ओङ्कार प्रसाद नैय्यर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ओ पी नैयर इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
ओम्कारप्रसद नय्यरः

ओङ्कार प्रसाद नय्यरः ख्यतहिन्दीचलच्चित्रसङ्गीतनिदेशकेषु अन्यतमः । चलच्चित्रजगति ओ.पि.नय्यरः इत्येव प्रसिद्धः । केचनं तं ओपी इत्येव सम्बोद्धयन्ति स्म । मुम्बै चित्ररङ्गस्य अविस्मरणीयगीतं "बाम्बे मेरी जान् " नय्यरस्य महद्योगदानम् । सर्वदा टोपिककञ्चुकेत्यादिभिः पाश्चात्यवेशभूषाभिः अलङ्कृतः हस्तेन चलनयष्टिं गृहित्वा मन्दस्मितः क्षेत्रे अटति स्म । अस्य ८१तमे वयसि एषः क्रि.श. २००७तमे वर्षे जनवरिमासस्य २७दिनाङ्के राणीनख्वि इत्यस्य गृहे अकस्मात् पतितः तत्रैव दिवङ्गतः ।

बाल्यं शिक्षा च[सम्पादयतु]

ओम्कारप्रसाद नय्यरस्य जन्म, कदाचित् भारतस्य अविभाज्याङ्गम् इव स्थिते पाकिस्ताने लाहोर् नगरे क्रि.श.१९२६तमे वर्षे जनवरिमासस्य १६दिनाङ्के अभवत् । भारतस्य विभजनानन्तरं सकुटुम्बः भारतस्य अमृतसरनगरम् आगच्छत् । तदानीन्तने काले लाहोरस्य चलच्चित्रक्षेत्रस्य ख्यातः निर्मापकः दल् सुख् पञ्चोली इत्येषः नय्यरस्य स्वरसंयोजकत्वेन प्रथमावकाशं प्रकल्पितवान् । क्रि.श.१९४९तमे वर्षे नय्यरः मुम्बैनगरम् आगच्छत् । इतः पूर्वम् एषः अमृतसरस्य आकाशवाण्याम् उद्योगी आसीत् ।

हिन्दीचलच्चित्रक्षेत्रे नूतनतरङ्गाः[सम्पादयतु]

क्रि.श.१९४९तमे वषे "कनीज़् " चलच्चित्रस्य गीतानां स्वरसंयोजनेन अस्य सङ्गीतनिदेशकस्य वृत्ते आरम्भः अभवत् । सामान्यतः सार्धद्विदशकवर्षेषु ६९चलच्चित्राणां सङ्गीतसंयोजनं कृत्वा सङ्गीतरसिकानां मनांसि जितवान् । के.के.कपूर् इति कश्चित् चलच्चित्रवितरकः नटनिर्देशकाय गुरुदत्ताय अस्य परिचयं कारितवान् । तदा गुरुदत्तः स्वजायया सह "आर् पार् " इति चलच्चित्रनिर्माणस्य त्वरायाम् आसीत् । २५वर्षवयस्य दीर्घकृशकाये ओ.पि.नय्यरे गुरुदत्तस्य कार्यविश्वासः नोदितः । किन्तु तस्य पत्नी गीता नय्यरं विश्वस्य कार्यावकाशं कल्पितवती । एतेषां त्रयाणां समवायेन " सि.ऐ.डि.", " आर् पार् ", "मिस्टर् एण्ड् मिसस् ५५ " चलच्चित्राणि लोकार्पितानि । नय्यरस्य कण्ठश्रिया " कहीं पे निगाहे कहीं पे निशानी ", "बूझ् मेरा क्या गांव् रे ", "यह लो मै हारी पिय ", "बाम्बे मेरी जान् " इत्यादीनि चित्रगीतानि प्रसिद्धानि अभवन् । हौरा ब्रिज़् इति चलच्चित्रस्य "मेरा नाम् चिं चीं चू " गीतादत् गीतवती । गीतं प्रसिद्धं च अभवत् ।

नूतनप्रतिभाः अन्विष्य क्षेत्रे अनीतवान्[सम्पादयतु]

ओ.पि.नय्यरस्य गृधृदृष्टौ उत्तमाः प्रतिभाः बहुशीघ्रं आगच्छन्ति स्म । अद्यतनप्रख्याननामानि आशा भोंसले, महम्मद रफी इत्यादीन् चलच्चित्ररङ्गे परिचयं कारितवान् इति कीर्तिः अस्य अस्ति । न्यू थियेटर् समवायस्य रायचन्द बोरालाल् सहायेन घोडा गाडी शब्दस्य सङ्गीतं बहुजनप्रियम् अभवत् । अनन्तरदिनेषु भागम्भाग्, मिस्टर् लम्बू, जानिवाकर्, कार्टूनिस्ट् एम्.ए., कल्पना, रागिणि इत्यादिषु चलच्चित्रेषु रागवैभवं लोकाय अर्पितवान् ।

