सामग्री पर जाएँ

एस् एल् भैरप्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एस् एल् भैरप्पः
ಎಸ್ ಎಲ್ ಭೈರಪ್ಪ
जन्म सन्तेशिवर लिङ्गण्णय्य भैरप्प
(१९३१-२-२) २० १९३१ (आयुः ९४)
सन्तेशिवर, हासनमण्डलम्, कर्नाटकम्, भारतम्
मृत्युः २४ सेप्टेम्बर् २०२५ Edit this on Wikidata (आयुः ९४)
देशीयता भारतीया
शिक्षणस्य स्थितिः महाराज सयाजीराव गायकवाड़ विश्वविद्यालय, महाराजा कॉलेज, म्हैसूर Edit this on Wikidata
वृत्तिः लेखकः, कादम्बरीलेखकः, प्राध्यापकः
जालस्थानम् http://www.slbhyrappa.com/

परिचयः

[सम्पादयतु]

एस्. एल्. भैरप्पः (S. L. Byrappa) (कन्नडಸಂತೆಶಿವರ ಲಿಙ್ಗಣ್ಣಯ್ಯ ಭೈರಪ್ಪ) आधुनिके कन्नडसाहित्ये एतस्य कादम्बर्यः अत्यन्तं प्रसिद्धाः सन्ति । एताः कादम्बरीः अधिकाः जनाः पठन्ति । विंशतितमः शतमानः कादम्बरीयुगः इति निर्दिश्यते । अस्मिन् कालखण्डे ये लेखकाः जनानां हृदयस्पर्षं कृतवन्तः तेषु केचन लेखनवृत्तिमेव जीवनवृत्तित्वेन स्वीकृतवन्तः आसन् । केचन अन्यवृत्तौ रताः सन्तः कन्नडसाहित्यकृषिं कृतवन्तः सन्ति । लेखनकार्यं प्रवृत्तिरूपेण स्वीकृत्य, शिक्षणक्षेत्रे कार्यं कुर्वाणः अपि अत्यन्तं जनप्रिय जातः लेखकः अस्ति डा. एस्. एल्. भैरप्पः ।

तेन चीयमानं वस्तु, तस्य विस्तारीकरणं, तस्य अन्त्यकरणादिषु विषयेषु विभिन्नाः अभिप्रायाः यद्यपि श्रूयन्ते तथापि भैरप्पमहोदयस्य कादम्बर्यः बहून् वाचकान् नितराम् आकर्षति इत्येतत् निर्विवादकरमेव ।

जीवनम्

[सम्पादयतु]

हासनमण्डले चन्नरायपट्टणस्य सन्तेशिवरग्रामे १९३१तमे वर्षे अगस्ट्मासस्य २० तमे दिनाङ्के एस्. एल्. भैरप्पः जन्म प्राप्तवान् । एषः प्राथमिकशिक्षणं स्वस्य ग्रामे एव प्राप्तवान् । गृहे बहु दारिद्र्यम् आसीत् । दायित्वहीनः पिता । प्लेग्-मार्याः परिसरे अपि सः स्वस्य मातुः धैर्यं आत्मसात् कृतवान् आसीत् । तस्य पञ्चमे वयसि माता दारिद्र्यता-प्लेग्-रोगस्य कारणतः मरणं प्राप्नोत् । ततः सः कष्ठेन विद्याभ्यासं कृतवान् । महात्मागान्धिमहोदयस्य विचारैः नितराम् आकृष्टः सः स्वस्य त्रयोदशे एव वयसि स्वातन्त्र्यान्दोलनं प्रविष्टवान् !

प्रौढशिक्षणं महाविद्यालयपठनं च मैसूरुनगरे अनुवर्तितवान् भैरप्पः स्नातकोत्तरपदवीं सुवर्णपदकेन सह प्राप्तवान् । सः बरोडामहाराजसय्याजीरावविश्वविद्यालयतः सत्यं तथा सौन्दर्यम् इति नाम्ना आङ्लभाषया निर्मिताय महाप्रबन्धाय डाक्टरेट्-पदवीं प्राप्तवान् । हुब्बळ्ळीनगरे, गुजरात् राज्ये, देहल्यां च उपन्यासकवृत्तिं निर्वहन् एव प्रसिद्धाः कादम्बरीः अपि रचितवान् । १९६१ तमे वर्षे तदीया प्रसिद्धा कादम्बरी धर्मश्री तेन प्रकाशिता । दशकेषु २१ कादम्बरीः सः रचितवान् अस्ति । तेन रचितानां कादम्बरीणां विषये सर्वदा व्यापकचर्चाः भवन्ति । आङ्ग्लभाषाम् अपि अविहाय बह्वीषु भारतीयभाषासु भैरप्पस्य कादम्बर्यः अनूदिताः सन्ति । गृहभङ्ग, वंशवृक्ष, नेले, साक्षि, नायिनेरळु, तब्बलियु नीनादे मगने, दाटु, धर्मश्री, पर्व इत्यादयः हिन्दी तथा मराठी भाषासु जनप्रियाः सन्ति ।

