुल्यश्चास्य करणग्रन्थी । मूलसूर्यसिद्धान्तेन सहार्यसिद्धान्तस्य प्रायः साम्यं दृश्यते वर्तमानसूर्यसिद्धान्तेन सह वैषम्यञ्च ।