सामग्री पर जाएँ

ऊर्ध्वं गच्छन्ति सत्त्वस्था...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

ऊर्ध्वं गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः ॥ १८ ॥

अन्वयः

[सम्पादयतु]

सत्त्वस्थाः ऊर्ध्वं गच्छन्ति । राजसाः मध्ये तिष्ठन्ति । जघन्यगुणवृत्तिस्थाः तामसाः अधः गच्छन्ति ।

शब्दार्थः

[सम्पादयतु]
सत्त्वस्थाः = सात्त्विकाः
ऊर्ध्वम् = ऊर्ध्वलोकम्
राजसाः = रजोगुणप्रधानाः
मध्ये = मनुष्यलोके
जघन्यगुणवृत्तिस्थाः = नीचगुणप्रवृत्तिसंस्थिताः
तामसाः = तमोगुणप्रधानाः
अधः = नीचलोकम् ।

सात्त्विकाः ऊर्ध्वलोकं प्राप्नुवन्ति । राजसाः मध्ये मनुष्यलोके तिष्ठन्ति । नीचगुणप्रवृत्तौ वर्तमानाः तु तमोगुणप्रधानाः नीचलोकं यान्ति ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]