इलाबेन भट्ट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
इला भट्ट
इला भट्ट
इला भट्ट


इला भट्ट (गुजराती: ઇલા ભટ્ટ, आङ्ग्ल: Ila Bhatt ) इतीयम् अहमदाबाद-नगरे निवसति स्म । अहमदाबाद-नगरं भारतस्य मान्चेस्टर् इति जनाः अकथयन्त । सम्पूर्णे नगरे वस्त्रयन्त्रागारस्य धूमनाल्यः चलन्ति स्म । श्रमिकैः सह महिलाः अपि श्रमं कुर्वन्ति स्म । ताः महिलाः श्रमं कुर्वन्नपि अनेकाः समस्याः अनुभवन्ति स्म । ताः आरक्षकाः पीडयन्ति स्म, गृहे पतिः पीडयति स्म, कार्यक्षेत्रे परिश्रमस्य वेतनं न ददाति स्म अर्थात् व्यापारिणः अपि पीडयन्ति स्म । एतादृश्यां परिस्थितौ ताः कस्य साहाय्यं प्राप्नोत् इति प्रश्नः आसीत् । अन्ते ताभिः सहायता प्राप्ता । सा च सहायता इला भट्ट इत्यस्याः आसीत् ।

जन्म परिवारश्च[सम्पादयतु]

इला भट्ट इत्यस्याः जन्म १९३३ तमस्य वर्षस्य सितम्बर-मासस्य ७ तमे दिनाङ्के अभवत् । तस्याः पितुः नाम सुमतराय भट्ट इति आसीत् । मातुः नाम वनवीला भट्ट इति आसीत् । एतौ अधिवक्तुः कार्यं कुरुतः स्म ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

इलाभट्ट इत्यस्याः जन्मभूमिः, कर्मभूमि च अहमदाबाद-नगरम् आसीत् । सा बाल्यकालात् एव सामाजिकानि कार्याणि कर्तुम् इच्छति स्म । पठने अपि तस्याः तदेव लक्ष्यम् आसीत् । तस्याः प्राथमिकं शिक्षणं सुरत-नगरस्य सार्वजनिक गर्ल्स् हाइ स्कूल् इत्यत्र अभवत् । ततः परं सा सुरत-नगरस्य एम्.टी.बी महाविद्यालयात् स्नातकस्य पदवीं प्राप्तवती । तदनन्तरं सा अहमदाबाद-नदरस्य एल्.ए.साह लो महाविद्यालयात् एल्.एल्.बी कृतवती । १९५४ तमे वर्षे सा लो इति पदवीं प्राप्तवती, हिन्हु लो इत्योपरि कार्यं कृत्वा सुवर्णपदकं च प्राप्तवती ।

विवाहः[सम्पादयतु]

पठनान्ते सा मुम्बई-नगरस्य (SNDT) श्रीमती नाथीबाई दामोदर ठाकरे महिला विश्वविद्यालये आङ्ग्लं पाठयितुम् आरभत । इलाभट्ट स्वस्याः स्नातकाभ्यासकाले रमेशभट्ट इति नामकम् अभयं छात्रनेतारम् अमिलत् । १९९१ तमे वर्षे भारतस्य प्रथमायां जनगणनायां बस्ति(roller area) इति स्थसे स्थितानां जनानां गणनार्थं इला भट्ट इत्येतां रमेशः स्वेन सह आगन्तुं न्यवेदयत् । इला भट्ट तेन सह गतवती । इत्थम् उभयोः परिचयः प्रगाढः अभवत् । कालान्तरे सः परिचयः प्रेम्णि परिवर्तितः । अन्ते पित्रोः विरोधे सत्यपि १९५६ तमे वर्षे सा रमेशेन सह विवाहम् अकरोत् ।

कार्यारम्भः[सम्पादयतु]

१९९५ तमे वर्षे सा अहमदाबाद-नगरस्य टेक्सटाइल् लेबर् एसोसिएश् (TLA) इत्यस्य सर्वकारमान्ये विभागे सम्मिलिता अभवत् । टी.एल्.ए संस्थायां कार्यारम्भं कृत्वा तेल अवीव इत्यत्र एफ्रो एशीयाई-संस्थान इति स्थले श्रमिकानां विषये, तेषां साहाय्यकसमितीनां च विषये अध्ययनं कृतवती । तत्र तया अरविंद बुच् इत्यनेन सह महिलानां संगठनस्य विषये चर्चा कृता ।

सेवा संस्थायाः आरम्भः[सम्पादयतु]