नया दौर् तदानीन्तनकाले ख्यातं चलच्चित्रम्[सम्पादयतु]

क्रि.श.१९५४तमे वर्षे बि.आर्. चोपडा लञ्छने निर्मितस्य " नया दौर् " इति चलच्चित्रस्य अनेन रागबद्धगीतानि जनप्रियानि अभवन् । अस्य एतत् कार्यम् अस्य जीवनस्य दिशाम् एव पर्यवर्तयत् । नूतनगायिकायाः आशायाः गानमाधुर्यं जनाकर्षकम् अभवत् । अनया कारणेन लतामङ्गेश्कर् इत्यस्याः कण्ठेन विना अपि चलच्चित्राणि ख्यातानि अभवन् । एतेयोः समवायेन निर्मितानि चलच्चित्राणि जयभेरिम् अनादयन् । " यहि वह् जगाह् है ", " बलम खुलि हवा में " " छोटा सा बालम् ", रातों को चोरी चोरी ", " जले मेरा जियारा " ज़र होल्ले होल्ले चलो मेरा साजना " इत्यादीनि गीतानि अस्य सङ्गीतसंयोजनेन महम्मद रफीमहोदयेन गीतानि प्रसिद्धागानानि ।

शम्मीकपूरः अस्य सङ्गीतम् अधिकम् ऐच्छत्[सम्पादयतु]

मध्ये कञ्चित्कालं विश्रान्तः ओ.पि.नय्यरः तत्कालीनस्य श्रेष्ठाभिनेतुः शम्मीकपूरस्य चलच्चित्रानुरूपं सङ्गीतस्वरसंयोजनं कृत्वा विक्रमं साधितवान् । कानिचन उदाहरणानि " तुम्सा नही देखा " , " काश्मीर् की कली ", " दिवाना हुआ बादल् " इत्यादीनि चलच्चित्राणि । अस्य विशेषगुणः इत्युक्ते एषः कमपि महापताकयुक्तं समवायम् अन्विष्य न गतवान् । बि.आर्.चोपडा द्वितियवारं आह्वानं न दत्तवान् । " यह रात् फिर् न आयेगी ", " मेरे सनम् ", " एक् मुसाफिर् एक् हसीना " " बहारे फिर् भी आयेगी " , इत्यादीनां चलच्चित्राणां नय्यरस्वरसंयुक्तानि गीतानि जनरञ्जकानि अभवन् ।

देवानन्दः अस्य प्रियाभिनेता[सम्पादयतु]

क्रि.श. १९५९तः ६०तमे काले, राज् कपूरस्य " दो उस्ताद् " , देवानन्दस्य " जाली नोट् " चलच्चित्रयोः सङ्गीतसंयोजनं चित्रलोके तावन्तं प्रभावं नाकरोत् । यदा ख्यातस्य रफीमहोदयस्य उपलभ्यता नासीत् तदा महेन्द्रकपूर् इत्याख्यं गायकेन कार्यं समचालयत् । किशोरकुमारः अपि अनेन सह कार्यं कृतवान् ।

नय्यरस्य स्थानम् आर्.डि.बर्मन् आक्रान्तवान्[सम्पादयतु]

२०वर्षाणि भारतस्य हिन्दीभाषाचलच्चित्रजगति अनभिषिक्तः साम्राट् इव स्थित्वा स्वस्य मोघप्रतिभया लोकस्य सङ्गीततृषां तर्पयन् आसीत् आर्.डि.बर्मन् वर्यः । क्रि.श.१९७०तमे तस्मिन् कालखण्डे झञ्झावातः इव हिन्दीचलच्चित्रलोकं प्रविश्य नूतनम् आयामम् आनयत् । क्रि.श.१९९०तमे वर्षे "अन्दाज़् अप्ना अप्ना " इति चलच्चित्रेण पुनः उत्थातुम् अयतत । किन्तु क्रमेण कोणे गतवान् । क्रि.श.१९९२तमे वर्षे "निश्चय्" इति चित्रस्य रागसंयोजनम् अपि ख्याति आनेतुम् असमर्थम् अभवत् ।

अन्तिमदिनानि[सम्पादयतु]