'वंशवृक्ष', 'तब्बलियु नीनादे मगने', 'मतदान' कादम्बर्यः चलनचित्रस्य रूपाणि प्राप्य प्रशस्तीन् अपि प्राप्तवत्यः सन्ति । 'वंशवृक्ष' कादम्बर्याः कृते १९६६ तमे वर्षे कन्नडसाहित्य- अकाडेमी प्रशस्तिः, १९७५ तमे वर्षे 'दाटु' कादम्बर्याः कृते राज्यस्य केन्द्रस्य च साहित्याकाडेमीप्रशस्तिः प्राप्ता अस्ति । 'पर्व' कादम्बरी एव भैरप्प महोदयेन रचितासु कादम्बरीषु अधिकचर्चायै कारणम् अभवत् । महाभारतस्य कालस्य भारतीयसमाजस्य रीतिनीतीन्, तस्य कालस्य जीवनमौल्यानि, मरणस्य रहस्यात्मकतां च कादमबर्यां अर्थपूर्णतया लिखितवान् अस्ति लेखकः । लैङ्गिकतायाः मरणस्य च दृष्ट्यौ द्रौपदी, कुन्ती, माद्री, गान्धारिणां पात्रचित्रणं समीचिनरीत्या निरूपितवान् अस्ति ।

कादम्बरीन् विहाय साहित्यमीमांसासम्बद्धाः साहित्य मत्तु प्रतीक, कथे मत्तु कथावस्तु, नानेके बरेयुत्तेने इत्यादयः कृतयः अपि भैरप्प महोदयेन रचिताः सन्ति । अधुना अयं मैसूरुनगरे वसति । १९९९ तमे वर्षे कनकपुरे प्रचलितस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं समलङ्करोत् श्रीयुतः भैरप्पः ।

अधिकपठनाय ः भैरप्प महोदयस्य बाल्य कालस्य हृदयस्पर्शी चित्रणाय बेळगेरे कृष्णशास्त्री महोदयस्य मरेयलादीते इत्येषः व्यक्तिचित्रसङ्ग्रहः द्रष्टुं शक्यते ।

चित्रसमूहः

[सम्पादयतु]
भैरप्पस्य सम्मानसमारम्भे रा गणेशस्य भाषणम्
भैरप्पस्य सम्मानसमारम्भे लक्ष्मीनारायण भट्टस्य भाषणम्
सम्मानसमारम्भे गण्यव्यक्तयः

कृतिविमर्शः

[सम्पादयतु]

भैरप्पस्य कादम्बरीणां विषयचयनं महतः विवादस्य कारणं भवति । तस्य सर्वाः प्रमुखकृतयः (वंशवृक्ष, तब्बलियु नीनादे मगने, पर्व, सार्थ) भारतस्य पुरातनसंस्कृत्याः वैशिष्ट्यं निरूपयन्ति । एतस्मात् कारणात् विशेषतया नव्यलेखकाः एतस्य आक्षेपं कृतवन्तः । टिप्पु सुल्तान् महाराजः धर्मसहिष्णुः वा न वा इति विचारे गिरीश्कार्नाड्महोदयेन सह भैरप्पः विजयकर्णाटकपत्रिकायाः द्वारा वादं कृतवान् आसीत् । यु. आर्. अनन्तमूर्तिः भैरप्पस्य कादम्बरीणां प्रमुखः टीकाकारः । भैरप्पः एतान् वादविवादान् स्वस्य भित्ति इत्येतस्यां कादम्बर्यां नानेके बरेयुत्तेने इत्येतस्यां कृतौ च लिखितवान् अस्ति ।

भारतीयसंस्कृतेः उपरि सामाजिकपरिस्थितेः उपरि च मुस्लीम्शासनेन जातान् परिणामान् दर्शयन्, ऐतिहासिकसत्यं च दर्शयन् भैरप्पमहोदयः आवरणनामिकां कादम्बरीम् अरचयत् । अस्य विषये कर्णाटके महान् विवादः आरब्धः । भैरप्पः इतिहासनाम्ना समाजं भञ्जयति, अयमस्ति मूलभूतवादी इत्यादीनि निन्दनानि तेन प्राप्तानि । कादम्बर्याः लेखनाय एतस्य ज्ञानमेव नास्ति इति श्री अनन्तमूर्तिः आरोपितवान् आसीत् । ततः सुदीर्घचर्चा साहित्यलोके सम्पन्ना । 'अहं पूर्वाग्रहपीडितः नास्मि सत्यान्वेषणस्य फलमेव आवरणम्' इति आत्मसमर्थनम् अकरोत भैरप्पवर्यः । विजयकर्णाटकपत्रिकायां प्रकाशिता 'मतान्तर' 'कवलु' सम्बद्धा चर्चा जनानाम् आकर्षिका आसीत् ।

भैरप्प महोदयः ”महिलाप्रगतिविरोधी” इति अपि कैश्चित् निर्दिष्टः अस्ति । अस्य कारणात् एव ख्याता कादम्बरीलेखिका सारा अबूबक्कर् असूचयत् यत् केनापि तदीया कादम्बरी न पठनीया इति । ”अयं दक्षिणपन्थीयः” इत्यपि तस्य विषयकः कश्चन आरोपः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  • Interview with S L Bhyrappa – Times of India Archived २०१३-१०-०४ at the Wayback Machine
  • Pampa Award to Bhyrappa in 2001[नष्टसम्पर्कः]
  • Belagere Krishnashastri, Mareyaladeete, for a warm hearted interpretation of the author's experiences with Bhyrappa.
  • Bhyrappabhinandana, a feliciation book on S.L. Bhyrappa
  • S.L. Bhyrappa Avara Krutigala Vimarshe a collection of literary criticism on S.L.Bhyrappa's works compiled by Sumateendra Nadig
  • Mandra-Manthana, a collection of essays about S.L. Bhyrappa's novel, Mandra, by various literary critics
"https://sa.wikipedia.org/w/index.php?title=एस्_एल्_भैरप्प&oldid=480046" इत्यस्माद् प्रतिप्राप्तम्