कच्चिन्नोभयविभ्रष्टः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कच्चिन् न भयविभ्रष्टः छिन्नाभ्रम् इव नश्यति अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥

अन्वयः[सम्पादयतु]

महाबाहो ! उभयविभ्रष्टः अप्रतिः ब्रह्मणः पथि विमूढः छिन्नाभ्रमिव न नश्यति कच्चित् ।

शब्दार्थः[सम्पादयतु]

महाबाहो = दीर्घबाहो ! (कृष्ण)
उभयविभ्रष्टः = मार्गद्वयप्रच्युतः
अप्रतिः = निराश्रयः
ब्रह्मणः = परमात्मनः
पथि = अध्वनि
विमूढः = सम्मूढः
छिन्नाभ्रम् इव = भिन्नमेघः इव
न नश्यति कच्चित् = न प्रणश्यति किम् ।

अर्थः[सम्पादयतु]

ब्रह्मप्राप्तिमार्गे मोहमापन्नः निराश्रयः कर्ममार्गात् योगमार्गात् च यः विभ्रष्टः सः वायुना विच्छिन्नः मेघखण्डः इव । सः न नश्यति किम् ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]