क्रि.श. २००७वर्षस्य जनवरिमासस्य २६दिने गणराज्योत्सवस्य समारोहे, मुम्बै नगरस्य मैसूर् असोसियेषन् इत्यस्य वैभवयुते सभाङ्गणे देशसेवासमितिः इति काचित् संस्था ओ.पि.नय्यरः वर्यस्य मधुरगीतानि चर्वितुं " फिर् वहि दिल् लाया हूँ " इति कार्यक्रमम् आयोजयत् । अस्वस्थः चेदपि नय्यरः तत्र आगतवान् । यदा "थण्डी हवा काली घटा " इति गीतं बीना देसायी इत्याख्या गायन्ती अशीत् तदा नय्यरः उत्थाय, गीते विशेषं भवं पूरयित्वा गायतु इति सूचितवान् । तत्र सम्मानितः " मम कोऽपि प्रयत्नः नास्ति नाहं सङ्गीतज्ञः सर्वं भगवतः कृपा " इति स्वप्रश्रयं प्रदर्शितवान् ।

गृहे मानसिकाशान्तिः[सम्पादयतु]

दक्षिणभारतस्य तेलुगुभाषायाः नीराजनम् इति चलच्चित्रस्य गीतानां रागं संयोजितवान् । क्रि.श.१९९४तमे वर्षे स्वस्य पुनरेकं कर्यम् अपयशः अवाप्नोत् इति ज्ञात्वा स्वस्य कार्यं समापितवान् । ततः परं प्रतिभाप्रदर्शनकार्यक्रमेषु, दूरदर्शनवाहिनीनां कार्यक्रमेषु च पारितोषिकवितरणं कर्तुम् आह्वानं प्राप्नोति स्म । तस्य पश्चिमे वयसि दुःखयुतं ज्ञात्वा स्वयं बहुखेदम् अनुभावति स्म । स्वस्य मरणवार्तां बन्धुभ्यः न सूचयन्तु इति मित्राणि प्रार्थितवान् आसीत् ।

चलच्चित्रसङ्गीतासंयोजनम्[सम्पादयतु]

  • नय्यरः ६९चलच्चित्राणां गीतानि स्वरसंयोगं कृतवान् । तानि एवं सन्ति ।
  • क्रि.श. १९४९ - १
  • क्रि.श. १९५२ - २
  • क्रि.श. १९५३ - १
  • क्रि.श. १९५४ - ३
  • क्रि.श. १९५५ - ६
  • क्रि.श. १९५७ - ७
  • क्रि.श. १९५८ - ९
  • क्रि.श. १९५९ - १
  • क्रि.श. १९६० - ४
  • क्रि.श. १९६१ - २
  • क्रि.श. १९६३ - १
  • क्रि.श. १९६४ - १
  • क्रि.श. १९६५ - १
  • क्रि.श. १९६६ - ४
  • क्रि.श. १९६७ - २
  • क्रि.श. १९६८ - ५
  • क्रि.श. १९६९ - ೨
  • क्रि.श. १९७१ -१
  • क्रि.श. १९७३ - १
  • क्रि.श. १९७४ -१
  • क्रि.श. १९७८, क्रि.श.१९७९, क्रि.श.१९८०, क्रि.श.१९९೨, क्रि.श.१९९४, क्रि.श. २००० वर्षेषु एकैकं चलच्चित्रम् ।

अस्य कानिचन जनप्रियानि चलच्चित्रगीतानि[सम्पादयतु]

  • क्रि.श. १९५४ तमेवर्षे जाने काहाँ मेरा , जिगर गया जी, ये लो मैने हारी पिय, आर् पार् ।
  • क्रि.श. १९५५ तमेवर्षे बूझ् मेरा क्या गंव् रे
  • क्रि.श. १९५७ तमेवर्षे माङ्ग् के साथ् तुम्हारा, उदे जब् जब् झल्पे तेरी, यह देश् ह् ऐ वीर् जवानों का, नया दौर्,
  • क्रि.श. १९५८तमेवर्षे मेरा नाम चिं चिं चू.. (हौरा ब्रिज़् )
  • क्रि.श. १९६० तमेवर्षे देखो कसम् से, ( तुम् सा नहि देखा) तुम् सा नहि देखा ।
  • क्रि.श. १९६४ तमेवर्षे येह् चान्द स रोशन चहर (काश्मीर की कलि)
  • क्रि.श. १९६८तमेवर्षे आवो हुझूर् तुमको (किस्मत्)
  • क्रि.श. १९७२ तमेवर्षे चैन् से हमको कभी, आप् ने जीने न दिया (प्राण जाये पर् वचन् न जाये)
  • क्रि.श. १९७२ तमेवर्षे, यह् बम्बे मेरी जान् ।
  • क्रि.श. १९७२ तमेवर्षे, बहुत् शुकरिया बडि मेहरबानी, (एक् मुसाफिर् एक हसीना)
  • इशारों से इशारों में ।
  • एक् परदेशि मेरा दिल् ले गया (फागुन्)
"https://sa.wikipedia.org/w/index.php?title=ओङ्कार_प्रसाद_नैय्यर&oldid=364775" इत्यस्माद् पुनः प्राप्तिः