उसैन् बोल्ट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उसैन् बोल्ट्(Usain Bolt) बहुसुप्रसिद्धः लघुधावनक्रीडकः वर्तते ।

उसैन् बोल्ट्/Usain Bolt
व्यक्तिगतविवरणम्
उपनाम Lightning Bolt
राष्ट्रियता Jamaican
जन्म (१९८६-२-२) २१ १९८६ (आयुः ३७)
Sherwood Content, Trelawny, Jamaica[१]
वासस्थानम् Kingston, Jamaica
औन्नत्यम् १.९५ m (६ ft 5 in)[२]
भारः 94 किग्रा (207 पाउन्ड)[२]
क्रीडा
क्रीडा Track and field
वृत्तविधाः Sprints
समावयः Racers Track Club
उपलब्धयः शीर्षिकाः च
वैयक्तिकोत्तमम्

100 m: 9.58 WR (Berlin 2009)[३]
150 m: 14.35 WB (Manchester 2009)[४]
200 m: 19.19 WR (Berlin 2009)[५]
300 m: 30.97 (Ostrava 2010)

400 m: 45.28 (Kingston 2007)

एषः वर्तमानकाले अत्युत्तमधावनक्रीडालुः वर्तते । १०० मी तथा २०० मी लघुधावनक्रीडाद्वये उसैन् बोल्ट् जगत्यां प्रथमः स्वर्णपदकविजेता वर्तते । लैट्निङ्ग् बोल्ट् इति अस्य उपनाम भवति ।

प्रारम्भिकजीवनम्[सम्पादयतु]

उसैन् बोल्ट्-वर्यः १९८६ तमे वर्षे आगस्ट्-मासस्य २१ दिनाङ्के जमैकादेशस्य ट्रेलव्नी(Trelawny) प्रदेशे जन्मप्राप्तवान् । तस्य पिता वेलेस्ले, माता जेनिफर् बोल्ट् स्तः । तस्य अनुजः साडकि तथा अनुजा शेरिन् च स्तः । तस्य मातापितॄणाम् एकम् आपणम् आसीत् । तदानीम् उसैन् बोल्ट्-वर्यः पादकन्दुकक्रीडा, क्रिकेट् क्रीडां क्रीडतिस्म । सः वल्डेन्सिया प्राथमिकशालायां शिक्षणाभ्यासम् आरम्भं कृतवान् । तत्र सः क्रीडायाः विषये विद्यमानम् उत्साहं प्रदर्शितवान् । तस्य १२ वर्षस्य वयसि सः विद्यालयस्य १००मी धावनक्रीडायाम् अत्युत्तमधावकः अभवत् ।
उसैन् बोल्ट्‌-वर्यः माध्यमिकशिक्षणार्थं विलियं निब् मेमोरियल्(William Knibb Memorial) विद्यालयं प्रविष्टवान् । तत्र सः अन्यक्रीडासु मनसः केन्द्रीकरणं कृतवान् । सः क्रिकेट् क्रीडा क्रीडनसमये तस्य विद्यालयस्य मार्गनिर्देशकः अस्य धावनस्य गतिं दृष्टवान् । मार्गनिर्देशकः एनं धावनादि क्रीडायां मनसः एकत्रीकरणार्थं प्रचोदितवान् । पाब्लो मेक्नील्(Pablo McNeil) तथा ड्वेन् जरेट्(Dwayne Jarrett) द्वौ अस्य अत्लेटिक्स् क्रीडार्थं मार्गदर्शनं दत्तवन्तौ । मैकल् ग्रीन्(Michael Green) इत्यादि अत्लेटिक् क्रीडापटवः अस्य विद्यालये अभ्यासं कृतवन् आसीत् ।

वृत्तिविषयकम् अत्लेटिक् चरितम्[सम्पादयतु]

२०१३[सम्पादयतु]

  • १०२३ तमे वर्षे लन्डन् वार्षिकक्रीडोत्सवे इटलीदेशे रोम्-नगरे १००मी धावनस्पर्धायां ९.८५ क्षणेषु जयं प्राप्तवान् । ४*१००मी रिले जमैका देशार्थं जितवान् ।
  • २०१३ तमे वर्षे आगस्ट् ११ दिनाङ्के विश्वविजेतॄणां क्रीडोत्सवे बोल्ट्-वर्यः प्रपञ्चस्य अत्युत्तम धावकः इति चरितं रचितवान् । तस्यामेव क्रीडायां २००मी तथा ४*१००मी धावनस्पर्धायां च स्वर्णपदकं प्राप्तवान् ।

वय्यक्तिकजीवनम्[सम्पादयतु]

  • उसैन् बोल्ट्-वर्यः नर्तनं बहु इच्छति ।
स्पर्धायाः पूर्वं क्रिस्तो स्मरणम्
  • केथोलिक् न्यूस् एजेंसी पत्रिकानुसारं बोल्ट् केथोलिक् पन्थीयः वर्तते । अस्य मध्यमनाम सैण्ट् लियो(Saint Leo) । सः स्पर्धायां भागग्रहणात् पूर्वं क्रोस्(cross) इति क्रिस्तोः चिन्हं स्मरणं करोति ।
  • २०१० तमे वर्षे सङ्गीतस्य प्रति तस्य अनुरागः वर्तते इति दर्शितवान् । सः पेरिस् नगरे रेगे डीजे(reggae DJ) सङ्गीतवादनं कृतवान् ।
  • सः प्रारम्भतः क्रिकेट्-क्रीडाम् इच्छति स्म । यदि सः लघुधावकः न भवति स्म, तर्हि सः वेगकन्दुकक्षेपकः भवति स्म इति सः भावं प्रकटितवान् आसीत् ।
  • सः बाल्यादारभ्य पाकिस्तानदेशस्यक्रिकेट्-दलस्य तथा वाकर् यूनिस् कन्दुकक्षेपकस्य च अभिमानी वर्तते । सः भारतस्य क्रिकेट् क्रीडकः सचिनतेण्डुलकरस्य, वेस्ट् इण्डिस्प्रदेशस्य क्रिस् गेल्वर्यस्य तथा आस्ट्रेलियादेशस्य माथिव् हेडन्वर्यस्य च अभिमानी वर्तते ।
  • २०११ तमे वर्षे लन्डन्-नगरेयु इ एफ् ए(UEFA)चाम्पियन्स् लीग् अन्तिमक्रीडायां माञ्चेस्टर् युनैटेड्संस्थायाः अथितिरूपेण बोल्ट्-वर्यः आगतः आसीत् ।
  • २०१३ तमे वर्षे एन् बि ए आल् स्टार् वीकेण्ड् सेलेब्रिटी क्रीडायां बास्केट्बाल्-क्रीडां क्रीडीतवान् ।

टिप्पणी[सम्पादयतु]

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उसैन्_बोल्ट्&oldid=406434" इत्यस्माद् प्रतिप्राप्तम्