आहुस्त्वामृषयः सर्वे...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
- असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोदशः (१३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा असितः देवलः व्यासः स्वयं च एव ब्रवीषि मे ॥ १३ ॥
अन्वयः
[सम्पादयतु]भवान् परं ब्रह्म, परं धाम, परमं पवित्रम् । देवर्षिः नारदः असितः देवलः व्यासः इति सर्वे ऋषयः त्वां शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः । तथा स्वयं च एव मे ब्रवीषि ।
शब्दार्थः
[सम्पादयतु]- भवान् = त्वम्
- परम् = उत्तमम्\
- ब्रह्म = ब्रह्म
- परम् = उत्कृष्टम्
- धाम = स्थानम्
- परमम् = श्रेम्
- पवित्रम् = पावनम्
- इति देवर्षिः नारदः = सुरर्षिः नारदः
- असितः = असितनामकः ऋषिः
- देवलः = देवल-नामकः ऋषिः
- व्यासः = बादरायणः
- सर्वे ऋषयः = सकलाः ऋषयः
- त्वाम् = त्वाम्
- शाश्वतम् = सनातनम्
- दिव्यम् = दिवि भवम्
- पुरुषम् = पुरुषोत्तमम्
- आदिदेवम् = मूलदैवम्
- अजम् = जन्मरहितम्
- विभुम् = व्यापकम्
- आहुः = वदन्ति
- तथा = तेन प्रकारेण
- स्वयं च एव = त्वमपि
- मे = मह्यम्
- ब्रवीषि = वदसि ।
अर्थः
[सम्पादयतु]भवान् उत्तमं ब्रह्म, उत्कृष्टं स्थानम्, परमं पवित्रं च अस्ति । देवर्षिः नारदः, असितः, देवलः, बादरायणः इत्यादयः सर्वेऽपि ऋषयः त्वं सनातनः दिव्यश्च पुरुषः, त्वम् आदिदेवः, त्वं जन्मरहितः, विभुः’ इति वदन्ति यदेतत् त्वम् अपि मां वदसि ।