उपजातिच्छन्दः
Jump to navigation
Jump to search
लक्षणम्[सम्पादयतु]
- अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः।
- इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम।।
इदानीमेव उक्ते ये द्वे लक्षणे वर्तेते ताभ्यां लक्षणाभ्यां युक्तौ यदीयौ पादौ भवतः तदा उपजातिर्ज्ञेया। तथैव अन्यासु मिश्रितासु अपि इदमेव नाम वदन्ति अर्थात् उपजातिः भवतीति आचार्याः वदन्ति|
उदाहरणम्[सम्पादयतु]
- कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
- सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि।।
अर्थः[सम्पादयतु]
कर्पूरम् इव गौरवर्णयुतम्, करुणायाः अवतारस्वरूपं, जगतः तत्वभूतं भुजगेन्द्रहारं, हृदयरूपे अरविन्दे नित्यवसन्तं भवानीसहितं भवं शिवं नमामि।