आशापाशशतैर्बद्धाः...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
- ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]आशापाशशतैः बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ॥
अन्वयः
[सम्पादयतु]अपरिमेयां प्रलयान्तां चिन्तां च उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ईहन्ते ।
शब्दार्थः
[सम्पादयतु]- अपरिमेयाम् = परिमातुमशक्याम्
- प्रलयान्ताम् = मरणान्ताम्
- उपाश्रिताः = अवलम्बिताः
- कामोप - भोगपरमाः = विषयानुभवपरमपुरुषार्थाः
- एतावत् = इयत्
- निश्चिताः = कृतनिर्णयाः
- आशापाशशतैः = स्पृहारज्जुशतैः
- कामक्रोधपरायणाः = रागद्वेषासक्ताः
- कामभोगार्थम् = विषयानुभवार्थम्
- अन्यायेन = अधर्मेण
- अर्थसञ्चयान् = वस्तुसमुदायान्
- ईहन्ते = वाञ्छन्ति ।
अर्थः
[सम्पादयतु]तेषां विचारः तादृशो भवति यः अपरिमितः भवति यस्य च फलं भवति अन्ततः मरणम् । तेषां मतेन विषयोपभोगरूपः कामः एव प्रधानः पुरुषार्थः । कामजन्यसुखात् अतिरिक्तं सुखं ते नाङ्गीकुर्वन्ति । नानाविधैः आशापाशैः बद्धाः ते कामक्रोधादिना सहिताः विषयभोगार्थम् अधर्म्येण मार्गेण धनसङ्ग्रहं कर्तुमिच्छन्ति ।