उल्लेखालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उल्लेखालङ्कारः (काव्यम्) इत्यस्मात् पुनर्निर्दिष्टम्)



बहुभिर्बहुधोल्लेखात् एकस्योल्लेख इष्यते ।
स्त्रीभिः कामार्थिभिः स्वर्द्रुः कामः शत्रुभिरैक्षि सः ॥

अर्थः[सम्पादयतु]

यत्र नानाविधधर्मयोग्यमेकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेन अनेकेन गृहीत्रानेकधा उल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं यथार्हप्रयोजकम् । रुचिः अभिरतिः । अर्थित्वं लिप्सा । स्त्रीभिः इत्युदाहरणम् । अत्रैक एव राजा सौन्दर्यवितरणपराक्रमशाली इति कृत्वा स्त्रीभिः अर्थिभिः प्रत्यर्थिभिः च रुच्यर्थित्वभयैः कामकल्पतरुकालरूपः दृष्टः । यथा वा-

गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
यथास्थितिश्च बालाभिः दृष्टः शौरिः सकौतुकम् ।

अत्र यः तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः । यस्तथा चञ्चलत्वेन प्रसिद्धा याः श्रियः अपि कामोपचारवैदग्ध्येन नित्यं वल्लभः सोऽयं दिव्ययुवा इति युवतिसमूहैः सोत्कण्ठैः दृष्टः । बालाभिः तु तद्वाह्यगतरूपवेशालङ्कारदर्शनमात्रलालसाभिः यथास्थितवेषादियुक्तः दृष्टः इति बहुधोल्लेखः । पूर्वः कामत्वाद्यारोपः रूपकसङ्कीर्णः । अयं तु शुद्ध इति भेदः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उल्लेखालङ्कारः&oldid=419058" इत्यस्माद् प्रतिप्राप्तम्