इब्राहिं रोजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ताजमहल
Skyline of ताजमहल

इब्राहिम् रोजा (Ibrahim Roja) कर्णाटकस्य बिजापुरे विद्यमानं कश्चन सुन्दरः स्मारकः । पूर्वं बीजापुरं दक्खनप्रान्तस्य राजधानी आसीत् । तत्र अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः । इब्राहिम्-२ महोदयेन स्वस्य मरणस्मारकार्थं निर्मितं वास्तुशिल्पम् अस्ति इब्राहिम् रोजा । कृष्णशिलाभिः निर्मितं कृष्णताजमहल् इति नाम्ना च ख्यातमस्ति एतत् ।

क्रिस्ताब्दे १६२६ तमे वर्षे अयं स्मारकः निर्मितः । इस्लामिक् शैल्या निर्मितम् अस्ति । अत्र रचनाद्वयम् अस्ति । एकम् मस्जिद् (प्रार्थनामन्दिरम्) द्वितीयं स्मारकम् । एतादृशः परिपूर्णः रचनाविन्यासः देशे वा इतिहासे वा अन्यत्र द्रष्टुं न शक्यम् । यदि एतत् भवनम् अमृतशिलया निर्मितं स्यात् तर्हि ताजमहलम् अतिशेते स्म ।

वास्तुरचनाद्वम् अपि ३६० पादमितदीर्घतायुक्तं १५० पादमितविस्तारयुक्तं च । भवनानि अर्धगोलाच्छादकानि सुन्दराणि सन्ति । वक्रभित्तीनां पाङ्क्तिः सर्वत्र स्तम्भागोपुराणि च सन्ति । अन्तर्भागे भित्तिषु इस्लामिक् शैल्या कुरान् ग्रन्थः लिखितः अस्ति । मल्लिकरोण्डाल् एतत् वास्तुशिल्पं निर्मितवान् ।

इदं भवनं दृष्ट्वा हेन्री कसिन्स् अवदत् यत् ‘उत्तरभारते यथा ताजमहल् अस्ति तथा दक्षिणभारते इब्राहिम रोजा अस्ति’ इति । फर्ग्यूसन् अवदत् - ‘स्वर्गोऽपि एतदृष्ट्वा द्वितीयः स्वर्गः उत्तिष्ठन् अस्ति इति आश्चर्यचकितः अभवत्’ इति ।

बिजापुरनगरे गोळगुम्बज् इति एकं स्थलमपि अतीव सुन्दरम् अस्ति । द्वितीयः इब्राहिम् आदिलशाह महोदयस्य स्मारकस्थलमेतत् । १८३३७ चतुरस्रपादस्थले निर्मिते शिल्पे १७८ पादोन्नतं गोलाच्छादकं (गुम्मट) अस्ति । भित्तयः १० पादपरिमिताः सन्ति । उपरि गन्तुम् अधः आगन्तुं मार्गद्वयम् अस्ति । सुन्दरम् उद्यानम् परितः अस्ति । अत्र शिल्पे एकदा उक्तम् वचनम् स्प्तवारम् पृतिध्वनति । स्तम्भाः अत्र न सन्ति । बहुदूरतः एव महाशिल्पस्य अस्य दर्शनम् साध्यम् अस्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

गदग-सोल्लापुरमार्गे बिजापूरनिस्थानमस्ति ।

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरुतः धूमशकटसम्पर्कः लोकयानसम्पर्काः च सन्ति । कर्णाटके सर्वनगरतः लोकयानानि सन्ति । बिजापुरनगरे वसतिव्यवस्था कर्तुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=इब्राहिं_रोजा&oldid=392524" इत्यस्माद् प्रतिप्राप्तम्