एतैर्विमुक्तः कौन्तेय...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
- आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]एतैः विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! तमोद्वारैः एतैः त्रिभिः विमुक्तः नरः आत्मनः श्रेयः आचरति । ततः परां गतिं याति ।
शब्दार्थः
[सम्पादयतु]- तमोद्वारैः = नरकद्वारैः
- विमुक्तः = विवर्जितः
- श्रेयः = हितम्
- पराम् = उत्कृष्टाम्
- गतिम् = मोक्षाख्यं स्थानम्
- याति = अधिगच्छति ।
अर्थः
[सम्पादयतु]अर्जुन ! नरकद्वारैः एतैः कामादिभिः त्रिभिः विवर्जितः मानवः स्वस्य हितं यदि करोति तर्हि सः अत्यन्तप्रशंसनीयम् उत्कृष्टं मोक्षम् अधिगच्छति ।