सामग्री पर जाएँ

एतान्यपि तु कर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षष्टः(६) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

एतानि अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानि इति मे पार्थ निश्चितं मतम् उत्तमम् ॥

अन्वयः

[सम्पादयतु]

पार्थ ! एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति निश्चितं मे उत्तमं मतम् ।

शब्दार्थः

[सम्पादयतु]
सङ्गम् = आसक्तिम्
फलानि = प्रयोजनानि
कर्तव्यानि = आचरणीयानि
निश्चितम् = निर्णीतम्
मतम् = अभीष्टम् ।

अर्जुन ! एतानि कर्माणि अहमेव करोमि’ इति बुद्धिं विना, फलापेक्षां च विना कर्तव्यानि इति यत् निर्णीयते तदेव मम परमं मतम् इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=एतान्यपि_तु_कर्माणि...&oldid=418503" इत्यस्माद् प्रतिप्राप्तम्