ओमित्येकाक्षरं ब्रह्म....
दिखावट
श्लोकः
[सम्पादयतु]- ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
- यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ओम् इति एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यः प्रयाति त्यजन् देहं सः याति परमां गतिम् ॥
अन्वयः
[सम्पादयतु]सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च आत्मनः प्राणं मूर्ध्नि आधाय योगधारणाम् आस्थितः ओम् इति एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यः देहं त्यजन् प्रयाति सः परमां गतिं याति ।
शब्दार्थः
[सम्पादयतु]- सर्वद्वाराणि = सर्वाणि इन्द्रियाणि
- संयम्य = निगृह्य
- मनः = चित्तम्
- हृदि = हृदयपद्मे
- निरुध्य च = नियम्य च
- आत्मनः = स्वस्य
- प्राणम् = वायुम्
- मूर्ध्नि = शिरसि
- आधाय = स्थापयित्वा
- योगधारणाम् =समाधिम्
- आस्थितः = प्राप्तः
- ओम् इति एकाक्षरम् = एकाक्षररूपम् ओारम्
- ब्रह्म = ब्रह्मवाचकत्वात् तद्रूपम्
- व्याहरन् = उच्चारयन्
- माम् अनुस्मरन् = मां ध्यायन्
- यः = यः मानवः
- देहम् = शरीरम्
- त्यजन् = मुञ्चन्
- प्रयाति = गच्छति
- सः = सः मानवः
- परमाम् = उत्कृष्टाम्
- गतिम् = स्थितिम्
- याति = लभते ।
अर्थः
[सम्पादयतु]सकलप्रवेशद्वाराणि (नवद्वाराणि) निगृह्य चित्तं हृदये संस्थाप्य च स्वस्य प्राणं शिरसि स्थापयित्वा समाधिं प्राप्तः एकाक्षरं ब्रह्मवाचकत्वात् साक्षात् ब्रह्मरूपम् ओारम् उच्चारयन् मां ध्यायन् यः मानवः शरीरं मुञ्चति सः उत्कृष्टां गतिं लभते ।