इक्केरि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

इक्केरि शिवमोग्ग मण्डलस्य सागर उपमण्डले अस्ति। एतत् स्थलं सागर नगरात् ६ किलो मीटर् दूरे सह्याद्रि श्रेण्याः सुन्दरपरिसरे अस्ति।

स्थानिकनिवेशः: 14º 08' द रे. 75º 5' पू रे 

अत्रत्यः '"अघोरेश्वर देवालयः" सुप्रसिद्धः वर्तते। एतस्य देवालयस्य वामपार्श्वे अखिलाण्डेश्वरी देव्याः आलयः अपि अस्ति।

इतिहासः[सम्पादयतु]

इक्केरि १६, १७तमयोः शतमानयोः केलदि नायकानां वैभवान्विता राजधानी भूत्वा विरराज। इदानींतनी एषा पळ्ळी १५६० तः १६३९पर्यन्तं केलदी नायकानां राजधानी आसीत्| वीरभद्रनायकस्य शासनकाले (१६३९) इक्केरी विजयनगरराजानां अधीनतायाः मुक्त्वा स्वतन्त्रं संस्थानम् अभवत्| अनन्तरं केलदी संस्थानस्य एते नायकाः स्वराजधानीं इक्केरीतः बिदनूरु प्रति स्थानान्तरं अकुर्वन्| तथापि इक्केरी केलदी नायकानां राज्धानी इति चिरकालं यावत् गौरवं प्राप्नोत्| इक्केरीतः टंकशाला स्थानान्तरितः अपि "'इक्केरि पगोडा'", '"इक्केरि पण'" इत्यादयः प्रचलिताः आसन्।

इक्केरि नगरं परितः विशालस्य दुर्गभित्तेः त्रयः आवरणाः आसन्। दुर्गस्य मध्ये राजप्रासादः भव्याः सौधाश्च आसन्। गतवैभस्य चिन्हमिव इदानीं अघोरेश्वरस्य देवालयः केवलं अवशिष्टः। एतस्य देवालयस्य स्तम्बद्वयस्य अन्तरं पूगवाटिकस्य प्रमाण्बद्धं मानमिति वदन्ति स्म। एतस्य मानस्य '"दायम्'" इति वदन्ति स्म।

अघोरेश्वरदेवस्थानः[सम्पादयतु]

अघोरेश्वरदेवस्थानः

अघोरेश्वरदेवस्थानः होय्सळ-कदम्ब शैल्याम् अस्ति। केलदि नायकानाम् अवधौ एतस्य निर्माणं '"होम्बुजद वेंकटय्य'" इति शिल्पकारः अकरोत् इति अस्मिन् देवालये एव स्थिते शिलालेखे हळेगन्नड लिप्यां लिखितम् अस्ति। उत्तर-दक्षिण दिशि स्थिते अस्मिन् देवालये गर्भगृहं, अर्धमण्डपःं, मुखमण्डपः च अस्ति। अपि च पुरतः नन्दि विग्रहस्य प्रत्येकः मण्डपः अस्ति। गर्भगृहे शिलायाः शिवलिंगः अस्ति। अस्मिन् देवालये अघोरेश्वरस्य ३२ हस्तयुक्तः उत्सवमूर्तिः अस्ति। अर्धमण्डपे अमृतशिलया निर्मितः ह्रस्वः नन्दि विग्रहः अस्ति। अर्धमण्डपस्य पार्श्वद्वये अघोरेश्वरस्य परिवारस्य चित्रणमस्ति। वामभागे महिषमर्दिनी भैरवस्य च चित्रे स्तः। दक्षिणे गणपति, षण्मुखस्य च विग्रहौ स्तः। पुरतः मुखमण्डपः चित्रितानां शिलास्तम्भानाम् आधारे स्थितः। एत्स्मिन् देवालये द्राविड शैल्याः कलशः शृंगो वा वर्तते। देवालयस्य पश्चिमस्यां दिशि अस्यामेव शैल्यां किन्तु ह्रस्वस्वरूपः अखिलाण्डेश्वरी देव्याः देवालयः अस्ति। अघोरेश्वर देवालयस्यास्य पुरतः कृष्णशिलया निर्मितः बृहद्गात्रः नन्दि विग्रहः वर्तते। उपविष्टस्य वृषभस्याकारस्य विग्रहस्यास्य पाददेशे लघुबालानां गमनप्रमाणं स्थलं वर्तते। अत्र गच्छति चेत् इष्टार्थप्राप्तिः भवति इति प्रतीतिरस्ति। अस्य देवालयस्य बहिरावरणः हरिद्वर्णया तृणशय्यया अतीव शोभते।

किंवदन्ती[सम्पादयतु]

इक्केरि देवालयस्य भित्तौ चित्रितं पल्लीद्वयम्।
  • अस्मिन् देवालये पल्लीद्वयस्य वृश्चिकस्य च चित्रं भित्तौ चित्रितमस्ति। पल्लीद्वयस्य मध्ये एका रेखा चित्रिता। एते पल्ल्यौ यदा परस्परं संलग्ने भविष्यतः  तदा प्रलयः भविष्यति। परन्तु तत्रत्यः वृश्चिकः पल्लीद्वयस्य संलग्नं निरोधयति इति किंवदन्ती वरीवर्ति। [१]
  • देवस्थानस्य पार्श्वद्वये अपि तटाकद्वयमस्ति। अनेनैव अस्य ग्रामस्य इक्केरि इति नाम ख्यातमिति ऊहां कुर्वन्ति। यतः कन्नडभाषायां तटाकाद्वयस्य "इक्केरे" इति वदन्ति। 

ಇವನ್ನೂ ನೋಡಿ[सम्पादयतु]

  • इक्केरि वास्तुशिल्पः
  • इक्केरि चरित्रम्
  • इक्केरि वरहम्

चित्रसम्पुटम्[सम्पादयतु]

ಉಲ್ಲೇಖಗಳು[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इक्केरि&oldid=431707" इत्यस्माद् पुनः प्राप्तिः