लल्लाचार्यसिद्धान्तः
लल्लाचार्यसिद्धान्तः ज्योतिषशास्त्रस्य सिद्धान्तः वर्तते। धीवृद्धिदतन्त्रेदमवधेयं यन्मध्यमस्थितिस्पष्टस्थित्योर्यदन्तरं ग्रहस्य तत् फलसंस्कारशब्देनोच्यते यच्च ग्रहस्य सिद्धान्तागतवेधागतस्थित्योरन्तरे सति तत्संयोजनाय संस्कारः क्रियते तद्धि बीजसंस्कारशब्देनाभिधीयते । ग्रहस्य स्थिति त्रिविधा भवति-- मध्यमस्थितिः, स्पष्टस्थितियथार्थस्थितिश्च । आद्याः सिद्धान्तानुयायिनी, द्वितीया करणानुयायिनी तृतीया तु वेधानुयायिनी। लल्लो हि भटदीपिकाकारपरमादीश्वरमतानुसारेण आर्यभटस्य शिष्यः समानवयस्कश्चासीत् । किन्तु तस्यैव हि स्वप्रणीतगणिताध्यायसमाप्तौ-
•••••••आर्यभटाभिधानसिद्धान्ततुल्यफलमेतदकारितन्त्रम् ।
इति कथनात् तदध्यायारम्भे -
‘विज्ञाय शास्त्रमलमार्यभटप्रणीत
तन्त्राणि यद्यपि कृतानि तदीयशिष्यैः ।
कर्मक्रमो न खलु सम्यगुदीरितस्तैः
कमें ब्रवीम्यहमतः क्रमशस्तु सूक्तम् ।।
इति कथनेन च तस्यार्यभटशिष्यत्वं तु नैव सिध्यति । एवञ्च यदि हि स आर्यभटशिष्योऽभविष्यत्तदा आर्यभटस्य–'प्राणेनेति सा च भूः' इति भूभ्रमसिद्धान्तस्य विरोधे-
‘यदि वा भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः
इति नाकथयिष्यत् । यद्यपि न हि तत्र कापि राजाज्ञा यच्छिष्यो हि गुरुमतं कदापि नैव दूषयेदिति । ‘दोषा वाच्या गुरोरपि' इति शास्त्रवचनमपि दृश्यते तथापि न तथा दूषणं सम्भवति प्रत्यक्षतः । अपरञ्च लल्लं बहुधा स्मरन् यत्र तत्र तं दूषयंश्च भास्कराचार्यों न हि कुत्रापि तमार्यभटशिष्यत्वेन जानाति । यच्च लल्लो बीजसंस्कारप्रसङ्ग शकाब्देषु ४२० सङ्ख्याया वियोगं निदिशति तत्तु ब्रह्मसिद्धान्ते कलियुगारम्भतो बीजसंस्कार इव मानमात्रबोधकं न तु तत्स्थितिकालसूचकमपि । वस्तुतस्तु रेवतीयोगतारायाः ३५९ भोगांशी लल्लेनोक्तास्तेन तु ६०० मितशकाब्दसमकालः सूच्यते । अपरञ्च लल्लो हि ब्रह्मगुप्तं ब्रह्मगुप्तश्च तं न जानीत इत्युभयोः समकालिकत्वं सिध्यति इति शङ्करबालकृष्णमतमपि वयं सविनयं नैवाद्रियामहे । यतो हि लल्लो यदार्यभटमाने बीजसंस्कार मर्पयति तत्कालान्तरभिन्नत्वे सत्येव सम्भवति । तच्च ब्रह्मगुप्तः ‘कालान्तरेण दोषा येन्यैः प्रोक्ता न ते मयाऽभिहिता' इति स्पष्टमेव सङ्केतयति । नाऽत्रापि राजाज्ञा यदार्यभटदूषणाय प्रवृत्तो ब्रह्मगुप्तो लल्लमपि तथैव दूषयेदेव । तस्य त्वाचार्यत्वेनार्यभटेन सह प्रतिस्पर्धा सम्भवति यथा न तथा लल्लेनापि भवत्येव ।
