उळवी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उळवी

ಉಳವಿ
ग्रामः
चेन्नबसवेश्वरदेवालयः
चेन्नबसवेश्वरदेवालयः
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
मण्डलम् उत्तरकन्नडमण्डलम्
उपमण्डलम् जोइड
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
581187

उळवी (Ulavi) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले स्थितः ग्रामः । द्वादशशतके शिवशरणानां क्रान्तेः अनन्तरं चेन्नबसवण्णेन सह शरणाः उळवी प्रदेशे वने वासं कृतवन्तः । शरणानां नाम्ना अत्र अनेकाः गुहाः सन्ति । अक्कनागम्मा, मडिवाळमाचय्यः, किन्नरिबोमय्यः इत्यादीनां शरणानां स्मारकस्थानानि अत्र सन्ति । अस्य महामने इति कथयन्ति । "मने" इत्युक्ते कन्नडभाषायां गृहम् इत्यर्थः । महतां मने=गृहम् महामने महागृहम् इत्यर्थः । चेन्नबसवण्णस्य स्मारकमपि अस्ति । इदं क्षेत्रम् उत्तरकन्नडमण्डले प्रख्यातं प्रवासिधाम । उळविक्षेत्रात् अनतिदूरे काळीनदी प्रवहति । कोडसळ्ळि जलाशयः, विद्युदुत्पादनकेन्द्रमपि द्र्ष्टुं शक्यते । शिवरात्रेः पूर्वस्यां पूर्णिमायाम् अत्र चेन्नबसवण्णयात्रामहोत्सवः भवति । प्रकृतिसौन्दर्यस्य अत्र विशेषानुभवः भवति।

मार्गः[सम्पादयतु]

जोयडातः ३६ कि.मी
दाण्डेलीनगरतः ५६ कि.मी
यल्लापुरतः ३२ कि.मी
कारवारतः ९० कि.मी.
"https://sa.wikipedia.org/w/index.php?title=उळवी&oldid=424719" इत्यस्माद् प्रतिप्राप्तम्