कबड्डिक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कबड्डीक्रीडा
कबड्डीक्रीडा
कबड्डीक्रीडा

कबड्डिक्रीडा(Kabaddi Sport) भारतस्य राष्ट्रियक्रीडयोः अन्यतरा क्रीडा ।

कबड्डिक्रीडाशैली

दक्षिण-एष्याखण्डप्रदेशे कबड्डिक्रीडा मल्लक्रीडासु अन्तर्भवति इति मन्यते ।

इतिहासः[सम्पादयतु]

  • १९३६ तमे वर्षे जर्मनीदेशस्य बर्लिन्-नगरे ओलम्पिक्-क्रीडोत्सवे प्रथमवारं कबड्डिक्रीडायाः प्रदर्शनम् अभवत् । अस्य प्रदर्शनं महाराष्ट्रराज्यस्य अमरावति प्रदेशस्य हनुमान् व्यायाम-प्रसारकमण्डलस्य सदस्याः प्रदर्शितवन्तः ।
  • १९३८ तमे वर्षे भारतीय ओलम्पिक्-क्रीडोत्सवे कोलकतानगरे कबड्डिक्रीडा प्रथमवारं क्रीडारूपेण आरब्धा ।
  • १९५० तमे वर्षे अखिलभारतीय कबड्डि फेडरेशन्इति संस्था आरब्धा । अनया संस्थया अस्याः क्रीडायाः आदर्शनियमाः निर्दिष्टाः ।
  • १९७३ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया(AKFI)संस्थायाः स्थापना जाता ।
  • १९५५ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थायाः स्थापनानन्तरं प्रथमवारं राष्ट्रियस्तरे पुरुषाणां स्पर्धा चेन्नैनगरे आयोजिता आसीत् । एवं महिलानां स्पर्धा कोलकतानगरे आयोजिता आसीत् ।
  • अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्था कबड्डिक्रीडायाः नियमान् परिणतरूपं निर्मितम् ।
  • जनार्दन सिंह गेह्लत् वर्यस्य आध्यक्षे एष्यन् कबड्डि फेडारेशन् इति संस्था स्थापिता ।
  • १९७९ तमे वर्षे जपान्-देशे कबड्डिक्रीडायाः परिचयः अभवत् । तथा च जनप्रियता अपि प्राप्ता । अस्याः क्रीडायाः परिचयं कारयितुम् अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थया प्रवाचकः सुन्दररामवर्यः जपान्देशाय प्रेषितः आसीत् ।

कबड्डिक्रीडायाः प्रकाराः[सम्पादयतु]

१ सञ्जीवनी[सम्पादयतु]

सञ्जीवन्यां एकः क्रीडालुः बाह्यः भवति चेत्, तस्य क्रीडालुः कृते विरुद्धगणस्य विरुद्धं क्रीडनीयं भवति । क्रीडायाः समयः, क्रीडलोः संख्याः, क्रीडाङ्गणस्य विस्तीर्णता इत्यादि अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थाद्वारा निर्दिष्टं वर्तते । एषा क्रीडा ४० निमिषानि क्रीडन्ति । क्रीडायाः मध्ये ५ निमिषं विरामः भवति । अत्र ९ क्रीडालवाः प्रत्येकस्मिन् गणे क्रीडन्ति । अत्र यः क्रीडालुः प्रतिस्पर्धिगणस्य क्रीडाङ्गणे कबड्डि, कबड्डि,... इति वदन् गन्तव्यं भवति । परन्तु, अत्र उच्चारणस्य शब्दः प्रदेशानुसारं भिद्यते ।

२ गामिनी[सम्पादयतु]

गामिन्यां ९ क्रीडालवाः प्रत्येकस्मिन् गणे क्रीडन्ति । अत्र क्रीडाङ्गाणः नियततया विस्तीर्णं न भवति । अत्र विरुद्धगणस्य सर्वे क्रीडालवः यावत् पर्यन्तं बाह्याः न भवन्ति तावत् पर्यन्तं क्रीडनीयं भवति । अत्र समयस्य निर्धारणं न भवति ।

"https://sa.wikipedia.org/w/index.php?title=कबड्डिक्रीडा&oldid=400243" इत्यस्माद् प्रतिप्राप्तम्