भारत श्रमिकानाम् आन्दोलने (मज़दूर संघ) इत्यस्योपरि साम्प्रतं पुरुषाणां प्रभावः अस्ति । किन्तु भारते अस्य स्थापना अनसुयाबेन साराभाई इत्यनया कृता । ततः परं १९६८ तमे वर्षे इला भट्ट इत्यनया तत् कार्यं स्वीकृतम् । कार्यस्य स्वीकारं कृत्वा इला भट्ट मज़दूर संघ इत्यस्मिन् कार्यरता अभवत् । अतः तस्याः श्रमिकाभिः महिलाभिः अत्यधिकं सम्पर्कः भवति स्म । यदा सा श्रमिकानां महिलानां दशां दृष्टवती, तदा स्त्रीणां संगठनार्थं विचारितवती । यदा सः विचारः तस्याः मनमि भ्रमन् आसीत्, तदैव श्रमिकाः महिलाः अस्माकं मण्डलं भवितुं शक्यम् इति तस्यै अपृच्छत् । तत् श्रुत्वा इला भट्ट इत्यनया १९७२ तमस्य वर्षस्य अप्रैल-मासस्य १२ तमे दिनाङ्के एकस्याः संस्थायाः स्थापना कृता । सा च संस्था सेवा इति नाम्ना प्रसिद्धा अभवत् । तस्या संस्थायाः सम्पूर्णं नाम (Self Employed women’s Assosiation) इति अस्ति ।

सेवा संस्थायाः कार्याणि[सम्पादयतु]

सेवा संस्थायाः माध्यमेन इला भट्ट श्रमिकमहिलासु जागरुकताम् आनीतवती । शनैः शनैः तया श्रमिकानां महिलानां संगठनं कृतम् । साम्प्रतम् इयं संस्था वटवृक्षमिव अभवत् । संस्थया सह लक्षद्वयाधिकाः जनाः कार्यरताः सन्ति । स्वाश्रयी महिला सेवा संघ (sewa) इति नामिका संस्था साम्प्रतं अनेकाः मण्डळी चालयति सेवा सहकारी बैंक् इति कोशसेवाम् (bank) अपि चालयति ।

सेवा सहकारी बैंक् साहाय्यम्[सम्पादयतु]

यदि एका महिला स्वस्याः व्यापारार्थं धनं इच्छति, तर्हि धनदाः जनाः तान् लुण्ठन्ति स्म । तासां सुवर्णादिकं गृह्णन्ति स्म । किन्तु सेवा सहकारी बैंक् इत्यस्याः प्रारम्भः अभवत् । अतः महिलाः स्वस्याः नैजं व्यापारं स्थापयितुं, स्वस्य बालकं पाठयितुं, स्वस्याः प्रसृती समये च लोन् इति प्राप्नोति स्म ।

वैशिष्ट्यम्[सम्पादयतु]

इला भट्ट प्रत्येकाय कार्याय समर्पिता आसीत् । जगति धनं, शिक्षणं च मानवेन स्वतः एव विकासितं इति इला भट्ट मन्यते स्म । वयं सेवार्थम् अवतीर्ताः इति अपि सा मन्यते स्म । एतत् स्वस्याः कृते एव करोति इति विचारयती सा साम्प्रतम् अपि जनसेवायां रता अस्ति । सेवा संस्थायाः विकासः सा स्वयं कृतवती किन्तु विकासस्य श्रेयः श्रमिकाभ्यः महिलाभ्यः दत्तवती । साम्प्रतं जनानां साहाय्यं कर्तुं कोऽपि रुचिः न दर्शयति किन्तु इयं स्वस्याः एव विचारं न कृत्वा समाजार्थम् अपि योदगानं दत्तवती ।

पुरस्काराः[सम्पादयतु]

श्रमिकानां महिलानां सेवाम् अकरोत् । अतः इला भट्ट इत्यस्याः बहुसन्मानम् अभवत् । १. अन्ताराष्ट्रस्य स्तरस्य प्रतिष्ठितः “ रेमोन् मेग्सेसे ” पुरस्कारः । २. लाइट् लाइवलीहूड् पुरस्कारः । ३. विमेन् इन् क्रिएशन् पुरस्कारः । ४. पद्मश्री पुरस्कारः । ५. पद्मभूषण पुरस्कारः । ६. गुर्जररत्न पुरस्कारः । ७. विश्वगुर्जरी पुरस्कारः

ध काउन्सिल् ओफ् एल्डर्स्[सम्पादयतु]

सेवा इति संस्थायां कार्यं कृतवत्याः इला भट्ट इत्यस्याः कार्यं बहुभिः विश्वविद्यालयैः अपि दृष्टम् । देशस्य, विदेशस्य च मिलित्वा नव (९) विश्वविद्यालयैः तस्यै पी.एच्.डी इति मानद् पदवी प्रदत्ता । नेल्सन् मण्डेला इत्यनेन विश्वस्य अराजकीयव्यक्तीनां एका समिती रचिता । तत्र इला भट्ट इत्यस्याः अपि समावेशः कृतः ।

गान्धी विचारधारा[सम्पादयतु]

इला भट्ट महात्मनः विचारधाराम् अनुसरन् खादी इति वस्त्रस्य शाटिकां धरती, सरलं च जीवनं जीवती स्म । साम्प्रतं सा ७५ वर्षस्य वयसि सत्यपि महिलानां प्रश्नेषु सक्रिया अस्ति ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इलाबेन_भट्ट&oldid=422860" इत्यस्माद् पुनः प्राप्तिः