तेन हि लल्लाचार्यों ब्रह्मगुप्तात्पूर्ववत्येवेत्यस्माकं विचारः । काम लल्ल आर्यभटशिष्यो वाऽन्यो वाऽपि स्यात्तस्य ज्योतिषसिद्धान्ते योगदानं त्वविस्मरणीयमेव । तस्य हि शिष्यधीवृद्धिदतन्त्रं हि स्वप्रकृतिकेष्वपूर्वो ग्रन्थः । शङ्करबालकृष्णस्त्विमं धीवृद्धितन्त्रमित्येवाह्वयति । धीवृद्धिदस्य गणिताध्याये मध्यमस्पष्टत्रिप्रश्नचन्द्रार्कग्रहणपर्वसम्भवग्रहोदयास्तचन्द्रच्छायांतच्छृङ्गोन्नतिग्रहयुतिभग्रहयुति - महापातोत्तराद्यधिकारी यथायथं विवेचिताः सन्ति । गोलाध्याये च छेद्यकगोलबन्धमध्यगतिवासनाभूगोलग्रहभ्रमसंस्थाभुवनकोशमिथ्याज्ञानयन्त्रप्रश्नाध्यायाः निरूपिताः सन्ति । ग्रन्थनिर्माणप्रयोजनं तेनोक्तं यथा-
'आचार्याऽऽर्यभटोदितं सुविषम व्योमौकसां कर्मय
यच्छिष्याणामभिधीयते तदधुना लल्लेन श्रीवृद्धिदम् ॥' इति ।
लल्लोऽपि तीक्ष्णमतिर्वेधकर्ताऽऽसीत् । यथा स दृष्टवान् यदार्य सिद्धान्तेन तादात्यप्रक्रिया नैव संवदते तदा तेन तत्र बीजसंस्कारोऽपितः । स न हि ब्रह्मगुप्त इव आर्य सिद्धान्तालोचकोऽपितु तस्य संस्कारक एव । स हि उत्तराधिकारे आर्यसिद्धान्तानीतग्रहेषु इत्थं बीजसंस्कारमर्पयति -
'शाके नखाब्धि( ४२० )रहिते शशिनोऽक्षदसैः ( २५ ) तत्तुङ्गतः कृतशिवैः ( ११४ ) तमसः षडङकैः ( ९६ ) ।
शैलाब्धिभिः (४७) सुरगुरोर्गणिते सितोच्चात् शोध्यं त्रिपञ्चकु ( १५३ ) हतेऽभ्रशराक्षि ( २५० ) भक्ते ।। १८ ॥
••••••••••••••(इ) भाम्बुधि(४८)हते क्षितिनन्दनस्य : सूर्यात्मजस्य गुणितेऽम्बरलोचनै( २० )श्च ।
व्योमाक्षिवेदनिहते विदधीत लब्धं शीतांशसूनुचलतुङ्गकलासु वृद्धिम् ॥ १९ ॥ इति । •••••••••••••••••••“ग्रहकर्म••••••••••••••••••“दृक्प्र भावात् •••••••••••••' ।। २० ।। इति ।
धीवृद्धिदतन्त्रे हि भगणादिमानं सर्वमेव आर्यभटमानसंवादि केवलं तदबीजसंस्काराहितमेव । अयनचलनविषये लल्लसिद्धान्तमपि मौनमालम्बते । आर्यसिद्धान्तोक्तग्रहेषु लल्लोक्तबीजसंस्काराधानपूर्वकं करणप्रकाशभटतुल्यप्रभृति करणग्रन्थाः प्रणीताः । लल्लेन हि रत्नकोषनाम्ना संहिताग्रन्थोऽपि प्रणीत आसीद यमधारीकृत्य श्रीपतिना ९६१ शकाब्दे रत्नमाला प्रणीता।
सिद्धान्तशिरोमणिकृद्भास्कराचार्योऽयनांशचलनज्ञानं हि मुञ्जाल( ८५४ शा० )प्रवर्ततं मन्यते 'अयनचलनं यदुक्तं मुञ्जालाचैः स एवायम्' ( गोलबन्धी० १८) इत्युक्त्वा । वस्तुतस्तु सर्वालोचकोऽपि ब्रह्मगुप्तोऽप्ययनांशस्पष्टक्रान्त्यादीनां चर्चामपि नैव करोति । तेन मुजालस्य ( ८५४ शा० ) अयनांशज्ञानप्रवर्तकत्वं सिद्धत्येव । लल्लाचार्योऽपि काममार्यभटसिद्धग्रहे बीजसंस्कारमर्पयति किन्तु स्वयमयनचलनविषये मौनमालम्बते ।