इतिहासे सामाजिकप्रज्ञा
ancient historic times, mahabharatha | |
---|---|
भगवतो व्यासस्य इतिहासपुराणे विद्यावतां द्वे चक्षुषी इव संरक्ष्ये पाठ्ये च । यदिदानीमस्मिन् देशे सर्वानपि समदृष्ट्या अवलोकनीयं, समेषां प्राणिनां जीवनावश्यकं सर्वैः प्रकल्प्यमिति श्रूयते सर्वमिदं सामाजिकदर्शनम् प्राक्तने इतिहासग्रन्थे महाभारते दरीदृश्यते । नास्माभिः कार्लमार्क्स् लेनिन् महोदयस्य तत्वोपदेशेन सामाजिकविज्ञानं सम्पादनीयम् । सर्वमपीदं प्रसङ्गसङ्गत्या महाभारतादौ अध्येतुं शक्यते । अत्रैकं निदर्शनम् – धनिनः, अन्येषां कर्मकर्तृणां साहाय्येन अदत्वैव तेषां यथायोग्यवेतनादिकं श्रीमन्तः भवन्ति प्रवर्धन्ते च क्रमेण । यथा यथा धनिनो भवन्ति तथा तथा स्वाश्रितान् वेतनग्राहिणः शोषयन्ति । अयं च विषयः सार्वकालिक एव । अस्य च निरासप्रयत्नः तत्तत्कालीनैः महात्मभिः कृत एव । महाभारते सभापर्वणि युधिष्ठिरं प्रति नारदेन कृतः उपदेशः अस्मिन्विषये सार्वकालिकः सर्वोच्चश्च मनननीयः विचारप्रवाहः । स्वाश्रितानां वेतनं भक्त्ं च (Bonus) यथाकाले राज्ञा श्रीमता वा प्रदातव्यमेव । न कदाचित् धनिना धनवृध्दिकामनावता कदाचिदपि स्वाश्रितनिर्धनजनशोषणं कार्यम् । यदि राज्ञा धनिना वा अयं प्रमादः क्रियते तर्हि तदीयं राज्यं कोशादिकं सर्वमपि विनश्यत्येव । यदि केऽपि अस्मदाश्रिताः कर्मयोग्यवेतनमलभमानाः रुदन्ति कुप्यन्ति च तदा नूनमपि तद्यजमानस्य हानिकारकं दुखप्रदं च भवतीति न कदापि विस्मर्तव्यम् । तथा हि नारदवचांसि –
- कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
- सम्प्राप्तकाल दातव्यं ददासि न विकर्षसि ॥
- कालातिक्रमणाद् ह्येते भक्तवेतनयोर्भृताः ।
- भर्तुः कुप्यन्ति दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः ॥ इति ।
- म. भा. सभापर्व, अ -५ श्लो-३८-३९ निर्णयसागर मुद्रणालयः ।
नारदोपदेशानुसारेण युधिष्ठिरेण स्वीयराज्ये सर्वेषां वेतनग्राहिणाम् अनुकूलकराः उपायाः प्रागेव स्वीकृताः विशेषतश्च अनुष्ठिताश्चेति महाभारताध्ययनेन विज्ञायते । एकविंशतिशतमाने वर्तमानैरस्माभिः किमेते नियमाः शासनबध्दाः कृताः अनुष्ठिता वा इति विमर्शे मौनमेव भवति प्रत्युत्तरम् ।
करपद्धतिः
[सम्पादयतु]महाभारते शान्तिपर्वणि करस्वीकारविषये अस्ति महती उपदेशसन्ततिः । करविधानसमये राज्ञा पदार्थानाम् उत्पत्तिं तद्विक्रयेण आगम्यमानं लाभं च संवीक्ष्य अल्प एव करः विधेयः । अन्यथा कृषीवलाः अन्ये देशविदेशीयाः देशविदेशीयपदार्थविनिमयैक वृत्तयः देशमिमं परित्यजेयुः । यदि कृषीवलानाम् आनुकूल्यमस्मिन् राष्ट्रे नैव प्रकल्प्यते । तर्हि देशे सुभिक्षा कल्पनातीतैव भवति । जातस्य वत्सस्य पयः पानार्थं सम्यगव्यवस्था कल्प्या । यदि पिपासोः वत्सस्य धेन्वा क्रोशन्त्या दूरत अपसार्य तस्याः क्षीरम् उपभुज्यते तर्हि दुर्बलः वत्सः न पीडां सहते । भवेत् च अपगतप्राणः क्रमेण । तस्मात् यथा वत्सस्य बलवृध्द्यर्थम् अपेक्षितं क्षीरं प्रदातव्यमेव तथैव च कृषीवलानां धनिनां च अस्मिन्नेव देशे स्थिरनिवासार्थं करोऽप्यल्प एव् विधेयः । यथा भ्रमराः पुष्पगतं रसं पिबन्ति, जलौकसः जलं पिबन्ति, तथैव नराधिपः मृदुनैव पध्दत्या करं स्वीकुर्यात् । यदि करः उद्वेगदायको भवेत् तर्हि नूनमपि वणिजः देशमिमं परित्यज्य अन्यत्र गच्छेयुः । तेन च महती हानिः राष्ट्रस्थानां भवतीति न विस्मर्तव्यम् । तदुक्तं महाभारते –
- उच्चावचकरा दाप्या महाराज्ञा युधिष्ठिरः ।
- यथा यथा न सीदेरन् तथा कुर्यान्महीपतिः ॥
- फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् ॥ शान्तिपर्व, अ-८७, श्लो-१६
- भृतो वत्सो जातबलः पीडां सहति भारत ।
- न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर ॥ शान्तिपर्व, अ-८७, श्लो-२१
- मधुदोहं दुहेद् राष्ट्रं भ्रमरा इव पादपम् ।
- जलौकवत् पिबेत् राष्ट्रं मृदुनैव नराधिपः ।
- व्याघ्रीव च हरेत् पुत्रान् सन्दशेन्न च पीडयेत् ।
- ततो भूयस्ततोभूयः क्रमवृध्दिं समाचरेत् ॥ शान्तिपर्व, अ-८८, श्लो. ४-७
- कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः ।
- क्रीणन्तो बहुनाल्पेन कान्तारकृतविभ्रमाः ॥ शान्तिपर्व, अ-८९,श्लो -२३
महाभारते यादृशी करव्यवस्था प्राचीकशत् न तादृशी इदानीमपि सर्वत्र समस्ति । दृश्यन्ते हि राज्यराष्ट्रनेतारः नटाः गणिकाश्च वणिजश्च करमदत्वैव विगतह्रियः उन्नतस्थाने राराजन्तो दृश्यन्ते । परन्तु महाभारतकाले सर्वैरपि करः देय आसीत् अल्पश्च । न कोऽपि आसीत् राष्ट्रभञ्जको भक्षको वा । अपि तु आसीत् राष्ट्रप्रियः भक्तश्च । इयं च सामाजिकीदृष्टिः महाभारते सर्वत्र सर्वदा अशोभतेति इति ह आस । अद्य तु इतिहासस्य भवेद्वा पुनरावृत्तिरिति विमर्शन्तु सुधियः