कर्तृकारकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

“स्वतन्त्रः कर्ता”(१.४.५४) इति सूत्रेण कर्तृसंज्ञा विधीयते । क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति अस्य सूत्रस्य अर्थः । स्वातन्त्र्यं नाम व्यापाराश्रयत्वम् । एवञ्च व्यापाराश्रयः कर्ता इति फलितोऽर्थः । फलं व्यापारश्च धात्वर्थः । तत्र व्यापारस्य यः आश्रयः, सः कर्ता भवति । उदा – गोविन्दः पचति । पच्-धातोरर्थः – पाकव्यापारः(पाकक्रिया) । सा क्रिया पाचके अस्ति । तथा च पाकक्रियायाः आश्रयः गोविन्दः । अतः गोविन्दः कर्ता । धात्वर्थः – फलं व्यापारः च इति उक्तम् । तत्र व्यापारस्य यः आश्रयः सः कर्ता भवाति । यथा –सूदः पचति । पच् धातोरर्थः =पाकक्रिया (पाकव्यापारः) । सा क्रिया कुत्र अस्ति ? सूदे अस्ति । तथा च पाकक्रियायाः आश्रयः सूदः । अतः सूदः कर्ता ।

उदाहरणम्[सम्पादयतु]

  1. बालः खादति । खाद्धातोः अर्थः भक्षणक्रिया । सा क्रिया बाले अस्ति । अतः क्रियायाः आश्रयः बालः । अतः बालः कर्ता ।
  2. वटुः लिखति । लिखधातोः अर्थः लेखनक्रिया । सा क्रिया वटौ अस्ति । अतः लेखनक्रियायाः आश्रयः वटुः । अतः वटुः कर्ता ।
  3. सुर्यः प्रकाशते । धात्वर्थः प्रकाशनक्रिया । सा क्रिया सूर्ये अस्ति । अतः प्रकाशनक्रियायाः आश्रयः सूर्यः । अतः सूर्यः कर्ता ।

सम्बद्धाः लेखाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्तृकारकम्&oldid=409131" इत्यस्माद् प्रतिप्राप्तम्