आहारस्त्वपि सर्वस्य...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
- यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः यज्ञः तपः तथा दानं तेषां भेदम् इमं शृणु ॥
अन्वयः
[सम्पादयतु]आहारः तु अपि सर्वस्य त्रिविधः प्रियः भवति तथा यज्ञः तपः दानम् । तेषाम् इमं भेदं शृणु ।
शब्दार्थः
[सम्पादयतु]- प्रियः = इष्टः
- भेदम् = विभागम्
- शृणु = आकर्णय ।
अर्थः
[सम्पादयतु]सर्वेषां यत् प्रियं भोज्यं तदपि त्रिप्रकारकं भवति, तथा यागः तपः वितरणं च त्रिविधं भवति । तेषाम् इमं विभागं शृणु ।